भेलसंहिता · अध्याय 6.10
भयाद् वा यदि शोकाद् वा यो ऽ तिसारः प्रवर्तते ।
अतिसारस् तु भूयिष्ठं साम एव स संभवेत् ।
तस्मात् सर्वमतीसारं लङ्घनैस्समुपाचरेत् ॥
लङ्घयेद् बलवन्तं च, दीपनीयानि कारयेत् ।
दुर्बलस्य तु संसर्गीं कारयेत् तु विरिक्तवत् ॥
स्तिमितं यस्य गुरु च पर्याध्मातमिवोदरम् ।
दीपनीयोपपपन्नं तु बहुदोषं तु देहिनम् ॥
स्तोकं स्तोकं स्रंसमानं निगृहीतं सवेदनम् ।
दीपनीयसमायुक्तं पाययेत्स्रंसनं परम् ॥
विशुद्धस्रोतसस् तस्य दोषेषु स्रंसितेषु च ।
सुखं तद्ग्रहणं कर्तुं पाचनं स्तम्भ एव च ॥
हरीतकीं त्रिकटुकं हिङ्गु सौवर्चलं वचाम् ।
शुक्लामतिविषां चैव पाययेद् उष्णवारिणा ॥
नियतं जनिताध्मानमतिसारं सवेदनम् ।
स्थापयत्यतिसंवृद्धं वेलेव वरुणालयम् ॥
हरीतकी सातिविषा हिङ्गु सौवर्चलं वचा ।
सैन्धवं चेति पिष्टानि पाययेद् उष्णवारिणा ॥
आमातिसारे योगो ऽ यं विधितस् तु चिकित्सकैः ।
युक्ते क्वाथे प्रयोक्तव्यो बैद्येनापि यशो ऽ र्थिना ॥
आमातिसारो यो ह्याभ्यां योगाभ्यां न निवर्तते ।
न स साधयितुं शक्यो ह्यन्यैर्मार्गशतैर् अपि ॥
भूयिष्ठमामप्रभवः कुक्षिरोगः कफात्मकः ।
प्रवर्तते नृणां तस्य शृणु सम्यक् चिकित्सितम् ॥
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी ।
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ॥
एतदामसमुत्थानमतिसारं सवेदनम् ।
कफात्मकं सपित्तं च वर्चो बध्नाति च ध्रुवम् ॥
पाठा वचा त्रिकटुकं कुष्ठं कटुकरोहिणी ।
तत् साधुपीतान्य् एतानि श्लेष्मातीसारनाशनम् ॥
भल्लातकं शक्रयवाः पाठा कटुकरोहिणी ।
यवान्यजाजीकुष्ठं च चित्रको ऽ तिविषा ॥
शटी पुष्करमूलं च तथा हिङ्गु हरीतकी ।
सौवर्चलं शृङ्गबेरं गवां मूत्रेण पेषयेत् ॥
वटकानक्षमात्रांस्तान् छायाशुष्कान्निधापयेत् ।
तेषामेकं पिबेद् द्वौ वा सुखोष्णेनैव वारिणा ॥
एतद्ध्यामसमुत्थानमतिसारं सवेदनम् ।
नुदत्यर्शांसि च तथा तमांसीव दिवाकरः ॥
ग्रहणीदीपनीयाश् च ये योगाः परिकीर्तिताः ।
श्लेष्मातिसारे ते कार्याः क्षारः क्षारगुडस् तथा ॥
एतदामातिसाराणां श्लेष्मातीसारिणाम् अपि ।
चिकित्सितं समाख्यातं पित्तातीसारिणां शृणु ॥
अतिसारस् तु यः पित्तादुत्थो ऽ तिसरतीह सः ।
पाचितं स्तम्भयेद् एनं यथावत्तन्निबोध मे ॥
बिडं बिल्वशलाटूनि तिन्त्रिणीकं सदाडिमम् ।
सौवर्चलं धातकी च समङ्गा चेति तत्समम् ॥
कल्कपिष्टं भवेत्पेयं काल्यमुष्णेन वारिणा ।
पित्तातीसारशूलार्तं नरं सद्यश्चिकित्सते ॥
रसाञ्जनं सातिविषं कुटजस्य फलं त्वचम् ।
धातकीं शृङ्गबेरं च पाययेत् तण्डुलाम्बुना ॥
माक्षीकयुक्तो नुदति पित्तातीसारमुल्बणम् ।
मन्दं दीपयते चाग्निं शूलं चाशु निवर्तयेत् ॥
पाठा दारुहरिद्रा च पिप्पलीमूलम् एव च ।
फलत्वचे वत्सकस्य शृङ्गबेरं तथैव च ॥
एतानि कल्कपेष्याणि पाययेत् तण्डुलाम्बुना ।
अम्बष्ठकी शिलोद्भेदं धातकी चाम्लवेतसम् ॥
उशीरं बालह्रीबेरं दाडिमत्वङ् महौषधम् ।
जम्बूफलं कपित्थस्य मध्यं बिल्वशलाटु च ॥
एतानि चैव तुल्यानि पाययेत् तण्डुलाम्बुना ।
माक्षीकयुक्तं नुदति पित्तातीसारलक्षणम् ॥
सवातां च समूलां च नाशयेत्परिकर्तिकाम् ।
समङ्गा निचुलं लोध्रं धातकी मधुकं तथा ॥
वटलोध्रप्रवालाश् च दाडिमस्य फलं त्वचम् ।
माषपर्णीशिलोद्भेदं साम्बष्ठाकमथापि च ॥
पित्तातिसारे दातव्यं तण्डुलोदकसंयुतम् ।
समङ्गा धातकीपुष्पं साम्बष्ठाकमथापि च ॥
पित्तातिसारे पद्मं च तण्डुलाद्भिः पिबेन् नरः ।
शशस्यैणस्य वा रक्तं मधुकं कृष्णमृत्तिका ॥
पित्तातिसारे दातव्यं तण्डुलोदकसंयुतम् ।
दुष्टः पित्तातिसारस्तु गम्भीरस्थानमाश्रितः ॥
अतीव सार्यते रक्तमतिसारस्स रक्तजः ।
नीलोत्पलं बिल्वतिला मधुकं गुडशर्करा ॥
केसरं पुण्डरीकस्य कुमुदं क्षौद्रम् एव च ।
आजेन पयसा पीतं रक्तातीसारनाशनम् ॥ निर्वाहि ।.. ।.. ।.. ।..
अथास्य वर्चोजननीमनुयुक्तिं प्रदापयेत् ।
दीप्ताग्निक्षीणमांसस्य सशूलस्यातिसारिणः ॥
अजस्य महतो मध्याद्वेशवारं सशोणितम् ।
दध्नाथ यावके सिद्धं गुडत्रिकटुकान्वितम् ॥
तेन संभोजयेत् काले मृदुसुस्विन्नदेहिनम् ।
कल्पेनैतेन वाराहं क्रौञ्चं मांसञ् च कारयेत् ॥
एतेनैव च कल्पेन कारयेच्चरणायुधान् ।
तित्तिरीन् कच्छपान् लाभान्मयूरान्क्रकरानपि ॥
वातातिसारिणामेतत्समाख्यातं चिकित्सितम् ।
वातातिसारे कर्तव्यं सर्वमर्शश्चिकित्सितम् ॥
भयाद्वा यदि वा शोकाद्यो ऽ तिसारः प्रवर्तते ।
यः कुप्यति ततो दोषस् तस्य कुर्याच् चिकित्सितम् ॥
नित्यम् आश्वासयेयुस्तं सुहृदश् च विपश्चितः ।
मनः प्रहृष्टं कुर्याच् च, तदा सम्पद्यते सुखी ॥
सर्वगात्रपरिस्तब्धो विवर्णः स्तिमितश् च यः ।
न च दुःखं विजानीते परिवर्ज्यस्तथाविधः ॥
यस्य केशाः प्रलुप्यन्ते बलं वर्णश् च हीयते ।
परिशुष्कमुखो यश् च न स जीवति तद्धिधः ॥
विवेष्टमानो यश्शेते सर्वगात्राणि विक्षिपेत् ।
स्तब्धगात्रो न संचारी परिवर्ज्यस्तथाविधः ॥
हनुं दशति यो ऽ भीक्ष्णं न वेदयति यो ऽ सुखम् ।
जिह्वां खादति चात्यर्थं गतायुरिति निर्दिशेत् ॥
संरक्षन्वै यशः प्राज्ञो न चैनं समुपाचरेत् ।
अर्थघ्नं च यशोघ्नं च न कर्म समुपाचरेत् ॥
दृष्ट्वा साध्यमसाध्यं च यः करोति स सिध्यति ।
पूजां च लभते ऽ त्यर्थं विद्वत्सु च विराजते ॥
विषूच्यास् तु प्रवक्ष्यामि चिकित्सां लक्षणानि च ।
विरुद्धगुरुपिष्टान्नशाकरूक्षरसाशिनाम् ॥
अजीर्णभोजिनां नित्यं त्रयः कुप्यन्ति धातवः ।
तद्दोषबलमुद्भूतमारुतेन विवर्धितम् ॥
अधश्चोर्ध्वं च तिर्यक् च स्रोतांसि निरुणद्ध्यति ।
रुद्धैश् च मारुते रुद्धस्रोतांसि निरुणद्धि च ॥
तेषु दोषपरीतेषु दुष्टेनान्नरसेन च ।
ऊर्ध्वं चाधश् च वेगो ऽ स्य कथंचित्संप्रवर्तते ॥
तां विलम्बीं विगर्हन्ति विषकल्पां विषूचिकाम् ।
यथायथोत्पन्नरसो देहेषु विषमाश्रितः ॥
नाडीस्स व्याकुलीकृत्य वर्धयेत् तु बलासकम् ।
तस्य कासो ज्वरो मूर्छा भक्तद्वेषो विवर्णता ।
ग्लानिश्चैवाविपाकश् च श्लेष्मसेकः प्रवाहिका ।
उरोघातस्तथात्यर्थं हृद्रोगश् चान्त्रकूजनम् ॥
विबन्धो गात्रहानिश् च सो ऽ लसो नाम दारुणः ।
उत्क्लेशो वेपथुश्छर्दिर्विदाहो वेष्टनं ज्वरः ॥
श्वासाध्मानं शकृद्भेदो विद्विष्टाहारलक्षणम् ।
श्लेष्मप्रचुरकासश् च जृम्भणं हृदयग्रहः ॥
तथा श्वासश् च कासश् च पार्श्वशीर्षरुजान्वितः ।
विषूच्याः पूर्वरूपाणि स्वेदो गात्रस्य शीतता ॥
उद्गारो गुरुकोष्ठत्वं मूत्रानिलशकृद्ग्रहः ।
एतत्पञ्चविधं प्रोक्तमन्नविभ्रमलक्षणम् ॥
चिकित्सां तत्र कुर्वीत सर्वामामातिसारिणाम् ।
उपद्रवाश् च ये प्रोक्ताः विषूच्यामलसे तथा ॥
तांश्चिकित्सेद् भिषक् सम्यग्यथास्वैश् च चिकित्सितैः ।
एतद्विषूच्यामाख्यातं समासेन चिकित्सितम् ॥
कूरत्वाद् अस्य रोगस्य भूयो वक्ष्यामि विस्तरम् ।
विषूच्याः पूर्वरूपाणि संनिशम्य चिकित्सकः ॥
वमनं कारयेत्क्षिप्रमुष्णेन लवणाम्बुना ।
यावत्स तिष्ठेत्तस्य स्यान्नान्यदुद्धारणात्सुखम् ॥
कारकं च कषायं स्यादथवार्जुनसाधितम् ।
पीतं कषायं वमनं सद्यो हन्ति विषूचिकाम् ॥
तथा मुस्तादिकः कल्कः पिप्पलीकल्कसंयुतः ।
पीतश्चोष्णेन तोयेन हन्यात् क्षिप्रं विषूचिकाम् ॥
विरुद्धा हि रसा भुक्ता दूषिताः पवनादिभिः ।
विषीभवन्ति देहेषु पूर्ववृद्धैर्मलाशये ॥
तस्माद् विषसमा ह्याशु क्रियास्सर्वाः प्रयोजयेत् ।
धूमान् कषायान् वर्तीश् च प्रदेहोत्सादनानि च ॥
अवपीडान् प्रधमनमग्निकर्मोपनाहनम् ।
संस्पर्शान्युपचारांश् च विषूच्यां कारयेत्क्रियाम् ॥
भल्लातकं त्रिकटुकं पूतिकं क्षवकं बलाम् ।
फणिज्जं लशुनं कुष्ठं करञ्जस्य फलानि च ॥
त्रिफलां च यवानीं च कुटजस्य फलानि च ।
वर्तिमेतां शिवां नाम बस्तमूत्रेण पेषयेत् ॥ विषूचलाक्षाक्षारश् च जायते । । । । । । । । । (भ्ष्6.10.2.1) ।
हनुभ्यां निगृहीताभ्यामव्यक्तं व्याहरत्य् अपि ।
सुसंहतहनुर्वापि न व्याहरति किंचन ॥ (भ्ष्6.10.2.2.) ।
स्नेहपानानि नस्यं च स्वेदाः पथ्याशनानि च ।
उपनाहाश् च शस्यन्ते वस्तयश् चार्दिते हिताः ॥ (भ्ष्6.10.2.3) ।
दध्यारनालयोर् द्रोणे वसा लाभेन चाढके ।
आनूपौदकनित्य् आनां मांसान्य् अपि च लाभतः ॥ (भ्ष्6.10.2.4) ।
तिलान् कुलुत्थान्माषांश् च बदराणि यवान् बलाम् ।
द्वे पञ्चमूल्यौ रास्नां च शतमूलां शतावरीम् ॥ (भ्ष्6.10.2.5) ।
एतत् सर्वं समाहृत्य साधयेन्मृदुनाग्निना ।
बाष्पेणोच्चरता तेन नाडीस्वेदेन स्वेदयेत् ॥ (भ्ष्6.10.2.6) ।
तैलमेभिश् च विपचेदभ्यञ्ज्याच् च पिबेच् च तत् ।
एतम् एव च सम्भारम् उपनाहं च कारयेत् ।
।
(भ्ष्6.10.2.7) ।
यच् चिकित्सितम् आख्यातं वातव्याधिविनाशनम् ।
तद् एव सर्वं निखिलम् अर्दितेष्व् अपि कारयेत् ॥ (भ्ष्6.10.2.8) ।
महास्नेहं बलातैलं तैलं शैरीषम् एव वा ।
पानाभ्यङ्गेषु नस्येषु वस्तौ वापि प्रयोजयेत् ॥ (भ्ष्6.10.2.9) ।
आनूपानि च मांसानि वेशवारं प्रकुट्टयेत् ।
नातिस्निग्धेन तेनास्य कारयेद् उपनाहनम् ॥ (भ्ष्6.10.2.10) ।
श्लेष्मणा समुपस्तब्धो यस्येह पवनो भवेत् ।
मन्ययोर् न्मूर्ध्नि गण्डे च शोषस्तस्योपजायते ॥ (भ्ष्6.10.2.11) ।
मूको निद्रापरीतश् च कण्ठनिश्वसितो भृशम् ।
भृशं लालापरीतश् च जिह्मजिह्वीकृतो नरः ॥ (भ्ष्6.10.2.12) ।
श्लेष्मोपष्टब्धमेतादृगर्दितं परिकीर्तितम् ।
तस्यानुवासनं कुर्यात् तथा शीर्षविरेचनम् ॥ (भ्ष्6.10.2.13) ।
तिल्वकेन विरेक्तव्यो भवेद् बिन्दुघृतेन वा ।
पुराणं वा पिबेत्सर्पिर्धूमं तीक्ष्णं पिबेत्तथा ॥ (भ्ष्6.10.2.14) ।
श्लेष्मण्युपरते तस्य बृंहणैः समुपक्रमः ।
वातव्याधिचिकित्सां च यथोक्तां समुपाचरेत् ॥ (भ्ष्6.10.2.15) ।
स्थानस्थस् तत्र च कफः वायुरागन्तुर् उच्यते ।
तस्मात् तयोर् गतिं दृष्ट्वा वातघ्नीं कारयेत्क्रियाम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले षड्विंशो ऽ ध्यायः ॥ ॥ एकादशो ऽ ध्यायः ॥ अथातो ग्रहणीचिकित्सां व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0