भेलसंहिता · अध्याय 6.25
अभिष्यन्दीनि भोज्यानि भुञ्जीतातीव यो नरः ।
लङ्घितो वा विरिक्तो वा व्यायामम् उपसेवते ॥
भुक्त्वा पीतोदको यस् तु सहसा संप्रधावति ।
पृष्ठयानाद् द्रुताच् चापि प्लवनात्स्नेहविभ्रमात् ॥
रोगैरन्यैश् च क्लिन्नानां कुर्बलानां च देहिनाम् ।
प्लीहा स्थानात्प्रवर्धेत तस्य रूपाणि मे शृणु ॥
करोत्यग्नेर्मार्दवं च शूलं कठिन एव च ।
महापरिग्रहश्चैष प्लीहा वातसमुद्भवः ॥
सज्वरः सपिपासश् च स्वेदनस्तीव्रवेदनः ।
पीतकः स्तब्धगात्रश् च प्लीहा पित्तात्मको भवेत् ॥
नित्य् आनाहितकोष्ठश् च नित्य् ओदावर्तपीडितः ।
वेदनाभिपरीतश् च प्लीहा श्लेष्मात्मको मतः ॥
त्रयाणां यत्र रूपाणि दोषाणां लक्षयेद् भिषक् ।
असाध्यम् इति तं विद्यात् प्लीहानं सान्निपातिकम् ॥
मुष्टिमात्रस्सुसाध्यस् तु परमस्तमुपाचरेत् ।
अतिप्रमाणवृद्धस् तु न सिध्यति कथञ्चन ॥
सर्वेषु तेषु दौर्बल्यमानाहो गात्रसादनम् ।
अरुचिश् चाविपाकश् च वर्चोमूत्रग्रहो ज्वरः ॥
मार्द्वीकं च पिबेद्युक्त्या गण्डीरारिष्टम् एव वा ।
चन्द्रप्रभं शार्करं वा पाययेत् तु हलीमके ॥
अयोर् अजीयं क्षीरेण पाययेत् तु रसायनम् ।
अगस्त्याभयलेहं वा सेवेत प्रयतः शुचिः ॥ इत्य् आह भगवान् आत्रेयः ॥ इति भेले पञ्चविंशो ऽ ध्यायः ॥ ॥ षड्विंशो ऽ ध्यायः ॥ अथातो ऽ पतन्त्रकचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0