भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.6

6.6.1

।पित्तं भृशं देहे प्रकुप्यति ।
तत्प्रदुष्टं दूषयति रक्तमांसमथोल्बणम् ॥

6.6.2

तत्र कुष्ठानि जायन्ते देहे बहुविधानि तु ।
तेषां रूपाणि वक्ष्यामि चिकित्सां च यथाक्रमम् ॥

6.6.3

दोषाणां सञ्चितानां तु त्वङ्मांसाच्छास्रचारिणाम् ।
प्रदूषणं हि सर्वेषां कुष्ठम् इत्य् अभिधीयते ॥

6.6.4

विरुद्धमाहारयतो अप्यजीर्णाध्यशनेन च ।
छर्दिमूत्रपुरीषाणां वेगानां च विधारणात् ॥

6.6.5

ग्राम्यानूपौदकं मांसं शाकं हरितकानि च ।
मद्यमम्लमथात्यर्थं सेवित्वा यः पिबेत्पयः ॥

6.6.6

भुक्त्वा वाप्य् उष्णमाहारं मधु मांसं च सेवते ।
मद्यं मधु च यः पीत्वात् युष्णमन्नं च सेवते ॥

6.6.7

विदग्धभुक्तो यश् चापि ग्राम्यधर्म निषेवते ।
उष्णातपाम्यां सहसा यश् चाप्य् अप्सु निमज्जति ॥

6.6.8

तस्योष्मा सन्निरुद्धस् तु प्रकोपयति मारुतम् ।
उदीरयति वायुस् तु दूषितो दोषसंचयान् ॥

6.6.9

दोषाश्शिराः प्रपन्नास्ते रुधिरं दूषयन्त्यति ।
रक्तमांसनिरुद्धास् तु वातपित्तकफास्त्रयः ॥

6.6.10

जनयन्त्य् आशु कुष्ठानि नृणामष्टादशैव तु ।
निदानेष्व् अपि निर्दिष्टं निदानं साप्तकुष्ठिकम् ॥

6.6.11

अष्टादश तु कुष्ठानि तेषां वक्ष्यामि लक्षणम् ।
यत्कुष्ठमरुणाभासं श्यामं रूक्षं सवेदनम् ॥

6.6.12

पिपीलिकाकीर्णमिव कर्कशं चापि वातिकम् ।
क्षिप्रमुत्तिष्ठते यस् तु दूष्यते परिदह्यते ॥

6.6.13

ताम्रं श्यावप्रकुपितं सज्वरं चापि पैत्तिकम् ।
समुत्पन्नेषु वा तेषु स्तिमितं बहुलं गुरु ॥

6.6.14

पाण्डु स्निग्धं च गुरु च यत्कुष्ठं श्लेष्मसम्भवम् ।
स्फुटितं स्रावबहुलं दाहरागरुजान्वितम् ॥

6.6.15

त्वग्रोमनखमांसैश् च दीर्यद्भिस् सान्निपातिकम् ।
प्रादुर्भविष्यतां चैव पूर्वरूपाणि मे शृणु ॥

6.6.16

तानि संलक्ष्य मेधावी चिकित्सितमुपाचरेत् ।
ऊष्मायणं परीतापः स्वेदो रौक्ष्यं विवर्णता ॥

6.6.17

सुप्तत्वं रोमहर्षश् च गात्राणां गौरवं क्लमः ।
रागः पिपासा दौर्बल्यं दवथुः पिटकादयः ॥

6.6.18

ततः कुष्ठानि जायन्ते तेषां वक्ष्यामि लक्षणम् ।
स्वेदनं काकणाभासं समुप्तन्नं सवेदनम् ॥

6.6.19

स्फुटितं नीलपर्यन्तं काकणं कुष्ठमुच्यते ।
उदुम्बरनिभैर्यत् तु मण्डलैर्बहुभिश्चितम् ॥

6.6.20

निरास्रावैः स्रवद्भिर् वा विद्यादौदुम्बरं तु तत् ।
मण्डलैर्बन्धुजीवाभैर् उत्सन्नैश् च विदाहिभिः ॥

6.6.21

विद्यान्मण्डलकुष्ठं तद्वेदनाचोषणान्वितम् ।
र्श्यजिह्वोपमं कुष्ठं ऋश्यजिह्वं विभावयेत् ॥

6.6.22

पुण्डरीकदलाभासं पुण्डरीकं तु तद्विदुः ।
अलाबुपुष्पसदृशं सिध्मं कुष्ठमुदाहृतम् ॥

6.6.23

कपालकुष्ठं कृष्णन्तु मण्डलैः परुषं तथा ।
चर्मकुष्ठं तु बहुलं हस्तिचर्मनिभं खरम् ॥

6.6.24

सस्फोटका ससन्तापा पामा कण्डूरुजान्विता ।
दृढं पुनः प्रस्रवति कण्डूरोधान्वितं च यत् ॥

6.6.25

वर्तते च समुत्पन्नं किटिबं तत्प्रकीर्तितम् ।
श्यावा रक्ता समुत्पन्ना प्रक्लिन्ना स्राविणी तथा ॥

6.6.26

मांसेनोपचिता युक्ता विज्ञेया सा विचर्चिका ।
परिशुष्काणि रूक्षाणि कण्डूराणि घनानि च ॥

6.6.27

मण्डलान्युन्नताग्राणि दुद्रुकुष्ठं हि तत्स्मृतम् ।
अरुड्भिश्चीयमानं तु नीललोहितकैः खरैः ॥

6.6.28

बहुभिश् च स्रवद्भिश् च शतारुष्कन्तु तद्विदुः ।
शालिशूकप्रतीकाशैर्लोमभिः शुक्ललोहितम् ॥

6.6.29

अन्योन्यैर्मण्डलैर्विद्धं श्वित्रं तदुपपादयेत् ।
मीनमूषिककीटानां विषवेगेन दूषितम् ॥

6.6.30

सकण्डूरागपिटकं विषजं श्यामम् एव वा ।
पाणिपादतलाङ्गुष्ठपार्ष्णिदेशेषु जायते ॥

6.6.31

स्फुटितं वेदनादाहयुक्तं वैपादिकं स्मृतम् ।
उदुम्बरसवर्णं तु समुत्पन्नं सवेदनम् ॥

6.6.32

पिच्छारागविवर्णं च कुष्ठं स्थूलारुरुव्यते ।
विसर्पैस्संपरिक्रान्तं विकूणं सपरिस्रवम् ॥

6.6.33

तद् एककुष्ठम् इत्य् उक्तम् एकं वीसर्पसम्भवम् ।
एतान्यष्टादशोक्तानि कुष्ठानीह स्वलक्षणैः ॥

6.6.34

नव तेषामसाध्यानि चिकित्स्यानि तथैव च ।
पुण्डरीकमथ श्वित्रं ऋष्यजिह्वं सकाकणम् ॥

6.6.35

उदुम्बरशतारुष्कं चर्मकुष्ठं च यत्स्मृतम् ।
एककुष्ठं तु यत्प्रोक्तं कुष्ठं वैपादिकं च यत् ॥

6.6.36

एतानि नव कुष्ठानि न सिध्यन्ति कदाचन ।
सिध्मं विचर्चिका पामा दद्रुश् च किटिकानि च ॥

6.6.37

कपालकुष्ठं स्थूलारुर्मण्डलं विषजं च यत् ।
एतानि नव साध्यानि कुष्ठान्याहुर्मनीषिणः ॥

6.6.38

कर्मजानि नव ह्येषां दोषजानि नवैव तु ।
कर्मजानि न सिध्यन्ति सिध्यन्ति हीतराणि तु ॥

6.6.39

आत्मवान्मुच्यते तेभ्यः कुशलेन स्वनुष्ठितः ।
रक्तोद्भवानि कुष्ठानि सन्निपातोद्भवानि च ॥

6.6.40

तस्मात् तेषां प्रथमतः सिराकर्म विधीयते ।
कुष्ठस्यात्यल्पतो न्याय्यं बहुशः प्रच्छनं स्मृतम् ॥

6.6.41

जलूकालाबुशृङ्गैर् वा शोणितं तस्य स्मृतम् ।
शृणु रक्तविकारांस् तु पृथग्धातुसमाश्रितान् ॥

6.6.42

सफेनमरुणं रूक्षं वातिकं शोणितं तनु ।
नीलपीतासितं तप्तं रक्तं पित्तान्वितं स्मृतम् ॥

6.6.43

विज्जलं पाण्डुरं स्निग्धं तन्तुमच्च कफात्मकम् ।
सर्वेषां दर्शने विद्याच्छोणितं सान्निपातिकम् ॥

6.6.44

इन्द्रगोपकसङ्काशमदुष्टं रक्तमुच्यते ।
नरस्य मुक्तरक्तस्य प्रतिभुक्तवतस् तथा ॥

6.6.45

सिद्धैर्घृतैः स्नेहितस्य कुर्यात् संशोधनं ततः ।
वमनं रेचनं चैव तथा शीर्षविरेचनम् ॥ आस्थापनं च कुर्वीत न चैनमनुवासयेत् ॥

6.6.46

शालीन सष्टष्टिकांश् चैव जाङ्गलांश् च मृगद्विजान् ।
यवान्नविकृतीश् चैव कुष्ठी नित्यं समाचरेत् ॥

6.6.47

ग्राम्यानूपौदकं मांसमिक्षुस्तिलघृतं सुरा ।
दधि दुग्धं दिवास्वप्नः फलान्यम्लानि मिअथुनम् ॥

6.6.48

मूलकं पिष्टविकृतिर्वसा हरितकानि च ।
कफं पित्तं च रक्तं च सर्वमेतत्प्रकोपयेत् ॥

6.6.49

एवंविधानि चान्नानि ह्यभिष्यन्दकराणि च ।
अजीर्णाध्यशनं चैव कुष्ठी नित्यं विवर्जयेत् ॥

6.6.50

धान्वन्तरं पिबेत्सर्पिः स्वेहनार्ह्तेषु कुष्ठितः ।
महद्वै पञ्चगव्यं वा तैलं शैरीषम् एव वा ॥

6.6.51

पिप्पलीवर्धमानं वा माक्षिकेण समाचरेत् ।
अरिष्टमभयारिष्टं गण्डीरारिष्टम् एव वा ॥

6.6.52

मुष्टिं खदिरसारस्य कुट्टितं प्रतिभोजयेत् ।
त्र्यहं शृतं पिबेत्तच् च स्नायादुद्वर्तयेत् ततः ॥

6.6.53

तेन सिद्धं च भुञ्जीत पानीयार्थं च कारयेत् ।
पक्षं मासमृतुं वापि षण्मासानेवमाचरेत् ॥

6.6.54

प्रसद्य खदिरो हन्ति कुष्ठानि सुगुरूण्य् अपि ।
संवृद्धो लोकपर्याये युगान्ताग्निर्नगानिव ॥

6.6.55

पञ्चाभयास् तु सव्योषाः सगुडा वापि चूर्णिताः ।
लिह्यात् पथ्याशनः कुष्ठशान्तिर्वा नचिराद्भवेत् ॥

6.6.56

गोमूत्रेण हरिद्रां तु रसाञ्जनमथापि वा ।
प्रयोगेण पिबेत्कुष्ठी तथा रोगात्प्रमुच्यते ॥

6.6.57

द्राक्षा हरिद्रा मञ्जिष्ठा त्रिफला देवदारु च ।
नागरं पञ्चमूल्यौ द्वे मुस्ता मधुरसा तथा ॥

6.6.58

सप्तपर्णो ह्य् अपामार्गः पिचुमन्दाटरूषकौ ।
विडङ्गं चित्रकं दन्ती पिप्पल्यो मरिचानि च ॥

6.6.59

तेषां तु समभागानां कुष्ठी चूर्णपलं पिबेत् ।
मासं गोमूत्रसंयुक्तं तथा कुष्ठात्प्रमुच्यते ॥

6.6.60

उष्ट्रीक्षीरं पिबेज्जीर्णे क्षीरवृत्तिर्भवेन् नरः ।
जातक्रिमीणि कुष्ठानि च्युतरोमनखान्य् अपि ॥

6.6.61

अपि वा शीर्णमांसानि क्षीरमौष्ट्रं विनाशयेत् ।
एतास् त्व् आभ्यन्तराः प्रोक्ताः क्रियाः कुष्ठनिबर्हणाः ॥

6.6.62

बाह्यां क्रियां प्रवक्ष्यामि विस्तरेण निबोध मे ।
आलेपनानि कुर्वीत मुक्तरक्तस्य देहिनः ॥

6.6.63

विघृष्य शस्त्रैः पत्रैर् वा गोमयैर् अपि वा पुनः ।
ततः कुष्ठानि लेप्यानि प्रलेपैः कुष्ठनाशनैः ॥

6.6.64

स्वर्जकाकुष्ठतुथानि विडङ्गमरिचानि च ।
मनःशिला च लोध्रं च लेपः कुष्ठविनाशनः ॥

6.6.65

अवल्गुजफलं दन्तीं श्योनाकं गजपिप्पलीम् ।
चित्रकौ सर्षपौ द्वौ तु हरिद्रे द्वे विपेषयेत् ॥

6.6.66

मातुलुङ्गरसैनैतत्समालोड्य निखानयेत् ।
सप्तरात्रात्परं चैव कुष्ठानां लेपनं परम् ॥

6.6.67

दद्रुं कपालकुष्टानि किटिकानि विचर्चिकाम् ।
स्थूलारुष्काणि विषजं सिध्मानि च नियच्छति ॥

6.6.68

करवीरो लाङ्गलिकी दन्ती हिंस्रा शुकानना ।
चित्रकार्कस्त्रिकटुकं त्रिफला कटुरोहिणी ॥

6.6.69

कोशातकी भद्रमुस्ता बृहती सर्षपा वचा ।
करञ्जबीजं सुधा च स्वर्णक्षीरी निदिग्धिका ॥

6.6.70

पिचुमन्दश् च जात्याह्वः पीलुतिल्वकपल्लवम् ।
सौधामलकबीजानि कर्णिकारोह्यवल्गुजः ॥ भ्ष्6.6. ।
।भल्लातकम् ।
॥ सप्तमो ऽ ध्यायः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc