भेलसंहिता · अध्याय 6.8
पञ्चोन्मादास् समाख्याता निदानेषु सविस्तराः ।
सलिङ्गास्ससमुच्थानाः शृणु तेषां चिकित्सितम् ॥
चित्तबुद्धीन्रियाणां हि तेषाम् अपि विचेष्टितम् ।
शिरस्ताल्वन्तरगतं सर्वेन्द्रियपरं मनः ॥
तत्रस्थं तद्धि विषयानिन्द्रियाणां रसादिकान् ।
समीपस्थान् विजानाति त्रीन् भावांश् च नियच्छति ॥
सुमनःप्रभवं चापि सर्वेन्द्रियमयं बलम् ।
कारणं सर्वबुद्धीनां चित्तं हृदयसंश्रितम् ॥
क्रियाणां चेतरासां च चित्तं सर्वत्र कारणम् ।
सुचित्तास्सत्पथं यान्ति दुश्चित्तास् तु विमार्गगाः ॥
विदितं मनसा चित्तमालभ्य प्रभवेत् ततः ।
ततो बुद्धिः प्रभवति कार्याकार्यविचारिका ॥
शुभाशुभं हि कुर्वाणा बोधनं बुद्धिरिष्यते ।
बोधनाच् चापि बोध्यस्य नरो बुध इहोच्यते ॥
सा बुद्धिः परमात्मा च स शरीरे प्रकीर्तितः ।
यथा कृती कर्मकरः क्रियां योजयते नृषु ॥
मनसश्चित्तबुद्धीनां स्थानान्य् एतानि कर्म च ।
सन्दूषितानां तेषां तु शृणु हेतुमतः परम् ॥
ऊर्ध्वं प्रकुपिता दोषाः शिरस्ताल्वन्तरे स्थिताः ।
मनः सन्दूषयन्त्य् आशु ततश्चित्तं विपद्यते ॥
चित्ते व्यापदमापन्ने बुद्धिर्नाशं नियच्छति ।
ततस् तु बुद्धिव्यापत्तौ कार्याकार्यं न बुध्यते ॥
एवं प्रवर्तते व्याधिरुन्मादो नाम दारुणः ।
तस्माद् विशेषं वक्ष्यामि ह्युन्मादमदयोर् अपि ॥
शोकात्कोपात्तथा हर्षाद् द्रव्याणां च विनाशनात् ।
चलिते चित्तमनसि मदमाशु नियच्छति ॥
प्रध्यायति प्रस्विपिति रोदितीहानिमित्ततः ।
हसत्यकस्मान्निद्रालुरल्पवाङ् नित्यम् उत्सुकः ॥
त्रस्तः शरीरी क्रोधनो निरपत्रपः ।
पुरस्तादवलोकी च न यथावृत्त एव च ॥
परुषत्वं तथा लोम्नामाविलं चक्षुषोरपि ।
एतानि यस्य रूपाणि स मदो नाम कीर्तितः ॥
विवर्धमानस् तु मद उन्मादत्वं नियच्छति ।
सवातिकानि रूपाणि श्लेष्मपित्तोद्भवानि च ॥
उन्मादस्तूच्यते धीरैः सन्निपातात्मकानि च ।
एतल्लक्षणमुद्दिष्टमुन्मादस्य निरुक्तितः ॥
निदाने पूर्वमुद्दिष्टं शृणु तेषां चिकित्सितम् ।
स्नेहितं स्वेदितं चैव योजयेत्पञ्चक्र्मणा ॥
दाधिकं वा पिबेत्सर्पिस्तैलं शैरीषम् एव वा ।
शतपाकं बलातैलं महापैशाचिकं घृतम् ॥
दाधिकं च महाक्षारमुन्मत्तः शीलयेत् तथा ।
यच् चिकित्सितम् आख्यातम् अपस्मारविनाशनम् ॥
तद् एव सर्वं निखिलेषून्मादेष्व् अवचारयेत् ।
घातयेत् तं कशाभिश् च वध्नीयात् ताडयेत् तथा ॥
गजेनाप्यथवाश्वेन त्रासयेत्पन्नगेन वा ।
पुनस्तृणाग्निना वापि सर्वतस्समवाकिरेत् ॥
अवकीर्याथवाङ्गारैः प्रदीप्तैः पारिभद्रकैः ।
प्रयुक्तं शीतलेनैव जलेनाभ्युक्षयेत्पुनः ॥
प्रसारयेद् वा सरिति सरणे वा निरोधयेत् ।
बुभुक्षया शोषयेद् वा कूपे प्रक्षिप्य मानवः ॥
अपूर्वा भीषयेयुस्तं पुरुषाः शस्त्रपाणयः ।
वित्रासयेयुर्वैद्यास्तं त्रासनैस् तु पृथग्विधैः ॥
त्रासास्तीव्रा हि कुर्वन्ति चित्तस्य विकृतिं भयात् ।
भयम् एव तु चित्तस्य मानवानर्थमुच्यते ॥
प्रक्षिप्तचित्तो विचरेत् त्रास्यमानो ऽ पि शस्त्रतः ।
कुमारबृन्दानुगतस्तमसाध्यं विनिर्दिशेत् ॥
तापनाञ्जननस्यैश् च क्षारैः क्षारागदैर् अपि ।
प्रोक्तैरपस्मारहरैर् उन्मादं समुपाचरेत् ॥
पुराणं पाययेच्चैनं सर्पिरुन्मादनाशनम् ।
स्थितं वर्षशतं श्रेष्ठं कुम्भसर्पिस्तदुच्यते ॥
पानाभ्यञ्जननस्येषु हितमुन्मादिनां सदा ।
काञ्जिकं लशुनं चैव बस्तमूत्रेण पेषवेत् ॥
उन्मादिनां प्रयोगो ऽ यं पुराणघृतसंयुतः ।
एताः क्रियाः प्रयुञ्जीत वैद्यः कायचिकित्सकः ॥
शान्तिकर्माणि होमांश् च कुर्याद् भूतचिकित्सकः ।
इष्टयः शान्तिकर्मणि होमाः स्वस्त्ययनानि च ।
वेदोक्ताः कर्मविधयः कार्याश्चोन्मादनाशनाः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चिकित्सिते अष्टमो ऽ ध्यायः ॥ ॥ नवमो ऽ ध्यायः ॥ अथातो ऽ पस्मारचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0