भेलसंहिता · अध्याय 6.26
रूक्षान्नपानसेवाभिर् वेगसन्धारणेन च ।
कर्शितस्यातिमात्रन्तु चेष्टितस्य तथैव च ॥
विरिक्तयुक्तनस्यस्य वस्तिना कर्शितस्य च ।
अपतन्त्रितभक्तस्य भक्तस्याप्यतिसेविनः ॥
शुद्धः पक्वाशयगतो वायुर्वृद्धः प्रपद्यते ।
स पीडयित्वा हृदयं धमनीर्दश संस्थितः ॥
ऊर्ध्वमापूर्य स्रोतांसि शिरश्शङ्खौ च धावति ।
आक्षेपात्तस्य गात्राणि नाम्यन्ते च धनुर्यथा ॥
निमीलिताक्षः स्तब्धो वा निरुच्छवासो विचेष्टते ।
कृच्छ्राच्छवसिति सर्पीव कूजत्य् अपि कपोतवत् ॥
मुक्ते च हृदि वातेन पुनः स्वास्थ्यं नियच्छति ।
भूयस् तु शेते स्रस्ताक्षो मुह्यत्यप्रयतो यथा ॥
घोरस्स वातिको रोगो धमनीहृदयाश्रितः ।
सन्निरोधाच् च नाडीनां यन्त्रितानां च वेगतः ॥
स्रोतसां व्याकुलीभावान्नित्यं स्यादपतन्त्रकः ।
न चैनं वामयेद् धीरो न चाप्य् एनं विरेचयेत् ॥
न चास्यास्थापनं दद्यान्न चैनमपतर्पयेत् ।
पिप्पल्यो ऽ थ विडङ्गानि शिग्रूणि मरिचनि च ॥
एतानि सूक्ष्मपिष्टानि कुर्याच् छीर्षविरेचनम् ।
श्वसतो यस्य संवृद्धिः श्लेष्मणो मारुतस्य च ॥
तस्य श्लेष्मण्युपहते संज्ञा समुपजायते ।
सौवर्चलं दाडिमं च तथा हिंग्वम्लवेतसम् ॥ 6.2
महौषधं च पीतानि नाशयन्त्यपतन्त्रकम् ।
हिङ्गु पुष्करमूलं च तुम्बुरूणि हरीतकी ॥
यवक्वाथोदकेनैतद्दातव्यं लवणैस्त्रिभिः ।
हृद्रोगं पार्श्वशूलं च प्रवृद्धं चापतन्त्रकम् ॥
योगो ऽ यं शमयत्याशु शूलं गुल्मं च वातिकम् ।
विभीतकं चातिविषां भद्रमुस्तां सपिप्पलीम् ॥
भार्ङ्गीं सशृङ्गबेरां च सूक्ष्मचूर्णानि कारयेत् ।
तानि चूर्णानि मद्येन पीतान्युष्णोदकेन वा ॥
नाशयन्ति नृणां क्षिप्रं श्वासकासपतानकम् ।
हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम् ॥
घृतमात्रासमायुक्तं नाशयत्यपतानकम् ।
शुकनासा महावल्ली द्वे बृहत्यौ महौषधम् ॥
निचुलश् चैव भार्ङ्गी च ।.. ।.. कालिका ।
पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् ॥
तोयाढके घृतप्रस्थं तत्सिद्धं चापि पाययेत् ।
श्वासकासा महाहिक्का हृद्रोगश् चापतन्त्रकः ॥
नातिक्रामेद् इदं सर्पिः वेलामिव महोदधिः ।
काकादनी बलालम्बा द्वे बृहत्यौ महौषधम् ॥
कदम्बपुष्पी काला च चन्द्रवल्ली तथा वृषा ।
आदारी च विदारी च सुवहा केशवत्य् अपि ॥
एतेषां द्विपलान् भागान् जलद्रोणे विपाचयेत् ।
एतैरेवाक्षमात्रैश् च घृतप्रस्थं विपाचयेत् ॥
द्विगुणेन कषायेण तत्सिद्धं युक्तियः पिबेत् ।
असाध्यां महतीं हिक्कां श्वासं चैवापकर्षति ॥
हरीतक्याश् च पञ्चाद् द्वे च सौवर्चलात्पले ।
विपाचयेद् घृतप्रस्थं द्विगुणक्षीरसंयुतम् ॥
अपतानं सहृद्रोगमेतसर्पिर्व्यपोहति ।
हिक्काश्वासौ च संवृद्धौ सद्य एव चिकित्सति ॥
अतपानकनाशार्थमेतदुक्तं चिकित्सितम् ।
अथार्दितानां वक्ष्यामि चिकित्सां लक्षणानि च ॥
शस्त्रकाष्ठप्रहाराच्च ग्राम्यधर्मातिसेवनात् ।
छर्दनान्मद्यपानाच् च धनुषश् च विकर्षणात् ॥
नित्यं व्यायामशीलानां पतनाल्लङ्घनाद् अपि ।
अवतन्त्रितभक्तस्य व्याधिना कर्शितस्य च ॥
नरस्य कुपितो वायुरूर्ध्वम् एव प्रपद्यते ।
हनुमूलं शिरश् चापि ग्रीवां चैवार्दयत्य् अपि ॥
स जिह्मं कुतुते तस्य वदनं चक्षुरेव च ।
कम्पते ऽ स्य शिरोग्रीवं नासा वक्रीभवत्य् अपि ॥
तस्याक्षिणी निमील्येते निष्पन्दे विषमे तथा ।
ऊर्ध्वं विप्रेक्षते ऽ त्यर्थं तिर्यगाकेकरेक्षणः ॥
ओष्ठौ श्वयथुमन्तौ च चिबुकं च विनाम्यते ।
ष्ठीवत्यथातिमात्रं हि कला सज्जति चास्य वाक् ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ सप्तविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥। नां व्रणनाशनाः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0