भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.3

6.3.1

ऊर्ध्वं चाधश् च मर्त्यानां रक्तपित्तं प्रवर्तते ।
अतस् तु द्विविधा प्रोक्ता चिकित्सा रक्तपित्तिनः ॥

6.3.2

अत्यम्ललवणाहारात् सततातपसेवनात् ।
उपवासाद् भ्रमात् त्रासाद्विरुद्धाध्यशनादिभिः ॥

6.3.3

तिलपिण्याकाशाकानां तथा पिष्टकृतस्य च ।
पित्तलानां च सर्वेषां मत्स्यादीनां च सेवनात् ॥

6.3.4

ऊर्ध्वं चाधश् च कुपितं रक्तपित्तं प्रवर्तते ।
घ्राणकर्णाक्षिमुखतः पायुतो मेढ्रतस् तथा ॥

6.3.5

निष्ठीवति सरक्तं च तिक्तमम्लमथापि वा ।
न च तत्पतितं भूमौ भक्षयन्ति पिपीलिकाः ॥

6.3.6

मक्षिका वापि तिक्तत्वाच् छुष्कं पित्तं च लक्ष्यते ।
सन्दह्यते दूयते च कण्ठस्तालु च शुष्यति ॥

6.3.7

लोहगन्धि मुखं चास्य कण्ठो धूमायते तथा ।
एतान्येवं त्वधोभागे लक्षणान्युपलक्षयेत् ॥

6.3.8

ऊर्ध्वभागं तु साध्यं स्यादधो वै याप्यमुच्यते ।
सर्वस्रोतःप्रवृत्तं तु रक्तपित्तं न सिध्यति ॥ रक्तपित्तमधोभागं छर्दिनैस्समुपाचरेत् ॥ ॥ चतुर्थो ऽ ध्यायः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc