भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.4

6.4.1

स्वप्नेषु नित्यं पश्यन्ति शुष्कान्दग्धांश् च पादपान् ।
मक्षिकातृणकेशाश् च सम्पतन्त्यस्य भोजने ॥

6.4.2

रोमाणि मूर्धजाश् चास्य विवर्धन्ते विशेषतः ।
अवगुण्ठनशीलश् च रहःकामोत्थकोपनः ॥

6.4.3

जुगुप्सालुरमर्षी च स्त्रीकामो दुर्बलेन्द्रियः ।
उचिता हीयते छाया तालुशोष्श् च जायते ॥

6.4.4

नासास्रावः प्रतिश्यायः स्वरभेदश्शिरोरुजा ।
ऊरू च स्विद्यतो ऽ त्यर्थं हानिश् च बलवर्णयोः ॥

6.4.5

शिरसः परिपूर्णत्वं हस्तपादं च दह्यते ।
अरुचिश् चाविपाकश् च मूर्छा श्वासो मृदुर्ज्वरः ॥

6.4.6

क्षतोरस्कश् च कासेन निष्ठीवति सशोणितम् ।
एतानि पूर्वरूपाणि यक्ष्मिणां कीर्तितानि च ॥

6.4.7

षट् चैकादशरूपाणि शुष्यतस्तानि लक्षयेत् ।
उच्छ्रितोपद्रवं चैनं पूर्वरूपैरभिद्रुतम् ॥

6.4.8

प्रक्षीणबलमांसं च न चिकित्सेद्विशोषिणम् ।
अल्पोपद्रवसंयुक्तमचिरोपद्रवोत्थितम् ॥

6.4.9

द्रव्यवन्तं वयःस्थं च प्रत्याख्यायारभेत वै ।
अथास्यानुमतं पूर्वं प्रवक्ष्यामि चिकित्सितम् ॥

6.4.10

यदधीत्य भिषग्युक्त्या यशः स्वर्गम् अवाप्नुयात् ।
शोषी नित्य् अजुगुप्सालुः सुखशीलश् च मानवः ॥

6.4.11

लोलो द्वेष्टा निकृष्टानां वैद्यभैषज्यकुत्सकः ।
तस्मात् तस्यानुकूलेन भिषजा आश्वसनेन च ॥

6.4.12

असंभ्रान्तेन युक्तेन प्रयोक्तव्यं चिकित्सितम् ।
शोषिणो ऽ थ बलस्थस्य पञ्चकर्म विधीयते ॥

6.4.13

तद् एव क्षीणमांसस्य प्रयुक्तं विषमं भवेत् ।
तस्य संशुद्धाकायस्य भोजनान्युपकल्पयेत् ॥

6.4.14

कलमान् दीर्घशूकांश् च रक्तशालिं सषष्टिकान् ।
यवान्नविकृतीश् चापि जाङ्गलांश् च मृगद्विजान् ॥

6.4.15

भोजनेषु प्रशंसन्ति मुद्गान् सूपार्थम् एव च ।
संवत्सरस्थितं धान्यं भोजने शोषिणां हितम् ॥

6.4.16

तद्धि वीर्यादहीनं स्यान्मांसं सद्योहतं च यत् ।
विशेषतश् च मांसानि क्रव्यादबिलवासिनाम् ॥

6.4.17

शोषी नित्यं निषेवेत मद्यानि विविधानि च ।
श्लेष्मा देहे विवृद्धो ऽ पि वायुना सुसमीरितः ॥

6.4.18

पित्तं रक्तं च सन्दूष्य स्रोतांस्यूर्ध्वं रुणद्धि हि ।
ते परस्परसंरुद्धा धातवः पवनेरिताः ॥

6.4.19

कफप्रधाना रुन्धन्ति सर्वा रसवहाः सिराः ।
तदा ता रसवाहिन्यः सिरा हृदयवाहिकाः ॥

6.4.20

रसमाहारजातानां न वहन्ति यथा पुरा ।
तस्य भुक्तं न रक्ताय न मांसाय च कल्पते ॥

6.4.21

न च मेदो अस्थिमज्जभ्यो न शुक्लत्वाय् देहिनाम् ।
तेषामवृद्धाधातूनां बद्धानामयनेष्व् अथ ॥

6.4.22

भुञ्जानानाम् अपि सरोगाणि गात्राणि देहिनाम् ।
हेतुना तेन शुष्यन्ति शुष्यतां शोषवन्ति च ॥

6.4.23

एतच्छोषस्य शोषत्वं मुख्यमाहुर्मनीषिणः ।
सत्त्वेष्व् अतिप्रमाथित्वं व्यालकर्म यथा आपदि ॥

6.4.24

मांसान्य् अपि तथा तेषां स्रोतांसि विकसन्त्य् अपि ।
शोधयन्ति प्रमाथित्वात् स्रोतांसि ग्रथितान्य् अपि ॥

6.4.25

तस्मात् क्रव्यादमांसानि शोषी शक्त्यावशीलयेत् ।
रहस्यमेतद्वैद्यानाम् उपदिष्टं चिकित्सकैः ॥

6.4.26

मद्यं क्रव्यादमांसं च शोषिणाममृतोपमम् ।
वृकाः शृगाला ऋक्षाः श्वसिंहव्याघ्रास्ससूकराः ॥

6.4.27

एणशब्देन दातव्या नानाद्रव्याभिसंस्कृताः ।
गृध्रान् सहंसानुलूकान्मण्डूकाञ्श्येनवायसान् ॥

6.4.28

दद्याद्बर्हिणशब्देन मद्यं च नियतं पिबेत् ।
आखुमार्जारलोपाकान् द्विजिह्वाञ्शल्यकानपि ॥

6.4.29

नकुलांस्ताम्रचूडांश् च भक्षयेच्च सुसंस्कृतान् ।
अन्यमांसोपदेशेन मांसान्य् एतानि दापयेत् ॥

6.4.30

जुगुप्सया वमति वा पादे ऽ त्यवहितो भवेत् ।
तस्माद् रहस्यसिद्धानि मांसान्य् एतानि भक्षयेत् ॥

6.4.31

बिलेशयक्रव्यभुजां भिषङ् मांसानि लाभतः ।
तोयद्रोणेषु दशसु तुलामथ विपाचयेत् ॥

6.4.32

अष्टभागावशिष्टन्तु रसं विस्रावयेद् भिषक् ।
गर्भेण जीवनीयानां सर्पिर्द्रोणं विपाचयेत् ॥

6.4.33

तत्पिबेन्मात्रतः सर्पिर्मांसं तेनैव साधयेत् ।
कासं श्वासं सहृद्रोगं ज्वरं पार्श्वरुजाम् अपि ॥

6.4.34

श्वयथुं स्वरभेदं च शोषिणामपकर्षति ।
पञ्चमूलं महद्ध्रस्वं गोलोमीं मधुकं बलाम् ॥

6.4.35

विपाचयेज्जलद्रोणे चतुर्भागावशेषितम् ।
तत्कषायं जलं पूतं घृतप्रस्थं विपाचयेत् ॥

6.4.36

चतुर्गुणेन पयसा जीवनीयैश् च पेषितैः ।
विदार्यामलकानां तु तथैवेक्षो रसस्य च ॥

6.4.37

दद्याद् घृतसमान् भागान् तत्पचेन्मृदुना ऽ ग्निना ॥ रसायनीयम् इति तत् ख्यातं सर्पिर्बलावहम् ॥

6.4.38

हृद्रोगक्षतकासानां क्षयाणां च निवारणम् ।
अतः सर्पिर्गुडं कुर्याच् छर्करामधुसंयुतम् ॥

6.4.39

गोधूमचूर्णेन सह मोदकान्वापि कारयेत् ।
पूर्वोक्तेषु विकारेषु शोषिणाममृतोपमम् ॥

6.4.40

क्षीरानुपानं भक्ष्यास्ते मोदका बलवर्धनाः ।
मद्यानुपानास्सेव्यास्ते शोषः श्लेष्माधिको यदि ॥

6.4.41

प्रस्थार्धं धौतलुञ्चिततिलानां कल्कपेषितम् ।
तोयप्रस्थेन संयोज्य घृतप्रस्थं विपाचयेत् ॥

6.4.42

अथ सिद्धं च पूतं च पुनस्तद्विपचेद् घृतम् ।
सह क्रव्यादमांसेन क्षीरेणेह च सर्वशः ॥

6.4.43

बिल्वमात्रेण पिण्डेन भावितेन सदाम्बुना ।
जाङ्गलेन च मांसेन सुकृतेन विधानवित् ॥

6.4.44

अथ सिद्धं च पूतं च पुनरग्नावधिश्रयेत् ।
प्रस्थेन पयसा सार्धं सम्यगिक्षुरसाढके ॥

6.4.45

विदारीं मुद्गपर्णीं च माषपर्णीं कसेरुकम् ।
शृङ्गाटकमृणालानि पद्मबीजं सजीवकम् ॥

6.4.46

क्षीरशुक्लां सऋषभां मेदां समधुकां तथा ।
पयस्यां क्षीरकाकोलीं कन्दं नीलोत्पलस्य च ॥

6.4.47

सह तालकदम्बेन कल्कांस्तानक्षसम्मितान् ।
तस्मिन्नालोड्य तत् सर्वं विपचेन्मृदुनाग्निना ॥

6.4.48

तत्सिद्धं स्रावयित्वा तु निर्वातं स्याद्यथामृतम् ।
ततः प्रातर्घनीभूतं खजेनाभिप्रमन्थयेत् ॥

6.4.49

अथात्र शर्कराचूर्णं पञ्चाशत्पलसम्मितम् ।
मथ्यमानं ततो दद्याद्दत्त्वा दत्त्वा च मन्थयेत् ॥

6.4.50

गन्धार्थं चात्र देयं स्याच्चूर्णं त्वङ्नागपुष्पयोः ।
एकीभूतं तथा रात्रिमेकां परिवसेदथ ॥

6.4.51

अक्षप्रमाणसंस्थानाः कार्यास् तु मोदकास् तथा ।
यवगोधूमचूर्णाभ्यां तुगाक्षीर्या च चूर्णितान् ॥

6.4.52

भक्षयेन्मोदकान् काले क्षीरपानं पिबेत्पुनः ।
यक्ष्माणं शमयन्त्येते वृक्षमिन्द्राशनिर्यथा ॥

6.4.53

असृग्दरं क्षतं क्षीणं हृद्रोगं विषमज्वरम् ।
उन्माद रक्तपित्तं च कासं चैतेन साधयेत् ॥

6.4.54

अश्वत्थस्याथ मूलानि शुङ्गानि सफलानि च ।
शतावरीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ॥

6.4.55

गोलोमीं श्रेयसीं कालां शारिबां सपुनर्नवाम् ।
क्षीरद्रोणेषु दशसु कुट्टितानि विपाचयेत् ॥

6.4.56

तच्छृतं शीतलं पूतं खजेनाभिप्रमन्थयेत् ।
यत्तत्र सर्पिर्जायेत तदुद्धृत्य विपाचयेत् ॥

6.4.57

भैषज्यानि च पिष्टानि तत्रेमानि समाचरेत् ।
मधुकं मधुलिं द्राक्षां मेदां वृषभजीरकौ ॥

6.4.58

तालमज्जां सलामज्जं तथा पुष्करबीजकम् ।
जीवनीं त्रायमाणां च मधुकानि कशेरुकम् ॥

6.4.59

नीलोत्पलं पुण्डरीकं वार्ताकानपि चोच्चटाम् ।
काश्मर्यामलकेक्षूणां विदार्याः स्वरसं च वा ॥

6.4.60

तत्सिद्धं दापयेत् पूतं कलशे राजते दृढे ।
तुलार्धं शर्करायाश् च दत्त्वा चैवाभिमन्थयेत् ॥

6.4.61

प्रक्षिपेच् च तुगाक्षीर्याः प्रस्थं प्रस्थं च माक्षिकात् ।
आत्मगुप्ताफलस्य स्याद् गुडस्य मरिचस्य च ॥

6.4.62

उच्चटीक्षुरसाभ्यां च द्वौ प्रस्थौ तत्र दापयेत् ।
त्वगेलानागपुष्पाणां चूर्णं तत्र प्रदापयेत् ॥

6.4.63

पलिकान् मोदकान् कृत्वा स्थापयेन्मृण्मये नवे ।
अश्नीयात्तत्पलं कल्यं सायं भूयः पलं नरः ॥

6.4.64

शयनं मृदु सेवेत ब्रह्मचारी समाहितः ।
कर्मणानेन नियतं यक्ष्माणमपकर्षति ॥

6.4.65

संबृहयति शुष्कं च पुरुषं दुर्बलेन्द्रियम् ।
वाजीकरणमप्येतन्नराणां क्षीणरेतसाम् ॥

6.4.66

स्त्रीभिर् हता भारहताः जीर्णाश् चातीतयौवनाः ।
क्षीणमांसाः क्षीणबलाः ये चाथ क्षीणशोणिताः ॥

6.4.67

पित्तरोगे रक्तपित्ते शोषे दोषज्वरे तथा ।
हतेन्द्रिया नष्टशुक्लाः सक्तकण्ठाश् च ये स्मृताः ॥

6.4.68

अशक्तमन्दका ये च रतिनष्टेन्द्रिया नराः ।
पुनर्नवांस्तान्कुरुते योगो ऽ यममृतोपमः ॥

6.4.69

अपस्मारानथोन्मादान् हृद्रोगानपतन्त्रकम् ।
तेजो वापहृतं येषां भूतधर्मेण केनचित् ॥

6.4.70

क्षीरानुपानात्तन्वन्ति सद्यः पोषं हि मोदकाः ।
व्याकुलात्यल्पाधातूनां शोषिणां मन्ददेहिनाम् ॥

6.4.71

अपि योगशतेनापि दुःखम् एव चिकित्सितम् ।
तस्माद् रसायनविधिं वर्धमाने क्षये भिषक् ॥

6.4.72

संवत्सरं परमृतुमयनं वा समाचरेत् ।
पिप्पलीवर्धमानं तु पञ्चपञ्चविवर्धितम् ॥

6.4.73

नस्ये चाभ्यञ्जने पाने प्रशस्तं बस्तिकर्मणि ।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥

6.4.74

पार्श्वशूले प्रमेहे च गुल्मे सार्शोभगन्दरे ।
च्युतभग्नाङ्गहीनानां कासे श्वासे च हृद्ग्रहे ॥

6.4.75

ज्वरातिसारेष्व् अरुचौ वर्णभेदे स्वरक्षये ।
सुकुमारम् इदं तैलं बालवृद्धसुखावहम् ॥

6.4.76

एतद्धि वृष्यं बल्यं च मासान्मांसविवर्धनम् ।
स्वरवर्णकरं चैव शोषिणाममृतोपमम् ॥

6.4.77

निष्पाकश् चास्य तैलस्य सम्यक् सिद्धस्य यो भवेत् ।
उदश्विदिव दध्यर्थं सो ऽ पि कृत्यकरो भवेत् ॥

6.4.78

एकादश च षट् चैव शोषजा य उपद्रवाः ।
सुकुमारं प्रशमयेन्मेधो ऽ ग्नीनिव वृष्टिमान् ॥

6.4.79

लुञ्चितानां तिलानां तु तैलप्रस्थं विपाचयेत् ।
पलं तु मधुकस्यात्र गर्भं क्षीरं चतुर्गुणम् ॥

6.4.80

मृदुपाकं च तत्सिद्धं भूय एव विपाचयेत् ।
चतुर्गुणेन पयसा मधुकस्य पलेन च ॥

6.4.81

एतेन विधिना चैव मधुकस्य शतं पचेत् ।
शतकृत्वो विपक्वन्तु शतपाकम् इति स्मृतम् ॥

6.4.82

पानाभ्यञ्जननस्येषु बस्तौ व्यञ्जनसाधने ।
भोजने चामृतप्रख्यं नराणां राजयक्ष्मिणाम् ॥

6.4.83

हृद्रोगं तालुशोषं च पार्श्वशूलं प्रतानकम् ।
तृष्णामुन्मादवीसर्पं कासं श्वासमसृग्दरम् ॥

6.4.84

रक्तपित्तं प्रवृद्धं च सर्वतो भागमूर्च्छितम् ।
कामलां पाण्डुरोगं च पानादेतन्नियच्छति ॥

6.4.85

मुखपाकाक्षिपाकौ च बाधिर्यं कर्णवेदनाम् ।
नक्तान्ध्यं तिमिरं काचं लिङ्गनाशं सिराचयम् ॥

6.4.86

बिडालिकां पूतिनस्यं शिरोरोगं शिरोग्रहम् ।
नस्तः कृतं प्रणुदति खालित्य् अं पलितानि च ॥

6.4.87

अधोभागे रक्तपित्ते रक्तार्शस्सु भगन्दरे ।
सर्वगात्रगते वाते रक्तपित्तसमुद्भवे ॥

6.4.88

अप्रजस्सु च नारीषु पुंसां नष्टे च रेतसि ।
जानुत्रिकादिकुब्जेषु प्रशस्तं बस्तिकर्मणि ॥

6.4.89

बहूपरोधाः स्त्रीनित्य् आः तेषां वृष्यतमं मतम् ।
प्रयोगेण प्रयुक्तं च रसायनमनुत्तमम् ॥

6.4.90

सहस्रपाकम् इत्य् एतत् कल्पेनैतेन साधयेत् ।
रसायनमिदं प्राहुर्नृणां वर्षसहस्रकृत् ॥

6.4.91

अश्वगन्धा ह्य् अपामार्गो नाकुली गौरसर्षपाः ।
तिला बिल्वं च कल्कं स्यात् तत्र रक्षयोन्मर्दनं परम् ॥

6.4.92

मङ्गलाचारसंयुक्तो भवेत्स्वस्त्ययनो नरः ।
स्नानानि शान्तिहोमांश् च शोषी नित्यं समाचरेते ॥

6.4.93

इष्टयो वेदविहिता नाशना राजयक्ष्मणः ।
ताश् च नित्यं निषेवेत पूजयेद् वृषभध्वजम् ॥

6.4.94

उपद्रवाश् च ये शेषे षट् चैकादश चोदिताः ।
तेषां चिकित्सितं कुर्याद् यथा स्वे स्वे चिकित्सिते ॥

6.4.95

इत्य् एवं प्रयतेनोक्तं राज्यक्षचिकित्सितम् ।
यशःस्वर्गकरं पुण्यं शिष्याणामर्थसिद्धये ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चिकित्सिते चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातो गुल्मचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc