भेलसंहिता · अध्याय 6.18
प्रकृत्या वातलो यस् तु रूक्षाण्यन्नानि सेवते ।
कषायं कटुकान्नित्यं रसांस्तिक्तांश् च सेवते ॥
कर्कन्धूनि कपित्थानि करीरलिकुचानि च ।
पारावतानि भव्यानि यच्चान्यत्फलमीदृशम् ॥
शुक्तकानि च वल्लूरं पिण्याकं कोद्रवौदनम् ।
अभिष्यन्दीनि कटुकं वेत्रशाकं च सेवते ॥
वातमूत्र्पुरीषाणां विधृत्या मैथुनस्य च ।
एतैरन्यैश् च गुरुभिर् हेतुभिः कुपितो ऽ निलः ॥
निगृह्णाति गुदद्वारं शरीरं व्याप्य सर्वशः ।
स शोषयति तत्रस्थः शरीरं शोषयन् भृशम् ॥
अधोवहानि स्रोतांसि पित्तश्लेष्मवहान्य् अपि ।
मूत्रान्नमलवाहीनि बध्नाति पवनो भृशम् ॥
वातसन्दूषितास्ते तु धावन्तो ह्यूर्ध्वमास्थिताः ।
आमपक्वाशयस्थान उन्माद्यन्ति सुदारुणम् ॥
ऊर्ध्वं ह्यपानस्सम्प्राप्य चोदानेन समागतः ।
उदार्वत इति प्रोक्तः शस्त्रसर्पविषोपः ॥
अथ शूलानि तीव्राणि दाहो मूर्च्छा विवर्णता ।
शूयते वस्तिमूलं च मूत्रवर्वोग्रहस् तथा ॥
वतावथ च कुक्षौ च हृदि पार्श्वोदरे तथा ।
देवनाभिपरीतश् च निस्संज्ञो वेतते ऽ सकृत् ॥
निश्वसित्य् अथ ताम्यंश् च तृष्यत्य् अपि च हिक्कते ।
उपद्रवा उदावर्ते शृणु तेषां चिकित्सितम् ॥
सुस्निग्धमेनमभ्यज्य तैलेन लवणेन च ।
संकरे प्रस्तरे स्वेदे द्रोण्यां वा स्वेदयेत् ततः ॥
ततो ऽ स्य गुदमभ्यज्य निरूहं सम्प्रदापयेत् ।
एकं द्वौ वा भिषक् कृत्वा यावद्वा साधु मन्यते ॥
सुरिरूढं च तं ज्ञात्वा सुखाम्बुपरिषेचितम् ।
उष्णोदकानुपानं च भोज्येन्मृदुमोदनम् ॥
स्नुहायाः पत्रशाकेन त्रिवृच्छाकेन वा पुनः ।
ताभ्यां यूषेण भुञ्जीत यच्चान्यद्भेदनं परम् ॥
नित्यं भिन्नपुरीषैस् तं भोजनीयैर् उपाचरेत् ।
एवं तस्य पुरीषं हि वायुर्भूयो न शोषयेत् ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।
।एकोनविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0