भेलसंहिता · अध्याय 6.24
हनुग्रहं पादहर्षं पार्श्वशूलं ज्वरं क्षयम् ।
वर्ध्मकुण्डलिकृच्छ्राणि हृद्ग्रहं गात्रजं क्लमम् ॥
अशीतिं वातिकान् रोगान् तैलमेतद्व्यपोहति ।
सन्निपातसमुत्थांश् च संसृष्टांश् चैकजांस्तथा ॥
योनिव्यापत्तिवन्ध्यात्वं प्रवृद्धं यदसृग्दरम् ।
बलवर्णकरं चैव कासक्षयनिर्बहणम् ॥
बलामूलात्पलशतं दशमूलाच्छतं तथा ।
शतावर्या गुडूच्याश् च रास्नामधुकदारुणः ॥
कुर्याद् दशपलान्भागान् कुलुत्थान् बदरान् यवान् ।
माषांश् च कुडवांशेन जलद्रोणेषु पञ्चसु ॥
क्वाथं द्रोणावशिष्टन्तु तैलाढकसमायुतम् ।
घृतप्रस्थेन विपचेत् क्षीरद्रोणेन चाप्य् अथ ॥
पेष्यान् प्रदद्याद्वैद्यो वै तगरोशीरवालकम् ।
कुष्ठधान्यकमुस्तैला वचाञ्चागुरुचन्दनम् ॥
परिपेलवकालीयं मांसीं श्रीवेष्टकं रसम् ।
कुन्दुरुष्कं च तक्कोलं सरलं नलिकां नखम् ॥
स्पृक्काकुंकुमकर्पूरं जातितिन्दुकयोः फलम् ।
पत्रं चोरकनागाह्वं शताह्वां सहरेणुकाम् ॥
सतुरुष्कं जीवनीयं प्रियंगुं हपुषां तथा ।
स्थौणेयकमुशीराणि शैलेयं च समं घृतम् ॥
कल्कपिष्टैः पचेत्तैलमेतद्वातामयापहम् ।
पाने चाभ्यञ्जने नस्ये वस्तौ चापि प्रयोजयेत् ॥
सर्वदेहाश्रया वाताः संसृष्टाश् चैकजाश् च ये ।
तेषां निग्रहणे युक्तम् इत्य् उवाच पुनर्वसुः ॥
तैलेनानेन सततं विधिवत्तर्पितं नरम् ।
सर्वामया वर्जयन्ति सिह्मावासं यथा मृगाः ॥
बलाया जातसारायास्तुलां कुर्यात् सुकुट्टिताम् ।
पचेत्तोये चतुर्द्रोणे चतुर्भागावशेषितम् ॥
पलानि दश पिष्टानि बलायास् तत्र दापयेत् ।
लुञ्चितानां तिलानान्तु दद्यात् तैलाढकद्वयम् ॥
चतुर्गुणेन पयसा पचेत्तन्मृदुनाग्निना ।
वातव्याधिषु सर्वेषु रक्तपित्ते क्षतक्षये ॥
व्यापन्नासु च योनीषु शस्तं नष्टे च रेतसि ।
तालुशोषं तृषां दाहं पार्श्वशूलमसृग्दरम् ॥
हन्ति शोषमपस्मारं विसर्पं सशिरोग्रहम् ।
आयुर्वर्णकरं प्रोक्तं बलातैलं प्रजाकरम् ॥
रास्नामूलस्य कुर्वीत द्वे शते च बलाशतम् ।
शतावरीगुड्चीभ्यां वरणाच् च शतं शतम् ॥
आढकीशिग्रुकैरण्डशिरीषारग्वधाद् अपि ।
श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत् ॥
तोयद्रोणेषु दशसु साधयेत्सूक्ष्मकुट्टितम् ।
द्रोणावशेषे तस्मिंस् तु तैलस्यार्धर्मणं पचेत् ॥
द्रोणान् दश च दुग्धस्य घृतस्यार्धढकं तथा ।
तदैकध्यं विपक्तव्यं गर्भे चात्र विपाचयेत् ॥
मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम् ।
काश्मर्यामजमोदां च शृङ्गीं कपिलमुस्तकम् ॥
आत्मगुप्ताढकीमूर्वावार्ताकानि मधूलिकाम् ।
सहदेवामथैरण्डां रोहिषं नवमालिकाम् ॥
फणिज्जकं मधूकानि वीरानीरकदम्बकम् ।
फलं च पीलुपालाशं कुमार्यश्वत्थतैन्दुकम् ॥
ह्रीबेरं पिप्पलीकुष्ठं द्राक्षां कटुकरोहिणीम् ।
कायस्थां च वयस्थां च मधुपर्णीं सचित्रकाम् ॥
महापुरुषदन्तां च मोदकीं सल्लकीम् अपि ।
देवदार्वगुरु श्रेष्ठं चन्दनं परिपेलवम् ॥
नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम् ।
एतैः पलसमैः पिष्टैस्समं तैलं विपाचयेत् ॥
भोजने ऽ भ्यञ्जने पाने वस्तौ नस्ये च शस्यते ।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥
स्वरक्षये रक्तपित्ते हिक्काश्वासेष्व् असृग्दरे ।
मारुते पित्तसंसृष्टे संसृष्टे शोणितेन च ॥
विषमज्वरहृद्रोगे गात्रकम्पे तथैव च ।
अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि ॥
रास्नातैलम् इदं श्रेष्ठं बलमांसविवर्धनम् ।
समूलपत्रशाखस्य शतं सहचरस्य च ॥
चतुर्षु तोयद्रोणेषु साधयेत्सूक्ष्मकुट्टितम् ।
द्रोणावशेषपूते च पचेत्तैलाढकं शनैः ॥
अम्बुजानूपमांसैश् च शिरस्तस्योपनाहयेत् ।
नस्यकर्म च कुर्वीत पिचुं मूर्ध्नि च दापयेत् ॥
मुखं विघटयेत् तस्य सन्दंशेन यथासुखम् ।
भृङ्गारेण प्रयच्छेच् च स्नेहमांसरसं तथा ॥
अव्याददानस्य तथा दन्तानुद्धाट्य संहतान् ।
आमाशयगते वाते स्नेहैर्नोपचरेद् भिषक् ॥
लङ्घनं तस्य कुर्वीत तथा संशोधनानि च ।
आमप्रलेपसम्भूतः श्लेष्मस्थानगतो ऽ निलः ॥
स्नेहैर्मांसरसैश् चैव स्नेह्यमानो विवर्धते ।
तस्मात् तस्य विरूक्षाणि भोजनानि कटूनि च ॥
आहारे चौषधार्थे च विदध्याच्शास्त्रकोविदः ।
आमाशयस्थे वमनं क्षाराः क्षारगुडास् तथा ॥
अरिष्टाश्शीधवश् चैव हितं मांसं च जाङ्गलम् ।
श्यामाकाः कोरदूषाश् च मुद्गा लोहितशालयः ॥
स्वेदो यवान्नं च हितमामाशयगते ऽ निले ।
यदा पक्वाशयगतो रूपाणि कुरुते ऽ निलः ॥
सिरासु सर्वगात्रेषु मज्जस्वस्थिगतो ऽ पि वा ।
निरूप्य रूपमुक्तस्य तस्य कुर्याच् चिकित्सितम् ॥
कृत्स्नं यदुपदिष्टं तु वातव्याधिचिकित्सितम् ।
रक्तस्थानगते वायौ पूर्वमुक्तं चिकित्सितम् ॥
वातशोणितके तत् तु कुर्याद् रक्तगते ऽ निले ।
समुत्थितायां गृध्रस्यां बलातैलं प्रशस्यते ॥
श्रेष्ठं मूलकतैलं वा तैलं सहचरस्य वा ।
वस्तयः स्नेहपानानि स्नेहश्चोन्मर्दननि च ॥
गृध्रस्यां तु प्रशस्यन्ते शोणितस्य च मोक्षणम् ।
अशीतिर्वातजा रोगाः ये ये पूर्वं प्रकीर्तिताः ॥
तेषामेषा चिकित्सा तु वायोः स्थानेषु सप्तसु ।
साध्या ये चाप्य् असाध्यास् तु रोगा मारुतसम्भवाः ॥
उत्पतन्त्यथ तिष्ठन्ति वायोः स्थानेषु सप्तसु ।
अस्थिमज्जागतो भङ्गं कम्पनं गात्रशोषणम् ॥
पक्षग्रहमपस्मारमुन्मादम् अपि चार्दितम् ।
हनुग्रहं कुणिं कुब्जं पाङ्गुल्यं सन्धिविच्युतिम् ॥
करोति मारुतो ऽ न्ये च वातरोगा भवन्त्य् अपि ।
साध्यान् स्थानवशादेव तांश्चिकित्सेद्यथाक्रमम् ॥
इतीयं विस्तरेणोक्ता चिकित्सा वातरोगिणाम् ।
वातो हि जीविते हेतुः प्राणिनां च तथात्यये ॥
सन्तत्या गमयेन्नित्यं सूर्यं चन्द्रमसं तथा ।
वर्षणं वायुना लोके तथैव च निवारणम् ॥
वहते च विमानानि सर्वशः स्वर्गवासिनाम् ।
सागरे कुरुते वेलां वायुर्मेघान् सृजत्य् अपि ॥
विगतिर्वायुना मेघो विद्युद्भवति वायुना ।
त्रैलोक्यधारी पवनस्सर्वं वातात्प्रवर्तते ॥
निर्वर्तयेत्पुष्पफलं वायुर्धारयते जलम् ।
उल्कापातान् महीकम्पान् धरणीधारणानि च ॥
आकाशे धारयेद् गङ्गां वायुस् त्व् अतिबलान्वितः ।
एताश् चान्याश् च बहवो वायोर् गुणविभावनाः ॥
तस्मात् प्रयत्नतस् तस्य चिकित्सां भिषजां वरः ।
कुर्याच् छास्त्रानुसारेण तथा सिद्धिम् अवाप्नुयात् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चतुर्विंशो ऽ ध्यायः ॥ ॥ पञ्चविंशो ऽ ध्यायः ॥ अथातः प्लीहहलीमकचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0