भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.22

6.22.1

अजीर्णे यद्दिवा भुक्तं न दुष्यति यथा नृणाम् ।
व्युषितं दूष्यते वापि तत्र हेतुं निबोध मे ॥

6.22.2

व्यायच्छतो विचरतः व्याक्षिप्तमनसस् तथा ।
मन्दे रसप्रसेके च दिवाभुक्तं न दुष्यति ॥

6.22.3

कमलप्रतिमं प्राहुर्हृदयं दिवसक्षयात् ।
संवृतं विवृतं चैव भवत्यादित्य् अरश्मिभिः ॥

6.22.4

विबुद्धे हृदये चास्य स्रोतस्सु विवृतेषु च ।
हृदयप्रभवाश् चास्य स्रोतोभिर् विवृतैर्दिवा ॥

6.22.5

न क्लेदम् उपगच्छन्ति दिवा तेनास्य धातवः ।
अजीर्णे प्रातराशे तु तृप्तस्यापि दिवा तथ ॥

6.22.6

अनेन विधिना भूयः सायमाशो न दुष्यति ।
व्युषितं दूष्यते चापि रोगान् सञ्जनयत्य् अपि ॥

6.22.7

संवृतेष्व् अयनेष्वेवं वायुश् चाग्निश् च देहिनाम् ।
व्यायामिनं विनैवेह तौ ह्यन्नं पचतो निशि ॥

6.22.8

म्लाने तु हृदये रात्रावुत्क्लेशैकपदेषु च ।
संवृतेष्व् अपि स्रोतस्सु व्यायामं च न सेवते ॥

6.22.9

यदन्नशेषं हृदये तिष्ठत्यामाशये ऽ पि च ।
तेनास्यामप्रलम्बेन देहे पक्तिमगच्छता ॥

6.22.10

हृदये व्याधिते रुद्धे विण्मूत्रे ऽ स्य निशात्यये ।
उपस्थिते चान्नरसे पित्तश्लेष्मसमुद्भवे ॥

6.22.11

अन्नसंपुटरुद्धे च मारुते चोर्ध्वमास्थिते ।
हृदयग्रहमुत्क्लेशं हृल्लासं गुरुगात्रताम् ॥

6.22.12

तदन्नशेषं जनयेन्मूर्छा परिकिनी तृषाम् ।
ज्वरं छर्दिमतीसारं हिक्कां भक्तस्य वारुचिम् ॥

6.22.13

अजीर्णे व्युषितं कुर्याद् रोगानेतान् विषोपमान् ।
तस्माद् अजीर्णे व्युषितं भोजनं प्रतिषिध्यते ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ त्रयोविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc