भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.5

6.5.1

पञ्च गुल्माः समुद्दिष्टा निदानेषु सविस्तरम् ।
गुल्मत्वं तेषु वक्ष्यामि चिकित्सां तु पृथक् पृथक् ॥

6.5.2

मारुतः कुपितो देहे स्रोतांस्युन्नह्य सर्वशः ।
अभ्यागत्य दूषयति पूर्वं पित्तं कफं ततः ॥

6.5.3

दूषयत्यथ रक्तं च मेदो मांसं विधावति ।
स सङ्घातस्थिरीभूतो गुल्मत्वम् उपपद्यते ॥

6.5.4

दुष्टानां हन्तुकामानां परं प्राणभृतां यथा ।
हस्त्यश्वरथयानानां संघातो गुल्म इष्यते ॥

6.5.5

एवं देहे रसादीनां धातूनां विप्रकर्षणम् ।
संसर्गो गुल्म इत्य् उक्तः संघातो गुल्म उच्यते ॥

6.5.6

स्तम्बिनिस्तम्बिनीनां तु वल्लीनां वीरुधाम् अपि ।
संघातो गहनं गुल्मः तद्वद् गुल्मस् तु देहिनाम् ॥

6.5.7

अमूर्तत्वाद् धि वातस्य संवित्तिर्नोपजायते ।
सन्धाय पित्तश्लेष्माणौ मारुतो गुल्मतां व्रजेत् ॥

6.5.8

मधूच्छिष्टमयं पिण्डं चिन्वन्ति भ्रमरा यथा ।
तथा कोष्ठेषु पवनो धातूंस्तान्विचिनोत्य् अपि ॥

6.5.9

स्थानानि तस्य गुल्मस्य शंमन्ति गुरुलाघवम् ।
कुक्षिकस्तिगतो गुल्मो वातभूयिष्ठ उच्यते ॥

6.5.10

स वातगुल्मरूपाणि कुर्यात् स्थानवशेन तु ।
तथैव पित्तस्थानस्थः पित्तरूपाणि दर्शयेत् ॥

6.5.11

एवं श्लेष्मणि रक्ते च सन्निपाते च सर्वशः ।
सर्वेषां सन्निपाते तु स्वं स्वं रूपं निदर्शनम् ॥

6.5.12

आगन्तुर्दूषयत्यत्र धातुं स्थानस्थ उल्बणः ।
चिकित्सितं तु स्थानस्य स हि तत्र बलाधिकः ॥

6.5.13

यदि वस्तिगतः पाकं वातगुल्मस् तु गच्छति ।
हृन्नाभ्योर् अन्तरं गुल्मः पाकं गच्छति पैत्तिकः ॥

6.5.14

हृदि च श्लेष्मगुल्मस् तु पाकं यात्य् अननुष्ठितः ।
पच्यते सन्निपातात् तु गुल्मश्शोणितजस् तथा ॥

6.5.15

दोषद्वयेन संसृष्टाः सर्वे गुल्माः प्रमाथिनः ।
तस्मात् तेषां भेदनीयाः क्रियास्सर्वाः प्रयोजयेत् ।
अत्यर्थं स्निह्यमानो ऽ पि गुल्मो वृद्धिम् अवाप्नुयात् ॥

6.5.16

अतस् तु वातगुल्मस्य प्रवक्ष्यामि चिकित्सितम् ।
प्रभुर्हि सर्वभूतानां वायुः प्राणेश्वरो बली ॥

6.5.17

हरीतकी त्रिकटुकं वचा कटुकरोहिणी ।
सौवर्चलं यवक्षारो विडङ्गं चित्रकस् तथा ॥

6.5.18

अक्षप्रमाणैरेतैस् तु घृतप्रस्थं विपाचयेत् ।
तस्मिद्धं स्रावयित्वा तु पाययेत् तु यथाबलम् ॥

6.5.19

वातगुल्मं क्रिमिं कासं श्वासं प्लीहानम् एव च ।
दशाङ्गं नाशयत्येतद्रोगान् वज्रमिवासुरान् ॥

6.5.20

द्वेपञ्चमूल्यौ सुषवीमश्वगन्धां पुनर्नवाम् ।
कालां छिन्नरुहां रास्नां भार्ङ्गीं गोक्षुरकं बलाम् ॥

6.5.21

शटिं पुष्करमूलं च पलाशं गन्धसंज्ञकम् ।
एतेषां द्विपलान् भगान् जलद्रोणे विपाचयेत् ॥

6.5.22

कोलानां सकुलुत्थानां माषाणां च यवैस्सह ।
प्रस्थं प्रस्थं पृथक् कृत्वा तस्मिन्न् एव समावपेत् ॥

6.5.23

तेन पादावशिष्टेन घृतप्रस्थं विपाचयेत् ।
दध्यादिभिस् समं शुक्तमारनालं तुषोदकम् ॥

6.5.24

दाडिमाम्रातकरसं मातुलुङ्गरसं तथा ।
चतुर्गुणं चात्र दधि गर्भे चैषां समावपेत् ॥

6.5.25

कारवीं त्र्यूषणं दन्तीं त्रीण्येव लवणानि च ।
हिंस्रां रास्नां वचां चैव यवानीमम्लवेतसम् ॥

6.5.26

विडङ्गं दाडिमं हिङ्गु नीलिकां त्रिवृताम् अपि ।
द्वौ क्षारौ चाजमोदां च पाठां पाषाणभेदकम् ॥

6.5.27

ऊषकं वृषकं भार्ङ्गीं श्वदंष्ट्रां हपुषाम् अपि ।
त्रपुसोर्वारुबीजानि शतवीर्योपकुञ्चिके ॥

6.5.28

अजाजीं चित्रकं मूर्वां तुम्बुरुं गजपिप्पलीम् ।
धान्यकं सुरसं चैव दद्यादक्षेण सम्मितम् ॥

6.5.29

गर्भेणानेन तत्सिद्धं पाययेत्सर्पिरुत्तमम् ।
रक्तगुल्मादृते सर्वान् गुल्मानेतत्प्रणाशयेत् ॥

6.5.30

एकाङ्गगे पक्षगते गृध्रस्यां प्लीह्नि चैव हि ।
हृद्रोगे ग्रहणीदोषे वातगुल्मे च दारुणे ॥

6.5.31

दाधिकं नाम विख्यातं सर्पिरेतन्महागुणम् ।
उन्मादं कोष्ठशूलानि चापस्मारं च नाशयेत् ॥

6.5.32

यावशूकं तथा क्षारं सैन्धवं हस्तिपिप्पलीम् ।
पिप्पलीं शृङ्गबेरं च मरिचं च समावपेत् ॥

6.5.33

एषां षण्णां षडेव स्युः पृथग्भागाः पलं पलम् ।
एषामर्धपलान् भागान् कषायम् उपसाधयेत् ॥

6.5.34

पेष्यैरर्धपलीनैस् तु घृतप्रस्थं विपाचयेत् ।
स्नेहतुल्यं कषायं तु क्षीरं तद्द्विगुणं भवेत् ॥

6.5.35

इत्य् एतत् षट्पलं नाम सर्पिर्गुल्मविनाशनम् ।
प्लीहानमर्शांसि तथा ग्रहणीदोषम् एव च ॥

6.5.36

वस्तिकुण्डलवर्ध्मानि पानादेवापकर्षति ।
एषामन्यतमैः स्वेहैः स्नेहितं वातगुल्मिनम् ।
विरेचनेन स्निग्धेन युक्त्या संशोधयेद् भिषक् ॥

6.5.37

घृतं च सक्तुं च तथा चित्रकं सैन्धवं वचाम् ।
पिप्पलीं च पचेत्क्षीरं प्रशस्तं चावतारयेत् ॥

6.5.38

ततो बिडालपदकं पिबेदुष्णेन वारिणा ।
घृतेन पयसा वापि मद्येनोष्णेन वारिणा ॥

6.5.39

वातगुल्मं नुदत्येष गुल्मशूलानि यानि च ।
सप्लीहानमुदावर्तं श्लेष्मगुल्मं च नाशयेत् ॥

6.5.40

महौषधं देवदारु वासा कटुकरोहिणी ।
चित्रकः पिप्पलीमूलं पिप्पल्यो हस्तिपिप्पली ॥

6.5.41

कुष्ठं च सर्पगन्धा च पञ्चैव लवणानि च ।
द्वौ क्षारौ त्रिवृता दन्ती द्रवन्ती चोपकुञ्चिका ॥

6.5.42

एषामर्धपलान् भागान् लवणानां पलं पलम् ।
चूर्णानि दध्नः प्रस्थार्धे समालोड्य विपाचयेत् ॥

6.5.43

वसातैलघृतानां च प्रस्थं प्रस्थं प्रदापयेत् ।
प्रदीप्तं च यथाशान्तमथैनमवतारयेत् ॥

6.5.44

ततो बिडालपदकं पिबेदुष्णेन वारिणा ।
घृतेन पयसा वापि मद्येनाम्लेन वा पुनः ॥

6.5.45

एष क्षारागदो नाम वातगुल्मविनाशनः ।
प्लीहानमर्शःशूलानि वर्ध्मोदावर्तकुण्डलम् ॥

6.5.46

क्रिमीन् सग्रहणीदोषान् विषान् वातापतानकौ ।
सर्पमूषकदंशांश् च ग्रन्थितान् गदयोजितान् ॥

6.5.47

वातश्लेष्मसमुत्थानं सन्निपातात्मकं तथा ।
प्रसह्य नाशयेद् गुल्मं छिन्नाभ्राणीव मारुतः ॥ वन्ध्या च लभते गर्भं गरानपि च नशयेत् ।
अपस्मारानथोन्मादान् ॥ षष्ठो ऽ ध्यायः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc