भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.21

6.21.1

तेन शीतेन कर्तव्यं बहुशः परिषेचनम् ॥

6.21.2

नित्यं वेगप्रतीघातादजीर्णाध्यशनादपि ।
रक्तं वायुश् च कुपितौ मस्तके प्रतितिष्ठतः ॥

6.21.3

स मस्तकगतो वायुः रक्तं चैकत्र मूर्छितम् ।
उदये ऽ र्कस्य संपातादादित्य् अकरदूषितम् ॥

6.21.4

वेदनां जनयेत् तीव्रां शङ्खयोर् मूर्ध्नि गण्डयोः ।
निघ्नन्निव शिरो ऽ त्यर्थं मुहुर्गृह्णाति पाणिना ॥

6.21.5

निष्यन्दते हि मस्तिष्कमादित्य् ओष्मसमुद्धतम् ।
वर्धते वर्धमाने तु सूर्ये शीर्षरुजा ह्यतः ॥

6.21.6

स मस्तिष्कश्च निर्वाति दिवसस्य परिक्षयात् ।
सूर्यावर्त इति प्राहुर्मुनयो ऽ नेन हेतुना ॥

6.21.7

कल्याणकं पिबेत्सर्पिः सूर्यावर्तनिपीडितः ।
विरेचनं च कार्यं स्यात् तत्ररहा शीर्षविरेचनम् ॥

6.21.8

नस्यकर्म तथा कुर्यात् स्नेहश् चोत्तरभक्तिकः ।
घृततैलवसाभिस् तु धार्याः स्युः शीर्षवस्तयः ॥

6.21.9

मयूरान् कुक्कुटान् लावान् क्षीरेण सह साधयेत् ।
तत्क्षीरमन्थनोद्भूतं नवनीतमथोद्धरेत् ॥

6.21.10

तत्क्षीरे षड्गुणे साध्यं जीवनीयैस्सहौषधैः ।
ततो ऽ स्य नस्यं दातव्यं सूर्यावर्तविनाशनम् ॥

6.21.11

बिल्वमंशुमती रास्ना सहदेवा पुनर्नवा ।
काला गुडूची सुषवी पद्मकं मधुकं बला ॥

6.21.12

एतान्याजेन दुग्धेन सिद्धानि परिषेचनम् ।
एतैर् एव उषधैस्सिद्धं सर्पिराजं विनाशयेत् ॥

6.21.13

जाङ्गलानि च मांसानि कारयेद् उपनाहनम् ।
तेनास्य शाम्यति व्याधिस्सूर्यावर्तस्सुदारुणः ॥

6.21.14

पललं दधि मत्स्यांश् च पिष्टान्नविकृतीः पयः ।
दिवास्वप्नं च भजतस्त्रयः कुप्यन्ति धातवः ॥

6.21.15

मन्यापाश् चात्यघाटासु तीव्रां कुर्वन्ति वेदनाम् ।
ततश्चैवोत्थिता तीक्ष्णा भ्रुवोश् चाक्ष्णोश् च तिष्ठति ॥

6.21.16

स्पन्दयेद् गण्डपार्श्वे च हनू वास्थाय तिष्ठति ।
नेत्रयोर् आमयान् कुर्याच् छङ्खौ चास्य प्रतोदयेत् ॥

6.21.17

अनन्तवात इत्य् एष शीर्षव्याधिः सुदारुणः ।
सन्निपातसमुत्थानस् तस्य वक्ष्यामि भेषजम् ॥

6.21.18

ललाटस्थसिरां विध्येत् स्नेहपानं च कारयेत् ।
कायं विरेचयेद् अस्य शिरश् चापि विरेचयेत् ॥

6.21.19

चिकित्सितं यथाख्यातं सूर्यावर्तशिरोग्रहे ।
अनन्तवाते तत्कार्यं तदा सम्पद्यते सुखम् ॥

6.21.20

सम्भोजनाद्दिवास्वप्नाच्छर्दिक्षवथुनिग्रहात् ।
अभिघातात्प्रतापाच् च वेगसन्धारणाद् अपि ॥

6.21.21

शिरोवहां भृशं गृह्य तस्योभौ कफमारुतौ ।
शीर्षार्धं शङ्खमूलं च दारयन्तौ च तिष्ठतः ॥

6.21.22

श्वयथुर्जायते गण्डे चक्षुश्चैवं विरज्यते ।
अर्धावभेदको नाम शीर्षव्याधिः सुदुस्तरः ॥

6.21.23

विरेचनं च शिरसो नस्यकर्म च कारयेत् ।
लाभतश्च वसा सर्वा घृतं तैलं च युक्तितः ॥

6.21.24

तस्यैव महतीं मात्रां पाययेत् तेन सिध्यति ।
कार्पासबीजं माषांश् च गोधूमान् सर्षपान् यवान् ॥

6.21.25

पञ्चमूल्यौ तथा द्वे च क्षीरेण सह साधयेत् ।
औष्ण्यमुद्वहता तेन नाडीस्वेदेन स्वेदयेत् ॥

6.21.26

उष्णैश् च तैः क्षीरसिद्धैः कुर्यात् तस्योपनाहनम् ।
करञ्जं शिग्रुबीजानि त्वक् पत्रं शर्करा तथा ॥

6.21.27

सर्वेषां शीर्षरोगाणामेतच्छीर्षविरेचनम् ।
शिरसो ऽ न्ते ललाटान्ते शङ्खपर्यन्त एव च ॥

6.21.28

मन्ययोश् चापि पिप्पल्या दहेत्काण्डेन वा पुनः ।
तथैवार्धावभेदस्य तेनैव विधिना भवेत् ॥

6.21.29

वातिके शीर्षरोगे च दहनं श्लैष्मिके ऽ पि च ।
तस्माद् अतिप्रवृद्धेषु शीर्षरोगेषु बुद्धिमान् ॥

6.21.30

आरण्यपिप्पलीभिर् वा दहेत्काण्डेन वा पुनः ।
रूक्षान्नसेविनां नित्यं तथोदावर्तिनाम् अपि ॥

6.21.31

ऊर्ध्वमुत्क्रम्य पवनः शिरःकम्पमुदीरयेत् ।
तं पाययेन्मृदु स्नेहं बलातैलमथापि वा ॥

6.21.32

नस्यकर्म स्नेहपानं नित्यं चैवानुवासनम् ।
समश्नतः सर्वरसानजीर्णाध्यशनादपि ॥

6.21.33

कुर्वन्ति मूर्ध्नि श्वयथुं त्रयो दोषास्समुत्थिताः ।
तस्य पूर्वं शिरां विध्येत् पिबेज्जीर्णघृतं तथा ॥

6.21.34

विशोधनं धूमपानं शिरसश् च विरेचनम् ।
इत्य् एष शीर्षरोगाणां प्रदेशः परिकीर्तितः ॥

6.21.35

अन्तःकण्ठगतान् रोगान् वक्ष्यामि सचिकित्सितान् ।
उच्चैः प्रलापात्संरम्भादतीवाध्यशनादिभिः ॥

6.21.36

रूक्षान्नपानसेवाभिर् भिनत्ति पवनः परम् ।
धूमायते गलस् तस्य तथा धुमधुमायते ॥

6.21.37

दूयते हृदयं चास्य स्वरभेदश्च मारुतात् ।
नस्यकर्माणि पाने च बलातैलं प्रशस्यते ॥

6.21.38

कफवातोत्तरे धार्यास् तथैव कबलग्रहाः ।
पिप्पली पिप्पलीमूलं मरिचानि हरीतकी ॥

6.21.39

शृङ्गबेरं यवक्षारो लोध्रं तेजोवती तथा ।
एतानि समभागानि चूर्णानि मधुना सह ॥

6.21.40

अरोचके श्लेष्मभवे प्रधानं मुखधावनम् ।
पिप्पल्यो मधुकं मूर्वा चन्दनं कमलोत्पलम् ॥

6.21.41

उशीरं पद्मकं लोध्रमेला लामज्जकं तथा ।
एतानि स्मभागानि क्षौद्रेण सह साधयेत् ॥

6.21.42

द्विगुणं शर्करां दत्त्वा पित्तजायामथारुचौ ।
अजाज्यो मरिचं कुष्ठं बिल्वं सौवर्चलं तथा ॥

6.21.43

मधुकं शर्करा तैलं वातिके मुखधावनम् ।
जम्ब्वाम्रपल्लवं लोध्रं त्रिफला चव्यचिक्त्रकौ ॥

6.21.44

पटोलं नक्तमालं च शिरीषः खदिरासनौ ।
दार्वी हरिद्रा मुस्ता च तेजोह्वा मधुकं बला ॥

6.21.45

एतानि समभागानि कषायम् उपसाधयेत् ।
इत्य् एष कबलग्राहः कर्तव्यो मधुसंयुतः ॥

6.21.46

सार्द्रकश् च कपित्थो वा सव्योष्मधुशर्करः ।
अरोचकेषु सर्वेषु प्रशस्तो धारणो मुखे ॥

6.21.47

अजाज्यो मरिचं द्राक्षा तिन्त्रिणीकं सदाडिमम् ।
सौवर्चलं कारवीं च गुडमाक्षिकसंयुतम् ॥

6.21.48

द्राक्षाघौतकय ।.. ।.. मुखबिशोधनः ।
अरोचकानां सर्वेषां प्रशस्तः कबलोत्तमः ॥

6.21.49

सम्भवन्ति त्रयो दोषाः गले नासौदनेरिणीम् ।
गलशुण्डीं वर्धयन्ति घोरां गलविसारिणीम् ॥

6.21.50

सिराव्यधः स्नेहपानं तीक्ष्णं शीर्षविरेचनम् ।
शस्त्रावचारो धूमश् च नाशयेद् गलशुण्डिकाम् ॥

6.21.51

वातिकः कर्णशूलश् च कर्णवातश् च वातिकः ।
बाधिर्यं च समाख्यातम् वातश्लेष्मसमुद्भवम् ॥

6.21.52

स्नेहपानानि नस्यं च नाडीस्वेदोपनाहनम् ।
आनूपाश् च वसा मज्जाः प्रशस्ताः कर्णपूरणे ॥

6.21.53

पिप्पल्यौ बिल्वमूलं च कुष्ठं मधुकम् एव च ।
लोध्रव्याघ्रनखं मांसी सूक्ष्मैला देवदारु च ॥

6.21.54

गर्भेणानेन तैलस्य प्रस्थं मृद्वग्निना पचेत् ।
मूलकस्यार्द्रकस्यापि रसौ स्नेहसमौ तथा ॥

6.21.55

तेन कर्णे पिचुं दद्यान्नस्यकर्म च कारयेत् ।
तेनोपशाम्यति क्षिप्रं कर्णशूलस्सुदारुणः ॥

6.21.56

शैरीषं शतपाकं च बलातैलं च मिश्रकम् ।
आशु कर्णगतं शूलं बाधिर्यं चापकर्षति ॥

6.21.57

छागसर्पमयूराणां नक्रशल्यकयोर् अपि ।
तुलां मांसस्य विपचेत् क्षीरद्रोणेषु सप्तसु ॥

6.21.58

पादभागावशिष्टन्तु शीतं पूतं विमन्थयेत् ।
तत्र यन्नवनीतं स्यात् तदेभिर् विपचेत्समैः ॥

6.21.59

क्षवः ।.. फणिज्जको ॥। सैन्धवं बला ।
वचा व्याघ्रनखो मांसी देवदार्वगरू तथा ॥

6.21.60

जीवकर्षभकौ मेदा शृङ्गी कर्कटकस्य च ।
आत्मगुप्ताफलं द्राक्षा त्वक्पत्रमथ वालुकम् ॥

6.21.61

तत् सर्वं स्रावयित्वा तु स्वनुगुप्तं निधापयेत् ।
पिचुमभ्यञ्जनं पानं वस्तिकर्म च कारयेत् ॥

6.21.62

एतेन शीर्षरोगाश् च कर्णशूलानि यानि च ।
कर्णस्रावाश् च शाम्यन्ति रोगा जत्रुगताश् च ये ॥

6.21.63

एतद्वातोत्तरे प्रोक्तं कर्णशूले चिकित्सितम् ।
अत ऊर्ध्वं प्रवक्ष्यामि रक्तजं क्रिमिजं च यत् ॥

6.21.64

यदा दुष्टं पित्तरक्तं कर्णमेव प्रधावति ।
श्वयथुश् च हि रागश् च कर्णशूलश् च जायते ॥

6.21.65

विध्येत्सिरां ललाटस्य दद्याच्चास्य विरेचनम् ।
।.. म्ले शिरपानं च तथा शीर्षविरेचनम् ॥

6.21.66

अक्रियाभिः क्रियाभिश् च कर्णे पाकं नियच्छति ।
तस्योपनाहं कुर्वीत व्रणतैलं च रोपणम् ॥

6.21.67

तथा कर्णशलाकाभिः कर्णस्रावं विशोधयेत् ।
त्रयूषणं सैन्धवं कुष्ठं मञ्जिष्ठा मधुकं तथा ॥

6.21.68

रास्ना हरिद्रा तेजोह्वा वराङ्गं तिल्वकत्वचः ।
लाक्षा मूर्वा रुबूर्काककेसरासनवीरणाः ॥

6.21.69

सूक्ष्मैला तगरं पत्रं त्वग्व्याघ्रनखम् एव च ।
आरमालतिला माषा भूर्जग्रन्थिर्निदिग्धिका ॥

6.21.70

एतैस्तुल्यकृतैर्भागैस् तैलप्रस्थं विपाचयेत् ।
भोगिनश् च वसां दद्यान्मांसं बभ्रोः खरस्य च ॥

6.21.71

एतेन पूरयेत्कर्णं मुहूर्ताच्चावनामयेत् ।
कर्णस्रावं कर्णशूलं बाधिर्यं कर्णवेदनाम् ॥

6.21.72

सर्वांश् चैव शिरोरोगान् तैलमेतन्नियच्छति ।
कर्णस्रोतस्सु रुद्धेषु तालुके मस्तके तथा ॥

6.21.73

वेदना जायते तीव्रा विदाहस्तोदविभ्रमौ ।
एतनि कर्णशूलस्य कृमिजस्य मनीषिणः ॥

6.21.74

रूपाण्याहुः समस्तानि स चासाध्य इहोच्यते ।
पतङ्गः शतपद्यश् च तथा कीटपिपीलिकाः ॥

6.21.75

प्रविश्य कर्णस्रोतो वै भृशं कुर्वन्ति वेदनाम् ।
कर्णौ निस्तुद्यतस् तस्य तथा घुरघुरायणम् ॥

6.21.76

कीटे चरति रुक् तीव्रा निष्पन्देन भवेद् अरुक् ।
मधुशुक्तेन पयसा सुरया वाआसवेन वा ॥

6.21.77

उष्णेन पूरयेत्कर्णं मुहूर्ताच्चावनामयेत् ।
स्रुते कीटे तु यद्यस्य कर्णस्रावः प्रवर्तते ॥ यथोक्तं तस्य कुर्वीत कर्णस्रावचिकित्सितम् ।
।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ द्वाविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc