भेलसंहिता · अध्याय 6.9
उक्तं रूपं समुत्थानमपस्मारस्य कृत्स्नशः ।
निदानेषु, चिकित्सां तु विस्तरेण निबोध मे ॥
गजाश्वयानात्पतनादभिघातात् भ्रमाद् अपि ।
इष्टद्रव्यविनाशाच् च चित्तं विभ्रममृच्छति ॥
तस्य चित्ते परिभ्रान्ते हृदयं परिशुष्यति ।
रुणद्धि वायुरूष्माणं नाडीं प्राप्य जलावहाम् ॥
भृशं तृष्णापरीतः स मोहं गच्छत्यपस्मरन् ।
अपस्मरत्यपस्मारी फेनं मुञ्चति वेपते ॥
सेवेत तैलं शैरीषं घृतं कल्याणकं तथा ।
महापैशाचिकं वापि महाक्षारं च दाधिकम् ॥
शणबीजानि कैडर्यं ।.. ।.. चापलूनकम् ।
रूपस्था च वयस्था च पूतना केशमारिणी ॥
त्रिफला त्र्यूषणं मुस्ता लशुनं पापचेलिका ।
एतानि समभागानि वसातैलघृतानि च ॥
ऊर्णकं च तथैकध्यं पचेद् गोमूत्रसंयुतम् ।
यदा प्रज्वलितं शान्तमथैनमवतारयेत् ॥
बिडालपदमात्रं तु क्षारस्यास्य सुखाम्बुना ।
पिबेद् अपस्मारहरम् उन्मादस्य च नाशनम् ।
अर्शांसि गुल्मान्मेहांश् च प्लीहानमुदरामयम् ॥ ॥ दशमो ऽ ध्यायः ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0