भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.17

6.17.1

यः क्षीणमांसो मन्दाग्निः व्याधियुक्तस् सुदुर्बलः ।
गुरूणि सेवते ऽ त्यर्थम् अम्लपित्तकराणि च ॥

6.17.2

सद्यो वान्तो विरिक्तो वा गुरूण्यन्नानि सेवते ।
उपोषितश् च यो ऽ त्यर्थं शाकमूलफलाशनः ॥

6.17.3

मत्स्यान् दधि पयो भुङ्क्ते दिवास्वप्नरतिश् च यः ।
अपथ्याजीर्णभोजी च नरो व्यायामसेवितः ॥

6.17.4

यश् च तिक्तकषायाणि क्षाराम्लकटुकानि च ।
लघूनि सेवते ऽ त्यर्थं रूक्षाणि तु विशेषतः ॥

6.17.5

तस्य वातः प्रकुपितः शिरा बाह्याः प्रपद्यते ।
स पित्तं कोपयत्याशु रक्तं श्लेष्माणम् एव च ॥

6.17.6

सिरास् ता दोषसम्पूर्णाः संविसर्पन्ति दारुणाः ।
समुपेत्यैकदेशे वा सर्वगात्रेषु वा पुनः ॥

6.17.7

एवं तच्छ्वयथुर्नाम व्याधिर् भवति दारुणः ।
दोषैः पक्वाशयस्थैस् तैः सो अधस्ताच् छ्वयथुर् भवेत् ॥

6.17.8

पादप्रवृत्तः श्वयथुर् नराणां नाशयत्य् असून् ।
योषितां मुखसम्भूत उभयोर् अपि गुह्यजः ॥

6.17.9

भूयिष्ठमिह शोफस् तु दोषसङ्घातसंभवः ।
यस् तेषां त्वधिको हि स्यात् स स्वरूपं हि दर्शयेत् ॥

6.17.10

श्वयथुर्वातिको रूक्षः कृष्णवर्णस्सवेदनः ।
करोति पीडितो निम्नमनिमित्तं च नश्यति ॥

6.17.11

पैत्तिकश्वयथुर्नीलो लोहितः पीत एव वा ।
रुजादाहपरीतश् च क्षिप्रपाको ज्वरान्वितः ।

6.17.12

शुक्लावभासो बहलः श्वेतपीतः स्थिरस् तथा ।
आलम्बश् चाप्य् अनाशश् च भृशं शोफः कफात्मकः ॥

6.17.13

वातपित्तकफानान्तु रूपं स्यात् सान्निपातिके ।
असाध्यश्चोपसर्गश् च श्वयथुः प्रसृतश् च यः ॥

6.17.14

नीलपीतारुणं ज्योतिर्दृश्यते श्वयथौ यदि ।
किञ्चित्क्षरत्यस्लिलं तमसाध्यं विनिर्दिशेत् ॥

6.17.15

शस्त्रदण्डप्रहाराभ्यां प्रापातादस्थिभङ्गतः ।
श्वयथुः पञ्चमो दृष्टो भूयिष्ठं स तु रक्तजः ॥

6.17.16

अभिघाताच् च जातानां मांसमस्थि च पीडितम् ।
सिराः सन्दूषयत्याशु ततो रक्तं प्रदुष्यति ॥

6.17.17

स दाहरागाहुलो वर्धते तीव्रवेदनः ।
क्षतवैसर्पिकीं तस्य क्रियां कुर्याच् चिकित्सकः ॥

6.17.18

एतल्लक्षणमुद्दिष्टं श्वयथूनां यथाविधि ।
चिकित्सितं प्रवक्ष्यामि यथावदनुपूर्वशः ॥

6.17.19

कल्याणकं पिबेत्सर्पिर्महातिक्तमथापि वा ।
महद्यत्पञ्चगव्यं वा ततस्संशोधयेन्नरम् ॥

6.17.20

हरीतकीं समधुकां सक्षौद्रं वापि लेहयेत् ।
माक्षिकेण च कृष्णां च लिह्यात् क्षीरेण वा पिबेत् ॥

6.17.21

हरीतकी शृङ्गबेरं देवदारु च तत्समम् ।
एतत्सुखाम्बुना पीतं श्वयथूनां निवारणम् ॥

6.17.22

अयोर् अजस्त्रिकटुकं त्रिवृता तिक्तरोहिणी ।
त्रिफलारसपीतं तच्छ्वयथूनां निवारणम् ॥

6.17.23

महौषधं देवदारु सुधा वर्षाभुरेव च ।
एतैः क्षीरं समैः सिद्धं श्रेष्ठं श्वयथुनाशनम् ॥

6.17.24

गोमूत्रस्य प्रयोगो वा श्रेष्ठः श्वयथुनाशनः ।
सक्षीरं वा पिबेन्मूत्रं माहिषं मूत्रम् एव वा ॥

6.17.25

औष्ट्रं मूत्रं पिबेच्चैव तदुष्ट्रीक्षीरम् एव वा ।
यथाबलं यथादोषं श्रेष्ठं श्वयथुनाशनम् ॥

6.17.26

मूलकानि च सिद्धानि सानिले भक्षयेन् नरः ।
रसेन मूलकानां तु कुर्वीत परिषेचनम् ॥

6.17.27

नक्तमालार्कमूलानां वृषस्यारग्वधस्य च ।
कषायं परिषिक्तं तु श्वयथूनां निवारणम् ॥

6.17.28

सुवर्चला व्याघ्रनखं कुष्ठं कटुकरोहिणी ।
काकमाचि ऋषभको रास्ना मूर्वा पुनर्नवा ॥

6.17.29

वार्ताकी निचुलं मूलं त्रिफला चित्रको वचा ।
कुठेरको हरिद्रे द्वे श्यामा मूषकपर्णिका ॥

6.17.30

विडङ्गं शिग्रुवल्कं च नक्तमालं महौषधम् ।
गोमूत्रपिष्टं श्वयथौ मुख्यमुद्वर्तनं भवेत् ॥

6.17.31

दन्ती विडङ्गं त्रिफला त्रयूषणं कटुरोहिणी ।
चित्रकं देवकाष्ठं च त्रिवृता हस्तिपिप्पली ॥

6.17.32

चूर्णन्य् एतानि तुल्यानि द्विगुणं स्यादयोर् अजः ।
क्षीरेणालोड्य पीतानि श्रेष्ठं श्वयथुनाशनम् ॥

6.17.33

त्रिफलायास् तु कुडवं पिप्पलीकुडवं तथा ।
विडङ्गमरिचानान्तु द्वे द्वे पले स्मृते ॥

6.17.34

पलं पलं च कुर्वीत दन्तीचित्रकयोर् अपि ।
पलं च पिप्पलीमूलं तुष्टेभ्यश् च पलं तथा ॥

6.17.35

शृङ्गबेरपले द्वे च गव्यात् पञ्च पलानि च ।
शेषाण्यर्धपलीनानि यानि तानि निबोध मे ॥

6.17.36

रास्ना बला गोक्षुरकं मधुकं देवदारु च ।
वचा सातिविषा पाठा मुस्ता कटुकरोहिणी ॥

6.17.37

कट्फलं सारिबे द्वे च श्यामा भल्लातकानि च ।
पुनर्नवा सतेजोह्वा त्वक् च पत्रं शतावरी ॥

6.17.38

निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कुशशम्भली ।
त्रिफला त्रिवृता भार्ङ्गी कुटजस्य फलत्वचः ॥

6.17.39

एतदाहृत्य सम्भारं द्विस्तावत्स्यादयोर् अजः ।
तदैकथ्यं कृतं युक्त्या लेहयेन्मधुसर्पिषा ॥

6.17.40

क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेविता ।
अयोर् अजीयम् इत्य् एतत् ख्यातं सिद्धरसायनम् ॥

6.17.41

संवत्सरप्रयोगेण शतवर्षाणि जीवति ।
वर्षद्वयेन मनुजो द्वे जीवेच्छरदां शते ॥

6.17.42

निहन्याच्छ्वयथुं घोरं वृक्षमिन्द्राशनिर्यथा ।
पाण्डुरोगमथार्शांसि मन्दमग्निं कृमीनपि ॥

6.17.43

भगन्दरं कामिलां च कुष्ठानि जठराणि च ।
सप्लीहानमपस्मारं शूलानि परिकर्तिकाम् ॥

6.17.44

अतिसारं प्रमेहांश् च क्षतकासं क्षयं तथा ।
यस्मिन्यस्मिन्विकारे तु योगो ऽ यं सम्प्रयुज्यते ॥

6.17.45

तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ।
अनुप्रयोगो लाजानां सक्तवो मधुना सह ॥

6.17.46

क्षीरानुपानं लेह्यो ऽ यं दिवसान् स्प्त पञ्च वा ।
अर्शस्स्वामातिसारेषु विधिः स्यात् परिकर्तने ॥

6.17.47

तथा क्षीणेषु कासेषु ज्वरेषु विषमेषु च ।
वर्षोथितो ऽ पि श्वयथुस्तस्मान्मासेन शाम्यति ॥

6.17.48

रसायनप्रयोगाच् च पूर्वोद्दिष्टाद्यथाविधि ।
शालीन् सषष्टिकांश् चैव नवान्नविकृतीस् तथा ॥

6.17.49

क्षाराम्ललवणांश् चापि सदा धूमं विवर्जयेत् ।
आगन्तुश्वयथुर्वापि यो वा स्याद्दोषसम्भवः ॥

6.17.50

लङ्गनैश् च विलेपैश् च रक्तसेकैः प्रशाम्यति ।
अविपाको ज्वरश्छर्दिर्दौर्बल्यं परिकर्तिका ।
श्वासो ऽ तिसारो हिक्का च शोफस्योपद्रवाः स्मृताः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तदशो ऽ ध्यायः ॥ ॥ अष्टादशो ऽ ध्यायः ॥ अथात उदावर्तचिकित्सितं व्याखयास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc