भेलसंहिता · अध्याय 6.1
अकल्पयन् न यज्ञाङ्गं पुरा दक्षस्त्रिशूलिने ।
तस्मात् प्रणाशयामास यज्ञं दक्षस्य शङ्करः ॥
तं च नाशयता यज्ञं देव्याः प्रियचिकीर्षया ।
क्रोधेनोष्णं विनिश्वस्य तान् लोकान् व्यापितो ज्वरः ॥
स एष सन्तापयति जगत्स्थावरजङ्गमम् ।
निधने चापि भूतानां नान्यो हेतुर्विना ज्वरात् ॥
यावन्तो ऽ न्ये समाख्याता व्याधयस् तु शरीरिणाम् ।
संवत्सरेण ते घ्नन्ति सद्यः प्राणहरो ज्वरः ॥
रोगानीकस्य सर्वस्य ज्वरो राजा प्रकीर्तितः ।
ज्वरयत्येष भूतानि तस्माज्ज्वर इति स्मृतिः ॥
शारीरमानसानां च रोगाणां प्रवरो ज्वरः ।
तस्मात् प्रथमतस् तस्य प्रवक्ष्यामि चिकित्सितम् ॥
उक्तरूपसमुत्थाना ज्वराश् चाष्टौ प्रकीर्तिताः ।
शीतश्चोष्णश् च नियतः समासात् द्विविधो ज्वरः ॥
शीतस्योष्णां क्रियां कुर्याद् वातश्लेष्मात्मकस्य तु ।
उष्णस्यैकान्तपित्तस्य शीतां कुर्यात् क्रियां भिषक् ॥
वायुर् आमाशयात् पूर्वमूष्माणं समुदीरयेत् ।
त्वग्गतो रोम चापन्नः संहर्षयति मानवम् ॥
स तु पित्तानुबन्धेन तेजसा परिपाचितः ।
प्राप्नोति विलयं श्लेष्मा सम्बन्धेनेव तोयदः ॥
शान्ते शीते पुनर्दाहं पित्तात्प्राप्नोति मानवः ।
उत्पित्तमिन्धनीभूतं वपुर्दहति पावकः ॥
गतवेगेनिलः पश्चादूष्मणा परिपाचितः ।
स्वम् एव भजते स्थानमानुलोम्यं च गच्छति ॥
एवं ज्वरमवाप्नोति ह्येवम् एव च मुच्यते ।
एतद् बुद्धिमतां प्रोक्तं समासेन चिकित्सितम् ॥
दुर्लभा बुद्धिमन्तस् तु तस्माद् वक्ष्यामि विस्तरम् ।
एकादशप्रकारं हि ज्वरितानां चिकित्सितम् ॥
सर्पिश् चैकादशं विद्यात् तन् मे विस्तरतः शृणु ।
सिद्धास् स्वेदाः कषायाश् च लेहः पाचनकानि च ॥
चूर्णः प्रदेहास्सेकाश् च वटिका मोदकाः पयः ।
सर्पिश् चैकादशं प्रोक्तं सिद्धमाममथापि च ॥
एषां प्रयोगं वक्ष्यामि वीर्याणि च पृथक् पृथक् ।
श्लेष्माणमनिलं चैव जित्वा पित्तन्तु देहिनाम् ॥
करोति यस्मादूष्माणं तस्माज्ज्वरित उच्यते ।
वायुः पित्तेन संसृष्टः श्लेष्मा वा पित्तमूर्च्छितः ॥
ऊष्माणं कुरुते यस्मात्ततः पित्तमुपाचरेत् ।
तृष्यते चोष्णसलिलं देयं दोषविपाचनम् ॥
ज्वरघ्नं दीपनीयं च कफपित्तानिलापहम् ।
स्रोतसां शोधनं चैव रुचिस्वेदकरं नृणाम् ॥
दीप्यमाने हि कायाग्नौ श्लेष्मा वायुश् च शाम्यतः ।
तयोश् चाप्य् अनुलोमत्वात् पित्तम् अप्युपशाम्यति ॥
तस्माद् उष्णोदकं पेयं श्रेष्ठमाहुर्नवज्वरे ॥
शीतं हि सलिलं पीतं कोपयेत्कफमारुतौ ।
कुर्याद् भूयो ऽ ग्निमृदुतां स्तैमित्य् अमरुचिं तथा ॥
कामं तु तिक्तकैस्सिद्धं हितं क्वथितशीतलम् ।
तेषां सामिशृतं पानं ये चाप्य् एकान्तशीतलाः ॥
भोजनार्थं हि षड्रात्रं पेया देया बुभुक्षिते ।
क्षुत्पिपासापहा पथ्या शकृन्मूत्रानिलापहा ॥
औष्ण्याद्वातकफौ हन्यात् ल्लघुत्वात् परम् एव च ।
हृद्व्यथां विधियुक्ता तु सा हन्यात् स्वेदमावहेत् ॥
तस्माज्ज्वरेषु सर्वेषु ज्वरमुक्ते च मानवे ।
पाययेद् विधिवत्पेयाः यथास्वौषधसाधिताः ॥
शीतज्ज्वरहरं कृत्स्नमुक्तमेवं चिकित्सितम् ।
अत ऊर्ध्वं प्रवक्ष्यामि भोज्याभोज्यं सविस्तरम् ॥
शालयः षष्टिकाश् चैव नीवारास्सप्रमोदकाः ।
यवान्नविकृतिश् चापि भोजनेषु हितास्सदा ॥
कपिञ्जलास्सहरिणा वर्तकाः कालपुच्छकाः ।
एणा वर्तीरकाश् चैव जाङ्गला ज्वरिते हिताः ॥
मुद्गाढकीमसूराणां सतीनानां तथैव च ।
सिद्धास्सूपाः प्रशस्यन्ते यूषाश् च ज्वरनाशनाः ॥
उष्णान् व्रीहीन् सयवकान् सक्तुकांश्चित्रकानपि ।
माषांस्तिलांश्चोष्णवीर्यान् ज्वरितः परिवर्जयेत् ॥
ग्राम्यानूपौदकं मांसं तथोभे गव्यमाहिषे ।
छागसो रणवाराहं दधि शुक्तं च वर्जयेत् ॥
पिष्टान्नानि च सर्वाणि शाकानि विविधानि च ।
विदाहीन्युष्णवीर्याणि ज्वरितः परिवर्जयेत् ॥
बर्हिणस्तित्तिरिक्रौञ्चान् कपोतानथ कुक्कुटान् ।
पञ्चैतान्विष्किरानुष्णान् ज्वरितः परिवर्जयेत् ॥
वमने च विरेके च स्नेहने लङ्घने तथा ।
प्रोक्ता मे ज्वरिणः कालाः सूत्रस्थाने सविस्तराः ॥
अमात्याश् चालयश् चापि सुहृदश् चानुशासिनः ।
छन्दज्ञा मतिसम्पन्नाः शास्त्रज्ञानेषु कोविदाः ॥
ते वदेयुः कथाश्चित्रा धर्मकामार्थसंहिताः ।
आतुरस्य विनोदार्थं तन्द्राशोकविनाशनाः ॥
दारुणाश् चामनोज्ञाश् च न च प्रीतिविवर्धनाः ।
पित्तव्याधिपरीतानां कथाश् च परिवर्जयेत् ॥
उत्साहमेव जनयेद् आतुरस्य चिकित्सकः ।
उदग्रस्य हि भैषज्यममृतत्वाय कल्पते ॥
चन्द्राननाः पीनकुचाः सुगन्धाः शुक्लवाससः ।
रुजाक्लमविनाशार्थमुपासीत च योषितः ॥
अत्याशनमतिस्थानमतिचङ्क्रमणानि च ।
ज्वरितो वर्जयेन्नित्यं प्राणान् रक्षेच् च सर्वशः ॥
क्रोधं स्त्रियं चङ्क्रमणं दिवास्वप्नातिभाषणम् ।
गुरूण्यध्वा विरुद्धानि व्यायामो वेगधारणम् ॥
प्रदुष्टो मारुतः पानं निशि जागरणं च यत् ।
कारणान्युपशान्तस्य ज्वरस्य प्रभवे पुनः ॥
न चैनं स्नापयेज्जातु सहसा ज्वरकर्शितम् ।
संदूषितां ह्य् अस्य तनुं पुनरावर्तते ज्वरः ॥
महेश्वरक्रोधभवो ज्वरः प्रोक्तो महर्षिभिः ।
तस्माज्ज्वरविमोक्षार्थं पूजयेत् ऋषभध्वजम् ॥
स्नानानि शान्तयो होमव्रतानि नियमो यमः ।
शस्यन्ते चेष्टयः काम्या वेदोक्ता ज्वरनाशनाः ॥
रोगाधिपतिरुग्रौजाः व्याधीनां प्रसवो ज्वरः ।
सर्वभूतान्तको घोरो हुताशात्मा ज्वरः स्मृतः ॥
प्रसङ्गी दुश्चिकित्स्यः स्याद्भिषग्भिः पापसम्भवः ।
तस्माद् वेदोदितैर्मन्त्रैर्होमैश् च विनिवर्तयेत् ॥
भूतविद्यासमुत्पन्नं चण्डकर्म ज्वरापहम् ।
तत्कार्यं भूतवैद्येन तथा नाविशति ज्वरः ॥
रुद्रभक्तेन शुचिना वैद्येनाथ तपस्विना ।
प्रयतेन प्रयोक्तव्यं चिरज्वरचिकित्सितम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चिकित्सिते प्रथमो ऽ ध्यायः ॥ ॥ द्वितीयो ऽ ध्यायः ॥ अथातो विषमज्वरचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0