भेलसंहिता · अध्याय 6.19
सर्वाण्य् एतानि लिङ्गानि दृश्यन्ते मर्मरोगिणः ।
सन्निपातसमुत्थो ऽ सौ नैव सिध्यति कर्मणा ॥
निर्भिद्यते देवनार्तं दह्यते मर्म दूयते ।
भक्तद्वेषो ज्वरो मूर्च्छा श्वासश् च परितप्यते ॥
भिन्नवर्णो ऽ थ दीनश् च हृदि कण्डूश् च जायते ।
हृद्रोगः क्रिमिजः प्रोक्तः पञ्चमस्स तु दुर्जयः ॥
साध्यास्त्रयस् तु हृद्रोगा वातपित्तकफात्मकाः ।
द्वौ चासाध्यौ स्मृतौ तत्र साध्यानां शृणु भेषजम् ॥
हृद्रोगिणं स्नेहयित्वा शमयेच्छोधयेत् तथा ।
लङ्घयेद् अचिरोत्त्यं तं हृद्रोगं वातिकाद्विना ॥
हरीतकी वचा रास्ना पिप्पल्यौ विश्वभेषजम् ।
शठी पुष्करमूलं च चूर्णं हृद्रोगनाशनम् ॥
पाठावचायवक्षारा अभया चाम्लवेतसम् ।
दुरालभा चित्रकं च त्र्यूषणं लवणत्रयम् ॥
शठी पुष्करमूलं च तिन्त्रिणीकं सदाडिमम् ।
मातुलुङ्ग्याश् च बीजानि सूक्ष्मचूर्णानि कारयेत् ॥
सुखोदकेन मद्यैर् वा चूर्णान्य् एतानि पाययेत् ।
अर्शः शूलं सहृद्रोगं गुल्मं चापि व्यपोहति ॥
सौवर्चलं शृङ्गबेरं दाडिमं साम्लवेतसम् ।
श्वासहृद्रोगशमनम् इदं स्याद्धिङ्गुपञ्चमम् ॥
पञ्चाशदभयाकल्कं पले सौवर्चलस्य च ।
चतुर्गुणजले मुख्यं घृतप्रस्थं विपाचयेत् ॥
एतद्वल्लभकं नाम प्राणिनां सर्पिरुत्तमम् ।
अमृतप्रतिमं सृष्टं श्वासहृद्रोगनाशनम् ॥
पिबेत्कल्याणकं सर्पिर्धान्वन्तरमथापि वा ।
मातुलुङ्गस्य च रसं पिबेत्क्षारागदानपि ॥
शतपाकं बलातैलं शैरीषं सुकुमारकम् ।
तैलान्य् एतानि सेवेत सदा हृद्गदपीडितः ॥
पिबेद्रसायनं सर्पिः क्षीराणि च गुडानपि ।
पित्तहृद्रोगशमना ये चोक्ता घृतमोदकाः ॥
जीवकर्षभकौ द्राक्षा शर्करा श्रेयसी बला ।
द्वे मेदे द्वे च काकोल्यौ खर्जूर्यसितमुत्पलम् ॥
घृतप्रस्थं पचेदेभिः तुल्यांशैर्माहिषं भिषक् ।
चतुर्गुणेन पयसा पातव्यं युक्तितश् च तत् ॥
वातपित्तसमुत्थाने हृद्रोगे नाशनं परम् ।
वसा लाभेन मज्जा च तुल्यं तैलघृतं तथा ॥
अमूनि लाभतो दद्यादथ चापि चतुर्गुणम् ।
वचा त्रिकटुकं रास्ना जीवन्ती जीवको बला ॥
निदिग्धिका चांशुमती नीली भार्ङ्गीं पुनर्नवा ।
सिद्धमेभिर् महास्नेहं बलमालोक्य पाययेत् ॥
हृद्रोगं वातिकं स्नेहः सद्य एव चिकित्सति ।
विचारयेत्स्वयं बुद्ध्या वैद्यो हृद्रोगभेषजम् ॥
मधुरं पित्तहृद्रोगे स्निग्धमुष्णं च वातिके ।
त्रयस् तु परिशेषा ये तीक्ष्णोष्णैस्तानुपाचरेत् ॥
क्षारैः क्षारागदैश् चैव वमनैस्सविरेचनैः ।
चिकित्सितं विस्तरेण यदुक्तं कृमिकोष्ठिनाम् ॥
तदेव क्रिमिहृद्रोगे कर्तव्यमनसूयया ।
औदकानूपमांसानि दधि दुग्धं गुडो रसः ॥
अभिष्यन्दकरं सर्वं वातहृद्रोगनाशनम् ।
एतान्येव तु शेषेषु हृद्रोगेषु विवर्जयेत् ।
लघूनि चान्नपानानि शस्यन्ते तेषु सर्वदा ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले एकोनविंशो ऽ ध्यायः ॥ ॥ विंशो ऽ ध्यायः ॥ अथातः कासचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0