भेलसंहिता · अध्याय 6.20
पञ्च कासाः समुद्दिष्टा वातपित्तकफात्मकाः ।
क्षतजः क्षयजश्चेति तेषां वक्ष्यामि लक्षणम् ॥
उदावर्तादभीघाताद् व्यायामाच् चापि कर्शनात् ।
संभोजनाद्दिवास्वप्नाद् द्रुतपानात्प्रलम्बनात् ॥
कर्शितानां च रोगेभ्यो दोषासात्म्यकृतात्क्षयात् ।
तीक्षोष्णगुरुसेवाभिर् नृणां कासा भवन्ति ते ॥
तेषां रूपाणि वक्ष्यामि चिकित्सां च पृथग्विधाम् ।
मारुतात्कासते शुष्कं शूकपूर्णगलो यथा ॥
निष्ठीवति च शुष्कं च तत्र मुक्ते न कासते ।
प्रताम्येत्कासमानस्य हृदयं चावकृष्यते ॥
पार्श्वे च रुजतो ऽ त्यर्थं श्वासेन च विकूजति ।
शङ्खयोर् जायते शूलं तालुशोषस् तथैव च ॥
श्यावे नेत्रे च वीक्ष्येते स्वरो वर्णश् च भिद्यते ।
विशेषाद्रिक्तकोष्ठश् च कासते वातपीडितः ॥
अम्लरूक्षान्नपानादिव्यायामोष्णनिषेवणात् ।
कटुकक्षाररूक्षान्नतीक्ष्णमद्यनिषेवणात् ॥
सदाहः सज्वरश् चैव पित्तकासः प्रवर्तते ।
हारिद्रं कटुकोष्णं च पीतं ष्ठीवति चाति सः ॥
मुखस्य कटुकत्वं च तृष्णा चास्योपजायते ।
हारिद्रे चक्षुषी चास्य लक्ष्येते पित्तकासिनः ॥
अभिष्यन्दिगुरुस्निग्धशीतमेद्यान्नसेविनः ।
दिवास्वप्नप्रसक्तस्य वेगांश् चापि निरुन्धतः ॥
कफप्रसेको बहलः कासस्तस्योपजायते ।
गुरुत्वं शिरसो ऽ त्यर्थं माधुर्यं वदनस्य च ॥
कफात् स्त्यानं च हृदयं भक्तस्यानभिनन्दनम् ।
स्तम्भश्चैवाविपाकश् च कफकासस्य लक्षणम् ॥
व्यायामाद्भारहरणान्निग्रहादश्वदन्तिनाम् ।
निहन्यते यस्य वक्षः क्षतकासः स उच्यते ॥
सरक्तं पूतिपूयाभं ग्रथितं दोषसञ्चयम् ।
निष्ठीवति स कासार्तो ज्वर्यते चातिसर्यते ॥
उरो निर्भिद्यमानं च मन्यते प्रश्वसित्य् अपि ।
स ताम्येत्कासमानश् च तृष्णा शोषो मुखस्य च ॥
मुहुराशूयते कण्ठः स्वरभेदश् च जायते ।
सघोषं कासते चापि विकृतं भिन्नविस्वरम् ॥
दुर्गन्धं च तथोद्गारं क्षतकासे विमुञ्चति ।
सर्वेषां सन्निपाताच् च क्षयकासः प्रवर्तते ॥
तस्य ज्वरः पार्श्वरुजा हस्तपादं च दह्यते ।
कासमानश् च निष्ठीवेत् कफपूर्वं स शोणितम् ॥
क्षीयेते बलवर्णौ च गात्रं च परिहीयते ।
न चास्य स्वदते भोज्यं न भुक्तं च विपच्यते ॥
अतिसारो ज्वरश्छर्दिर्मूर्च्छा चास्योपजायते ।
क्षयकासस्समाख्यातः स चासाध्यः प्रकीर्तितः ॥
क्षतकासस् तु याप्यः स्यात् साध्यानां साधनं शृणु ।
बलवन्तं स्नेहितं च शोधनैस्समुपाचरेत् ॥
शोधितं भोजयेच्चैनं पुराणान् शालिषष्टिकान् ।
जाङ्गलानां च मांसानि निषेवेन्मृगपक्षिणाम् ॥
औदकानूपमांसानि गुरूणि च विवर्जयेत् ।
दशकल्कोपसिद्धं वा कल्यणकमथापि वा ॥
रसयनं च सेवेत सर्पिः सर्पिर्गुडानि च ।
सर्पिर्मोदकयोगं वा रसायनविधिं तथा ॥
यदुक्तं शोणिते पूर्वं तत्कासेष्व् अपि योजयेत् ।
पिप्पल्यामलकं द्राक्षा तुगाक्षीर्यथ शर्करा ॥
लाजा घृतं माक्षिकं च लेहः कासविनाशनः ।
पिप्पल्यामलकं रास्ना लेहो माक्षिकसंयुतः ॥
हरीतक्यास्सपिप्पल्याश्चूर्णं माक्षिकसंयुतम् ।
प्रलेहः स्यान्मधुघृतं सक्षौद्रं शर्करान्वितम् ॥
त्र्यूषणं त्रिफलां चैव पद्मकं देवदारु च ।
रास्नां बलां विडङ्गानि सूक्ष्मचूर्णानि कारयेत् ॥
चूर्णं शर्करया युक्तं लेहयेन्मधुसर्पिषा ।
एष लेहः प्रणुदति पञ्च कासान् समुत्थितान् ॥
यवक्षारं विडङ्गानि हिङ्गु भार्ङ्गी महौषधम् ।
सैन्धवं पिप्पली रास्ना तुल्यान्य् एतानि चूर्णयेत् ॥
घृतमात्रायुतं चूर्णं पिबेत्कासविनाशनम् ।
मन्दाग्नितां तमश्वासं हिक्कां चैवापकर्षति ॥
समूलफलशाखां तु कुट्टयेत्कण्टकारिकाम् ।
तां पचेत्सलिलद्रोणे चतुर्भागावशेषितम् ॥
कषायं तं परिस्राव्य पुनरग्नावधिश्रयेत् ।
घृतं च युक्त्या दातव्यं कल्कांश्चेमान्प्रदापयेत् ॥
दुरालभा छिन्नरुहा त्र्यूषणं चित्रकं तथा ।
रास्ना कर्कटकाख्या च पिप्पलीमूलम् एव च ॥
एतान्यर्धपलीनानि तथा फाणितशर्करा ।
पलानि विंशतिं दत्वा तं लेहं सान्द्रमुद्धरेत् ॥
शीते दद्यात् पिप्पलीनां चूर्णस्य कुडवं मितम् ।
तुगाक्षीर्याश् च कुडवं मधुनः कुडवं तथा ॥
तं लिह्यान्मात्रया लेहं पञ्चकासविनाशनम् ।
हृद्रोगानथ हिक्कां च श्वासं चैवापकर्षति ॥
सिद्धं मन्त्रं यथा सर्पो नातिक्रामेदुदीरितम् ।
तथा लेहमिमं कासो नातिक्रामति देहिनाम् ॥
दशमूलीमपानार्गं शङ्खपुष्पीं शठीं वचाम् ।
चित्रकं चात्मगुप्तां च पिप्पलीमूलम् एव च ॥
बलां पुष्करमूलं च तथैव गजपिप्पलीम् ।
द्विपलीनान् पृथग् दद्यात् प्रत्यग्रं चाभयाशतम् ॥
यवाढकं सहैभिश् च जलं पञ्चाढकं पचेत् ।
अवतार्य यवैस्सिद्धैर् उद्धरेत् तु हरीतकीः ॥
भेदनं तासु कर्तव्यं ततो वंशशलाकया ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ एकविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. एतदालेपनं कार्यं शङ्खकस्य विनाशनम् ।
एतान्येव तु सर्वाणि कषायम् उपधारयेत् ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0