भेलसंहिता · अध्याय 6.7
स्त्रियं च युक्त्या सेवेत दिवास्वप्नं च वर्जयेत् ।
कषायस्नाननित्य् अस्य कषायोदकसेविनः ॥
विशेषतः श्लेष्ममेहान् तीक्ष्णैर् एव समाचरेत् ।
सकषायं च तिक्तं च पैत्तिकेषु प्रयोजयेत् ॥
असाध्यवातजान्मेहांश्चतुरः परिवर्जयेत् ।
अरुचिश् चाङ्गमर्दश् च तृष्णाकासौ भ्रमस्तमः ॥
शूलानि पिटका कण्डूः प्रमेहाणाम् उपद्रवाः ।
अक्रियाभिः प्रमेहेषु पिटकास्व् अपिकारयेत् ॥
उपद्रवैश् च युक्तानां पिटकाभिस् तथैव च ।
प्रमेहिणामिदं प्रोक्तं मया भैषज्यम् उत्तमम् ॥
व्यस्तैरेतैस्समस्तैश् च यो गैस् तु प्रविभागशः ।
चिकित्सां कल्पयेद् वैद्यो यथादोषं यथाबलम् ॥
विंशतेर्मूत्ररोगाणां लक्षणानि निरीक्ष्य तु ।
दोषसंसर्गहेतूंश् च ततो योगान् प्रकल्पयेत् ॥
उद्देशमात्रं तेषां तु तस्माद् वक्ष्यामि भेषजम् ।
भूयो मूत्रप्रशान्त्यर्थं प्रविभागं च तच्छृणु ॥
शतावरीमूलरसः समांशो मधुसर्पिषा ।
इक्षुमेहे तु पातव्यः कफपित्तप्रशान्तये ॥
किराततिक्तस्वरसः पटोलारुकयोस् तथा ।
सक्षौद्रः शमयेन्मेहं क्वाथस्तूदकसंज्ञितम् ॥
पिप्पली शृङ्गिबेरं च मरिचानि तथैव च ।
पिबेत्सुखाम्बुना ह्येतत्सान्द्रमेहात्प्रमुच्यते ॥
चव्यचित्रकमूलानि पूतिकस्य त्वचस् तथा ।
खले यूषेषु संस्कृत्य भुञ्जानो वै सुखी भवेत् ॥
क्षीरसिद्धैर्यवैर्भक्ष्यैर्यच्छस्तं हिङ्गुसंयुतम् ।
घृतं प्रसङ्गेन पिबन् भस्ममेहात्प्रमुच्यते ॥
कपित्थश् चाजमोदा च मरिचानि तथैव च ।
ततो युतं तैर्लवणं काचप्रोक्तं प्रदापयेत् ॥
पिप्पलीकणसंयुक्तं मधुयुक्तं सशर्करम् ।
जयेल्लवणमेहन्तु पीतं शीतेन वारिणा ॥
मेहयुक्तेन भोक्तव्यं सान्द्रप्रस्रवणेन वा ।
एतत् तु विजयेन्नित्यं मेहं लवणसंभवम् ॥
एलाप्रवालकं हिङ्गु लवणं च समं भवेत् ।
मद्येनोष्णेन वा पीतं मेहं ससिकतं जयेत् ॥
तुम्बुरूणि कपित्थानां निर्यासं क्षौद्रसंयुतम् ।
शुक्लमेहे प्रशंसन्ति यवान्नस्य च सेवनम् ॥
सकुलुत्थानि यूषाणि सद्रवाणि विशेषतः ।
भोज्यानि शुक्लमेहेषु यवान्नविकृतिस् तथा ॥
श्वदंष्ट्रादर्भमूलैस् तु केवलं क्वथितं पयः ।
सशर्करं पिबेज्जन्तुः क्षारमेहात्प्रमुच्यते ॥
द्राक्षाशृतं वापि पिबेत् तथा क्षीरिशृतं नरः ।
पित्तमेहात्प्रमुच्येत क्षारमेहाच् च सर्वशः ॥
पीतामञ्जिष्ठचूर्णौ द्वौ मेहनाच् च प्रयोजयेत् ।
सक्षौद्रं शीतमेहे तु यवान्नोपहितं सदा ॥
मदयन्त्य् आश् च पत्राणां कल्कं क्षौद्रयुतं पिबेत् ।
दर्भमूलस्य च तथा रक्तमेही सुखी भवेत् ॥
पिबेत् तु ते सपयसी नीलमेहात्प्रमुच्यते ।
प्ररोहैः क्षीरिवृक्षाणां क्षीरं संक्वथितं पिबेत् ॥
सशर्करेण मुच्येत नीलमेहाअत्तु पैत्तिकात् ।
कुमुदोत्पलदण्डैश् च सनालैः क्वथितैस् तथा ॥
पिबेत्प्रायो यथाशक्ति वारिमेहात्प्रमुच्यते ।
समां क्षीराशनश् चापि यवान्नमितभोजनः ॥
शर्करासमभागं तु क्षौद्रेण सह संसृजेत् ।
शीतेन तोयेन पिबन्नम्बुमेहात्प्रमुच्यते ॥
इत्य् एतत् षोडशानां तु कफपित्तहरं पृथक् ।
चिकित्सितं मया प्रोक्तं प्रमेहाणां विनाशनम् ॥
असाध्या वातजाश् चैव विज्ञेया भृशदारुणाः ।
अवगाद्यातिसूक्ष्मत्वाद् दाया प्रस्रवणं शृतम् ॥
आस्थापनैर् वातहरैः सुकृतैश् चानुवासनैः ।
मज्जप्रमेहिणं दृष्ट्वा बहुशस्तमुपाचरेत् ॥
प्रातः प्रातश् च सेवेत केवले मधुसर्पिषी ।
कोरदूषयवान्नानि स्थितानि च विशेषतः ॥
हस्तिमेहं जयेद् एवं वस्तिस्वेदैः प्रयत्नतः ।
यत्नवान्वातमेहं हि बस्तमूत्राणि वा चरेत् ॥
पाययेच्चारयेच् चापि गजमेहं भयावहम् ।
कषायैस्तिक्तकटुकैः रसैरेतैः, पिबेत्पयः ॥
शास्त्रोक्तामथ संप्रेक्ष्य क्रियामेतां विचक्षणः ।
यथास्वं हि सम्प्रधार्य प्रमेहान् साधयेद् भिषक् ॥
एतत्प्रमेहिकं प्रोक्तं शिष्याणामार्थसिद्धये ।
चिकित्सितं विस्तरेण यथावदनुपूर्वशः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चिकित्सिते सप्तमो ऽ ध्यायः ॥ ॥ अष्टमो ऽ ध्यायः ॥ अथात उन्मादचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0