भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.28

6.28.1

सर्वे लवणवर्ज्यास् तु रसा मद्ये प्रतिष्ठिताः ।
तीक्ष्णं चोष्णं तथा सूक्ष्ममाशुकारि व्यवायि च ॥

6.28.2

दीपनीयं च हृद्यं च सर्वभूतहितं लघु ।
चिन्ताशोर्कक्लमहरं रतिप्रीतिविवर्धनम् ॥

6.28.3

हर्षस्थाने हर्षकरं भयस्थाने भयापहम् ।
रतिविहारजननं द्युतिशौर्यकरं परम् ॥

6.28.4

शरीरावयवान् सर्वाननुगच्छत्यणूनपि ।
तैक्ष्ण्यान् मोहयते चित्तम् औष्ण्यात् पित्तकरं च तत् ॥

6.28.5

हृद्यं वैशद्यभावाच् च रौक्ष्यान्मारुतकोपनम् ।
श्लेष्मघ्नं तीक्ष्णभावच् च हर्षणाद् वृष्यमुच्यते ॥

6.28.6

मद्यावचारणात्तस्य कुपितौ पित्तमारुतौ ।
शोषयेतां रसवहाः सिराः क्लोम च तालु च ॥

6.28.7

तृषापरीतस्सो ऽ त्यर्थं पानमेवाभिनन्दति ।
पीतं पीतं शोषयतो देहे तस्याग्निमारुतौ ॥

6.28.8

गच्छत्याशु जरां देहे सिकतायामिवोदकम् ।
तस्माद् अहोरात्रम् अपि पिबतः पानसेविनः ॥

6.28.9

तृष्णा नोपशमं याति पानं जीर्यति चाशु च ।
भ्रामितस्य तु मद्येन पित्तं वायुश् च देहिनः ॥

6.28.10

विहीने चित्तमनसि बुद्धिं पीडयतस्ततः ।
स रोदिति प्रहरति विसृजत्यति धावति ॥

6.28.11

पतत्युत्पतते हन्ति बह्वबद्धं च भाषते ।
गच्छत्यगम्यामन्यां च कार्याकार्ये न बुध्यते ॥

6.28.12

तथा श्वभ्रे च पतति शेते च मृतशायिकाम् ।
नग्नो विशेद्विचैतन्यं विचरेद्धि विचेतनः ॥

6.28.13

ईदृशो ऽ पि भवेन्मत्तः पानेनोन्मथितेन्द्रियः ।
प्रमाणेन पिबेन्मद्यं नातिसेवेत पण्डितः ॥

6.28.14

युक्त्या तु सेव्यमानं तत्पानं चामृतमुच्यते ।
पानं तद्भोजने ऽ त्यर्थं रुचिमन्तं करोति च ॥

6.28.15

हर्षं जनयते स्त्रीषु तज्जरोगं चिकित्सकः ।
पानेनैव प्रशमयेन्नान्यत्तस्य चिकित्सितम् ॥

6.28.16

तस्मान्मद्यं निषेवेत शुभ्राणि वचनानि च ।
भजेल्लघूनि चान्नानि जाङ्गलान्न मृगद्विजान् ॥

6.28.17

स्नानं सुगन्धैः स्नानीयैः कृत्वा त्वगनुलेपनम् ।
शब्दान् मनोज्ञान् शृण्वंश् च मनोज्ञैस्सह बन्धुभिः ॥

6.28.18

गृहे ऽ त्यन्तसुखे ह्येतत् कुर्यात् प्रस्थोत्तरोत्तरम् ।
कान्तास्सुमध्यवयसः तनुमध्याश्शुचिस्मिताः ॥

6.28.19

चन्द्रपादान्मनोहृष्टाश्चित्रमाल्याम्बरस्रजः ।
चतुराः क्षौमवसना मुक्तामणिविभूषिताः ॥

6.28.20

रक्तचन्दनदिग्धाङ्गा मनोज्ञा मणिमेखलाः ।
ताः समालिङ्ग्य शयने शयीताप्रतिमाः स्त्रियः ॥

6.28.21

योषितो वै प्रधाना वै शीतस्पर्शाः स्वभावतः ।
नृणां स्वभावतश् चैव नार्यो हर्षविवर्धनाः ॥

6.28.22

सोमो हि शिशिरो धातुर्हृदि हर्षात् प्रवर्धते ।
तस्माद् आलापसंलापैस्संवाहनविनोदनैः ॥

6.28.23

नारीं प्रहर्षजननीं सेवेताशु मदात्यये ।
गीततूर्यस्वनास् तत्र सुहृदश् च मदोत्कटाः ॥

6.28.24

प्रियानुवर्ति गायन्तो हर्षं कुर्युर्मदात्यये ।
निर्दोषाणि च मद्यानि युक्तानि शिशिरैर्जलैः ॥

6.28.25

तानि तानि शुभैर्मासैः सोपदंशानि पाययेत् ।
पानकानि च मुख्यानि षाडवांस्तर्पणानि च ॥

6.28.26

तवक्षीरीं सचुक्रीं च सेवेतासौ मदात्यये ।
तक्रं द्राक्षारसस्सीधुस्तैत्तिरीको रसो मधु ॥

6.28.27

आरनालं च शुक्रं च कोलदाडिमयो रसौ ।
लाजाः सन्तर्पणाश् चैव सूक्ष्माश् च यवतर्पणाः ॥

6.28.28

सौवर्चलमजाज्यश् च सैन्धवं लवणं तथा ।
शिशिरेण जलेनैतत्तर्पणं पानवत्पिबेत् ॥

6.28.29

मातुलुङ्गोपदंशं च हन्यात् पानात्ययं नृणाम् ।
लाक्षारसस्तैत्तिरीको दाडिमस्य रसो मधु ॥

6.28.30

पूर्वकल्पेन पातव्यं सम्पन्ने पानविभ्रमे ।
कर्कन्धुबदराणां च प्रस्थं कुर्यात् सुकुट्टितम् ॥

6.28.31

द्विप्रस्थे गालयंस्तोये सप्तकृत्वः पुनः पुनः ।
मृण्मये तत्र वै भाण्डे स्वनुगुप्तं निधापयेत् ॥

6.28.32

द्वे च दद्याद् गुडपले शर्करायाः पलं तथा ।
सूक्ष्मं च मरिचात्कर्षं चतुर्थं केसरस्य च ॥

6.28.33

त्वक्पत्रधरणे द्वे च सूक्ष्मैलाकर्षम् एव च ।
अमृणालार्धकर्षं च सूक्ष्मचूर्णानि कारयेत् ॥

6.28.34

जातीवासनयोपेतं पानकं पानविभ्रमे ।
नाशयत्याशु पानेन छिन्नाभ्राणीव मारुतः ॥

6.28.35

एतच्छर्दिं तृषां दाहमतिसारं प्रवाहिकाम् ।
अरुचिं मूत्रकृच्छ्रं च हन्यात् पानात्ययं नृणाम् ॥

6.28.36

काश्मर्यं दाडिमं द्राक्षां मधुकं सपरूषकम् ।
कुटजानि च संक्षुद्य प्रक्षिपेत्तज्जलाढके ॥

6.28.37

सूक्ष्मैलामधुकं लोध्रं मञ्जिष्ठा पिप्पली तथा ।
एतानि सूक्ष्मचूर्णानि दद्यान्मानं च युक्तितः ॥

6.28.38

केसरं चात्र दातव्यं पुष्पं नीलोत्पलस्य च ।
एतत्पानात्यये देयं तृषाच्छर्दिनिवारणम् ॥

6.28.39

द्वे गुडूची पले द्वे च बला द्विपलम् एव च ।
लामज्जकमृणालाभ्यां द्वे पले मधुकोत्पलम् ॥

6.28.40

एतान्यापोथ्य देयानि नवे भाण्डे जलाढके ।
गुडस्य च पलान्यष्टौ दद्यान्नीलोत्पलं तथा ॥

6.28.41

एतत्पानात्यये देयं पानकं केसरैर्युतम् ।
ज्वरदाहतृषाश्वासच्छर्दिहिक्काश्च नाशयेत् ॥

6.28.42

यदि संशमनैरेतैर्न शाम्येत्पानविभ्रमः ।
पाययेत् तं त्रिवृच्चूर्णं युक्त्या मद्येन संयुतम् ॥

6.28.43

पिबेद्विरेचनं चूर्णं महातर्पणम् एव वा ।
पूर्वोक्तान्मोदकांश् चापि भक्षयित्वा पिबेत्सुराम् ॥

6.28.44

वमनीयं यदा विद्यात् तदैनं वामयेद् भिषक् ।
वमनैर्मद्यसंयुक्तैश्चूर्णैः पाचनकैर् अपि ॥

6.28.45

यवक्षारैश् च संसर्गीं तस्य कुर्याच् चिकित्सकः ।
न हि पेयाः प्रशस्यन्ते मनुष्याणां मदात्यये ॥

6.28.46

मदात्यये न शस्यन्ते यवाग्वो दोषनाशनाः ।
जाष्यात् पानस्य पीतस्य वेगं जनयते पुनः ॥

6.28.47

तन्मद्यशेषं संवृद्धं कुर्वाद् घोरानुपद्रवान् ।
तस्मात् पानात्यये ऽ पथ्याः स्नेहाः पेया यवाग्वपि ॥

6.28.48

सूक्ष्माणि देहस्रोतांसि मद्यं समनुधावति ।
तिष्ठत्यवयवैश् चान्यस्रोतस्सु विषमेष्व् अपि ॥

6.28.49

विष्वग्धृतांस् तु कोष्ठस्थान् कोपयत्यानिलादिकान् ।
धातवस्ते खरीभूता विवृद्धाः पानदूषिताः ॥

6.28.50

पानेन सह संसृष्टा जनयन्त्य् आमयान् बहून् ।
व्यवायि मद्यमुद्दिष्टं विशेषेण मनीषिभिः ॥

6.28.51

ये तु सूक्ष्मादिविषया मद्यादीननुयान्ति वै ।
न हि तान्विषयानन्यो रसश्शक्तो विधारितुम् ॥

6.28.52

तस्मात् पानात्ययार्तानां मद्यमेवौषधं परम् ।
स्वा हि योनिश् च तत्पानं प्रलीनं कोष्ठमाश्रितम् ॥

6.28.53

वशीभूतं प्रयत्नेन महास्रोतः प्रपद्यते ।
आर्तस्य मद्यसंयुक्तान्य् औषधान्य् अपि सर्वशः ॥

6.28.54

मद्यात्यये प्रकुर्वीत क्रियाः शीताश् च सर्वशः ।
अतश् च मद्यसंयुक्तास्तर्पणाः खलु देहिनः ॥

6.28.55

देयाश् चातिविरिक्ताय स्रोतसां शोधनाय च ।
औष्ण्यात् तैक्ष्ण्याद्विकासित्वाद् व्यवायित्वाच् च रौक्ष्यतः ॥

6.28.56

तुल्यं हि रसवीर्याभ्यां विषं मद्यं च कीर्तितम् ।
तस्मात् तत्तत्क्रियास्सर्वा विषवत्समुपाचरेत् ॥

6.28.57

क्लेदनं तीक्ष्णमुष्णं च विदाह्यञ्जननावनम् ।
तस्माद् उष्णोदकं स्वेदं धूमं पानं च सर्पिषः ॥

6.28.58

ज्वालानलं तु सर्वेषां यवागूश्च विवर्जयेत् ।
दधि दुग्धं च शाकं च ग्राम्यानूपौदकानि च ॥

6.28.59

तिलपिष्टकृतं चैव पानरोगी विवर्जयेत् ।
शालीन् सषष्टिकान् मुद्गान् जाङ्गलान्मृगपक्षिणः ॥

6.28.60

पानात्यये प्रशंसन्ति भोजनेषु चिकित्सकाः ।
समेषु धातुकोपेषु विविक्तेषु च मे शृणु ॥

6.28.61

अतिमात्रं यदा पानं पीतं कोपयते ऽ निलम् ।
संदृश्य वातिकं रूपं तस्य कुर्याच् चिकित्सितम् ॥

6.28.62

सौवर्चलव्योषयुतं मद्यं माक्षिकसंयुतम् ।
चुक्रं दाडिमसंयुक्तं वातपानात्यये हितम् ॥

6.28.63

तोयं मद्यं च शुक्तं च दधि त्वम्लं च काञ्जिकम् ।
समाक्षिकस्तर्पणो ऽ यं वातपानात्यये हितः ॥

6.28.64

अभ्यङ्गो मर्दनं स्नानं पानान्यर्धोदकानि च ।
व्यक्ताम्लव्योषसंयुक्तान् रसान् व्रीहींश् च शीलयेत् ॥

6.28.65

छागलं तैत्तिरं क्रौञ्चं कौक्कुटं बार्हिणं तथा ।
वातपानात्ययार्तानां भोजनार्थं हितं नृणाम् ॥

6.28.66

आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम् ।
पूर्वकल्पेन पातव्यं पानकं वातरोगिणाम् ॥

6.28.67

चव्यं सौवर्चलं हिङ्गु मातुलुङ्गमहौषधम् ।
तथाजमोदचूर्णं च मद्येन सह पाययेत् ॥

6.28.68

पानात्यये पित्तकृते पानकं शर्करायुतम् ।
पिबेन्माक्षिकसंयुक्तमर्धतोयपरिप्लुतम् ॥

6.28.69

केचित्पानं तु गर्हन्ति पित्तपानात्यये नृणाम् ।
तन्मद्यान्न हि चेच्छक्यं विना चान्यैश्चिकित्सितुम् ॥

6.28.70

संयुक्तं तद्धि पित्तघ्नैर्मद्यमेवापि सेव्यते ।
विदार्यामलकानां च रसैरिक्षुरसेन वा ॥

6.28.71

मधूकमधुकाश्मर्यखर्जूरं नीलमुत्पलम् ।
पानकं मद्यसंयुक्तं पूर्वकल्पेन साधयेत् ॥

6.28.72

आर्द्रक्षौमपरिच्छन्ना मुक्तामणिविभूषिताः ।
श्यामाश्चन्दनदिग्धाङ्गाः स्वप्यादाश्लिष्य योषितः ॥

6.28.73

मद्यं खर्जूरकल्केन पिबेद् इक्षुरसेन वा ।
पक्वं पीलुरसं वापि वार्ताकीरसम् एव वा ॥

6.28.74

रसो द्राक्षाविदारीभ्यां मद्यमिक्षुरसो मधु ।
पित्तपानात्ययार्तानामेतत्पानं हितं नृणाम् ॥

6.28.75

दृतिं हिमाम्बुसम्पूर्णां गन्धमाल्यसमुच्छ्रिताम् ।
स्वप्यात् परिष्वज्य गृहे पित्तपानात्ययार्दितः ॥

6.28.76

सरांसि वनराजिश् च नलिनी फुल्लपङ्कजा ।
भवेत्पङ्कजपत्रैश् च शयनं चन्दनोक्षितम् ॥

6.28.77

उपगूह्य मृणालानि कल्हारकुसुमानि च ।
शयीत जलसंसृष्टव्यजनैर् उपवीजितः ॥

6.28.78

पानात्यये पित्तकृते शस्त्राशनिविषोपमे ।
जाङ्गलैर्घृतसंयुक्तैर्भोजयेद् रक्तशालिकान् ॥

6.28.79

मुद्गयूषेण वा शीतं भोजन्मृदुलौदनम् ।
त्रिफलायाः कषायं वा पिबेन्मद्येन संयुतम् ॥

6.28.80

क्षौद्रेण रसमिक्षोर्वा त्रिवृत्कल्केन वा पुनः ।
त्रिफलात्वङ्मधूकानि पद्मकं पद्मकेसरम् ॥

6.28.81

नीलोत्पलं मृणालानि नलदं चन्दनं बलाम् ।
सिद्धं कषायं शीतं तैः शर्करामधुसंयुतम् ॥

6.28.82

किंचिन्मद्येन संयुक्तं पित्तपानात्यये हितम् ।
द्राक्षा पीलूनि पक्वानि खर्जूराणि परूषकम् ॥

6.28.83

भव्यं पनसमज्जा च मज्जा तालफलस्य च ।
आपोथ्य तानि सर्वाणि पलांशानि जलाढके ॥

6.28.84

चतुर्भागावशेषं तु नवे कुम्भे समावपेत् ।
दत्वा सितापलान्यष्टौ पलं नीलोत्पलस्य तु ॥

6.28.85

तत्पिबेत्पानकं युक्त्या पित्तपानात्ययार्दितः ।
श्लैष्मिके पानरोगे च मद्येन वमनं हितम् ॥

6.28.86

पटोलं पिचुमन्दं च मदनस्य च पल्लवम् ।
गुडूची चाटरूषश् च त्रिफला पारिभद्रकः ॥

6.28.87

कषायं पाययेद् एतं शीतं माक्षिकसंयुतम् ।
नित्यं सेवेत तिक्तानि कषायकटुकानि च ॥

6.28.88

जाङ्गलानि च मांआनि सेवेत मृगपक्षिणाम् ।
पिबेत्कुटन्नटाचूर्णं त्रिफलारससंयुतम् ॥

6.28.89

दीपनीयांश् च सेवेत योगान् पानेन नित्य् अशः ।
विकारे श्लेष्मणि हितं मद्यं भूयिष्ठम् एव हि ॥

6.28.90

तस्मात् पानात्यये मद्यं श्लैष्मिके परिचक्ष्महे ।
एषा विमानतः प्रोक्ता श्लेष्मपानात्यये क्रिया ॥

6.28.91

सर्वतः सन्निपाते तु सदा कुर्याच् चिकित्सितम् ।
अहानि सप्त चाष्टौ वा नृणां पानात्यये स्मृतम् ॥

6.28.92

पानं हि भजते जीर्णमत ऊर्ध्वं विमार्गतः ।
अनेन कालयोगेन यो रोगो न निवर्तते ॥

6.28.93

कृत्वानुपूर्व्या पानस्य कुर्यात् तस्य चिकित्सितम् ।
हिक्काश्वासादयो रोगा ये च सर्वे समुत्थिताः ॥

6.28.94

तेषां चिकित्सितं कुर्याद् यथा स्वे स्वे चिकित्सिते ।
इति पानात्ययार्तानां विस्तरेण चिकित्सितम् ॥

6.28.95

प्रजाहितम् इदं प्रोक्तं शिष्याणामर्थसिद्धये ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले अष्टाविंशो ऽ ध्यायः ॥ इति भेलसंहितायां चिकित्सास्थानं समाप्तम् ॥ ॥ कल्पस्थानम् ॥ ॥ प्रथमो ऽ ध्यायः ॥ अथातो मदनकल्पं व्याख्यास्याम इत् ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc