भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.23

6.23.1

निद्रां चैवातिनिद्रां च मूर्छां चैव निबोध मे ।
तमसा हि समाक्रान्ते सत्त्वे दिवससंक्षयात् ॥

6.23.2

इन्द्रियाण्यस्य कर्मभ्यः क्रमात्प्रविरमन्त्यथ ।
भुक्ते ऽ न्ने पच्यमाने च श्लेष्मणा हृद्गतेन तु ॥

6.23.3

विवृद्धेन निरुद्धेषु चक्षुःश्रोत्रवहेषु च ।
कर्मक्रियासूर्यपादैश्छेदिता प्राणिनो दिवा ॥

6.23.4

शारीरमानसैश् चैव तैस् तैर् उक्तैर् उपाहृता ।
एवंक्रियान्नसंज्ञानि तन्द्रा विशति तामसी ॥

6.23.5

एवं सर्वेषु भूतेषु निद्रा नामोपजायते ।
चिन्ताशोकश्रमहरी ब्रह्मणा विहिता पुरा ॥

6.23.6

स्वपतस् तस्य देहे ऽ स्मिन् प्राणापानौ सहोष्मकौ ।
जागृतः जीवसंयुक्तस्तेनासौ न विनश्यति ॥

6.23.7

इन्द्रियाणाम् उपरमे मनस्सूपरतं यदा ।
सेवते गोचरं तेषां विद्धि तं स्वप्ननामकम् ॥

6.23.8

पितृदेवमनुष्येषु संभाषणम् उपैति च ।
परं च लभते स्वप्नभेदस्स हि न वात्मनः ॥

6.23.9

अतिनिद्रा तु जन्तूनां श्लेष्मण्युच्छ्रायमागते ।
वातोत्तराणां नियतं निद्रा नाशं व्रजत्य् अपि ॥

6.23.10

वस्तयः स्नेहपानानि ग्राम्यानूपौदका रसाः ।
गुडदुग्धस्य पानं च निद्रासंजननं परम् ॥

6.23.11

अभ्यङ्गोद्वर्तनं स्नानं मद्यं घृतं तथा ।
मनःप्रसादो निर्वाणं नष्टनिद्रस्य भेषजम् ॥

6.23.12

धूमपानं विरेकश् च कायस्य शिरसस् तथा ।
प्रच्छर्दनं लङ्घनं च निद्रासङ्गं निवर्तयेत् ॥

6.23.13

अयानयानं व्यायामो गूढार्थपरिचिन्तनम् ।
यवान्ननित्य् असेवाथ निद्रासङ्गं निवर्तयेत् ॥

6.23.14

इन्द्रियाणां प्रसन्नत्वं मनस्ताल्वन्तराश्रितम् ।
हृदि सन्तिष्ठते चित्तं बुद्धिसर्वेन्द्रियाश्रयम् ॥

6.23.15

सन्निपत्य च रक्तं च त्रयो दोषाश् च दूषिताः ।
सम्पीडयन्तीह नृणां हृदयं शोषयन्त्य् अपि ॥

6.23.16

आशुष्यमाणं हृदयं प्रमादाद्धि विमुह्यति ।
संपीडितं च हृदयं मनश्चित्तं च मोहयेत् ।
सदनाच्चित्तमनसोः सम्प्राप्नोति विसंज्ञताम् ।
।
।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ चतुर्विंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥। पजार्दितम् ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc