भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.2

6.2.1

केचिद्वातात्मकं प्राहुर्भिषजो विषमज्वरम् ।
सन्निपातोद्भवं केचिदपरे पित्तसम्भवम् ॥

6.2.2

श्लेष्मजं त्वपरे प्राहुरपरे भूतसम्भवम् ।
जन्मनक्षत्रपीडाभिर् अपरे देवचिन्तकाः ॥

6.2.3

ईदृशः शास्त्रकाराणां मतयो ऽ थ पृथग्विधाः ।
सन्निपातोद्भवं ह्येतदहं वक्ष्यामि हेतुभिः ॥

6.2.4

पक्वाशयस्थपवनो ह्य् अस्थिमज्जगतस्तथा ।(ंअधुकोश ओन् ंण्2.38)) कुपितः कोपयत्याशु श्लेष्माणं पित्तम् एव च ॥

6.2.5

स गम्भीरसमुत्पत्तिस्थानतन्त्रत्रयो महान् ।
अन्येद्युष्कैकान्तरितौ कुर्याद् वापि चतुर्थकम् ॥

6.2.6

मज्जानमस्थि मेदश् च दूषयेत्प्रथमे ऽ हनि ।
द्वितीये ऽ हनि सम्प्राप्ते दूषयेन्मांसशोणितम् ॥

6.2.7

ततस्तृतीये दिवसे दूषयेत् कफमारुतौ ।
अभिगम्य ततः पित्तं दूषयेत् तु चतुर्थके ॥

6.2.8

ज्वरो ऽ यं प्राणिनां देहे रौद्रो माहेश्वरस् तथा ।
प्रयतेत प्रशान्तौ तु तस्माद् अस्य विचक्षणः ॥

6.2.9

गम्भीरस्थानसम्भूतो धातुसंकरदूषितः ।
तस्माच् चतुर्थको नाम दुश्चिकित्स्यतमो मतः ॥

6.2.10

शोषयत्येष भूतानि दारुणो विषमज्वरः ।
तस्माच् छोषोपचारेण कुर्यात् तस्य चिकित्सितम् ॥

6.2.11

त्रिफलाक्वाथसिद्धेन घृतेन मतिमान् भिषक् ।
स्नेहयेत् तं यथान्यायं युक्त्या वृषघृतेन वा ॥

6.2.12

स्रंसयेत् तमधोभागं यथाव्याधिबलाबलम् ।
दोषेष्वामाशयस्थेषु कारयेद् वमनं भिषक् ॥

6.2.13

आस्थापनं च कुर्वीत तथा चाप्य् अनुवासनम् ।
एतन्महापञ्चगव्यं विख्यातं सर्पिरुत्तमम् ॥

6.2.14

चतुर्थकं मोक्षयति मन्त्रसिद्धियुतो यथा ।
श्वयथुं पाण्डुरोगं च प्लीहानं सभगन्दरम् ॥

6.2.15

उदराणि तथा गुल्मान् कामिलां चापकर्षति ॥

6.2.16

शकृद्रसं पयो मूत्रं दधि सर्पिश् च पाययेत् ।
तत्पञ्चगव्यं शमयेच्छ्वयथुं पाण्डुतां ज्वरम् ॥

6.2.17

समूलपत्रशाखस्य शतं कृत्वा वृषस्य तु ।
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ॥

6.2.18

गर्भेण वृषपुष्पाणामाढकं सर्पिषः पचेत् ॥ तत्सिद्धं पाययेद् युक्त्या मधुपादसमन्वितम् ॥

6.2.19

कासं श्वासं पाण्डुरोगं तृतीयकचतुर्थकौ ।
रक्तपित्तं क्षयं चैव वृषसर्पिर्नियच्छति ॥

6.2.20

नागरं सैन्धवं चव्यं पिप्पलीक्षारचित्रकौ ।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥

6.2.21

क्षीरप्रस्थेन संयोज्य शनैर्मृद्वग्निना पचेत् ।
एतेन गुल्माः शाम्यन्ति कुष्ठानि जठराणि च ॥

6.2.22

ज्वरे च विषमे पेयं प्लीहश्वयथुमेहिनाम् ।
शूले पाण्ड्वामये चैव ग्रहणीदीपनेषु च ॥

6.2.23

ऊर्ध्ववाताश् च ये केचित्सर्वेषामौषधं परम् ।
त्र्यूषणं चित्रकं हिंस्रां विलङ्गानि हरीतकीम् ॥

6.2.24

विभीतकान्यामलकं चिरबिल्वत्वचं तथा ।
दशैतानि समांशानि श्लक्ष्णान्यक्षसमानि च ॥

6.2.25

तैः पाचयेद् धृतप्रस्थं सम्यक् पयसि षड्गुणे ।
ग्रहणी दीप्यते तेन वातगुल्मश् च शाम्यति ॥

6.2.26

अर्शसां शमनं चैव गुदशोफे च पूजितम् ।
एतद् एव हि वै श्रेष्ठमुदावर्ते घृतं भवेत् ॥

6.2.27

दर्भवेतसमूलानि चन्दनं मधुकं बला ।
फेनिला पद्मकोशीरमुभे च कमलोत्पले ॥

6.2.28

किंशुकश्चेति भागाः स्युः पृथक् पञ्चपलोन्मिताः ।
जलद्रोणे विपक्तव्यं चतुर्भागावशेषितम् ॥

6.2.29

जीवकर्षभकौ मेदां लोध्रं लामज्जकं तथा ।
कालेयकं सप्रियकं दद्यात् केसरम् एव च ॥

6.2.30

त्रिपुण्डरीकं लोध्रं च पद्मकं पद्मकेसरम् ।
सुरभिं कुङ्कुमं चैव मञ्जिष्ठां मदयन्तिकाम् ॥

6.2.31

माचिपत्रं च तुल्यानि द्विगुणं कुङ्कुमं भवेत् ।
चतुर्गुणां च मञ्जिष्ठां सौवीरं स्नेहसम्मितम् ॥

6.2.32

तैलप्रस्थं पचेत्तेन कषायेणार्धपेषितम् ।
एतदभ्यञ्जनं तैलं विषमज्वरनाशनम् ॥

6.2.33

महापद्मकम् आख्यातम् एतत् सर्वज्वरापहम् ।
वातपित्तोद्भवं क्षिप्रं ज्वरमेतन्नियच्छति ॥

6.2.34

त्रायमाणां जयां वीरां नाकुलीं गन्धनाकुलीम् ।
कायस्थां च वयःस्थां च जीरकं सपलङ्कषम् ॥

6.2.35

छत्रातिच्छत्रजटिलां सूकरीं कर्कटीं तथा ।
चारटीं पूतनां केशीं वचां कटुकरोहिणीम् ॥

6.2.36

महापुरुषदन्तां च वृश्चिकालीं कटम्भराम् ।
स्थिरां च पिष्ट्वा तैस्सिद्धं चतुर्थकविनाशनम् ॥

6.2.37

महापैशाचिकं नाम सर्पिरेतज्ज्वरापहम् ।
भूतग्रहानपस्मारानुन्मादांश् चापकर्षति ॥

6.2.38

एतैर् एव उषधगणैः प्रदेहं कारयेद् भिषक् ।
धूपयेज्ज्वरितं चैव तथा सम्पद्यते सुखी ॥

6.2.39

बलयः शान्तिकर्माणि होमस्वस्त्ययनानि च ।
स्नानानि चोपवासश् च शमयन्ति चतुर्थकम् ॥

6.2.40

स्रष्टारं चास्य रोगस्य भूताधिपतिमच्युतम् ।
पूजयंश् चाभिगच्छेच् च श्मशाने वृषभध्वजम् ॥

6.2.41

भूतविद्यासमुत्पन्नैर्बन्धनैस्साधनैर् अपि ।
होमैर्बलिविधानैश् च नाशयेद् विषमज्वरम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चिकित्सिते द्वितीयो ऽ ध्यायः ॥ ॥ तृतीयो ऽ ध्यायः ॥ अथातो रक्तपित्तचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc