भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.27

6.27.1

व्रणस्य काले सम्पश्यन् ततः कुर्याद् उपक्रमम् ।
भेदनं पाचनं चैव स्तम्भनं शोषणं तथा ॥

6.27.2

स्रावणं रोपणं चैव व्रणे कुर्याद् उपक्रमम् ।
उदिता कर्णमोटश्च रास्ना मूलकपर्णिका ॥

6.27.3

शुकनासा सुगन्धा च समङ्गा चैव कुष्ठकम् ।
कालेयकं बला दन्ती पाठा शतपदी स्थिरा ॥

6.27.4

पीडनीयः प्रलेयो ऽ यं व्रणश्वयथुनाशनः ।
उदुम्बरः शिरीषश् च मधुकं चन्दनं तिलाः ॥

6.27.5

इन्दुकान्तं समुद्रान्ता तथैव च शतावरी ।
नीलोत्पलं पद्मकं च त्वचा द्वे चापि सारिबे ॥

6.27.6

एष प्रलेपो गारं च व्रणानां तु विनाशयेत् ।
तिलकल्कस्समधुकः पिचुमन्दस्य कल्कवान् ॥

6.27.7

पूर्वाभ्यां सर्पिषा युक्तो व्रणेषु व्रणरोपणः ।
त्रिफला धातकी लोध्रं समङ्गा मधुकं बला ॥

6.27.8

द्वे बृहत्यौ समुद्रान्ता तथैव च शतावरी ।
नीलोत्पलं कट्फलं च मालती स्वर्णयूथिका ॥

6.27.9

एषां कल्कैस्समैस्सिद्धं तैलं स्याद् व्रणरोपणम् ।
निम्ब्वाम्रामलकीनां च पल्लवं मधुकं बला ॥

6.27.10

एतैश्शकृद्रसेसिद्धं तैलं व्रणनिबर्हणम् ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षपाठावरार्जुनाः ॥

6.27.11

शमीबदर्या एतेषां कषाया व्रणधावनाः ।
यवान्नं शालिका रक्ता मुद्गा नीवारषष्टिकाः ॥

6.27.12

जाङ्गलानि च मांसानि व्रणितश्शीलयेत्सदा ।
अम्लं दधि च शाकं च मांसं चानूपवारिजम् ॥

6.27.13

क्षीरं गुरूणि चान्नानि व्रणितः परिवर्जयेत् ।
एतनुपक्रमान् कुर्याद् व्रणे कायचिकित्सकः ॥

6.27.14

शल्यकृच् चापि कुर्वीत व्रणे शेषानुपक्रमान् ।
छेद्यं भेद्यं च लेख्यं च सीव्यं प्रच्छनम् एव च ॥

6.27.15

पाचनं यच् च तस्तुल्यं भवेद् अन्यच् च किंचन ।
द्वादश व्रणदोषाश्च परीक्षा चैव षड्विधा ॥

6.27.16

उपक्रमाश् च षट्त्रिंशन्नियताः शल्यहेतुके ।
उद्देशतः क्रियाश् चैताः कुर्यात् कायचिकित्सकः ॥

6.27.17

त्रिफला मधुकं लोध्रं मञ्जिष्ठा बिल्वशुण्ठिका ।
समङ्गा धातकी लाक्षा विर्यासः शाल्मलेरपि ॥

6.27.18

पालाशस्य च निर्यासो निर्यासः ककुभस्य च ।
सूक्ष्मान्य् एतानि चूर्णानि व्रणानां रोपणं परम् ॥

6.27.19

गुग्गुलोः सल्लकीनां च सर्जस्य तिनिशस्य च ।
निर्यासा रोपणाः पोक्ताः समस्ताः पृथगेव वा ॥

6.27.20

व्रणे धूमक्रमा ये च प्रत्युत्पत्तौ च या क्रिया ।
एतच्छेषं शल्यकृता कर्तव्यं दृष्टकर्मणा ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तविंशो ऽ ध्यायः ॥ ॥ अष्टाविंशो ऽ ध्यायः ॥ अथातः पानात्ययचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc