भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.15

6.15.1

वातात्पित्तात्कफाच्चैव सन्निपाताद् द्वयाद् अपि ।
विसर्पाः पञ्च निर्दिष्टास् तेषां वक्ष्यामि लक्षणम् ॥

6.15.2

कषायकटुरूक्षांश् च यो नित्यम् उपसेवते ।
तस्य वायुः प्रकुपितः त्वग्रक्तं मांसम् एव च ॥

6.15.3

सिराश् च समधिष्ठाय विसर्पं जनयेद् बली ।
पिपीलिकां विसर्पन्तीं मन्यते तु, घृते ऽ पि च ॥

6.15.4

जृम्भिका तालुशोषश् च पार्श्वशूलग्रहज्वराः ।
घोरश् चारुणवर्णाभः श्वयथुः कृष्ण एव च ॥

6.15.5

इत्य् एष वातवीसर्पः तस्य कर्मविधिं शृणु ।
तस्य निर्वापणं कुर्यात् क्षीरेण परिषेचनम् ॥

6.15.6

पीत्वा च तैल्वकं सर्पिर्हरीतक्या विरेचनम् ।
अविदाहीनि चान्नानि भोजनार्ह्तं प्रदापयेत् ॥

6.15.7

क्षीरं च यवचूर्णं च घृतं चैवात्र साधयेत् ।
यष्टीमधुकसंयुक्तमेतदालेपनं वरम् ॥

6.15.8

गवां मूत्रं च क्षीरं च गोशकृद्रस एव वा ।
पञ्चमूली च तत्सिद्धं जलं सेके प्रशस्यते ॥

6.15.9

रास्नां च मधुकं चैव पेषयेद् दधिमस्तुना ।
प्रदेहो वातवीसर्पे घृताक्तस्य प्रशस्यते ॥

6.15.10

शृङ्गाणि क्षीरिवृक्षाणां मधुकं नीलमुत्पलम् ।
क्षीरसिद्धम् इदं कोष्णं वातवीसर्पनाशनम् ॥

6.15.11

एतैर् एव उषधैस्सर्वैः क्षीरपिष्टैः प्रलेपयेत् ।
सुखोष्णैर् वातवीसर्पे तथा सम्पद्यते सुखी ॥

6.15.12

अथ वा दधिमण्डेन तैलक्षीरघृतेन वा ।
सेचयन्ति सुखोष्णेन विसर्पे वातसम्भवे ॥

6.15.13

कट्वम्ललवणक्षारतीक्ष्णं ह्युष्णानि चाश्नतः ।
तस्य पित्तं प्रकुपितं शिरामांसत्वगाश्रितम् ॥

6.15.14

रक्तेन सह संसृष्टं शरीरे देहवेष्टितम् ।
ज्वलयित्वा ज्वरं पूर्वं ज्वलिताग्निशिखोपमम् ॥

6.15.15

विसर्पं जनयेत् तीव्रं दारुणं पित्तसम्भवम् ।
स्फोटास्तस्योपजायन्ते वह्निनेव समीरिताः ॥

6.15.16

यत्र यत्र च जायन्ते स्फोटास् तत्र विलीयते ।
हारिद्रं हरितं कृष्णं कोषं मुञ्चत्यभीक्ष्णशः ॥

6.15.17

एषो ऽ ग्निकल्पो वीसर्पः पैत्तिको देहनाशनः ।
चिकित्सां तत्र कुर्वीत प्रत्याख्याय चिकित्सकः ॥

6.15.18

विरेचनं स्नेहयुक्तं पाययेत् तं चिकित्सकः ।
परिषेकांश् च कुर्वीत क्षीरैरिक्षुरसेन वा ॥

6.15.19

अभीक्ष्णं सेचयेच्चैव हिमकल्पेन वारिणा ।
क्षीरिवृक्षकषायैर् वा कषायैर्मधुकस्य वा ॥

6.15.20

प्रदेहं त्वस्य कुर्वीत शतधैतेन सर्पिषा ।
मधुकोत्पलकल्कैस् तु क्षीरपिष्टैः प्रलेपयेत् ॥

6.15.21

मञ्जिष्ठा पद्मकं पद्मं चन्दनं नीलमुत्पलम् ।
मधूकं मधुकं द्राक्षा लामज्जककसेरुकौ ॥

6.15.22

मृणालानि विदारी च समुद्रान्ता शतावरी ।
सहस्रवीर्या नलदं बला दन्ती मधूलिका ॥

6.15.23

एतानि समभागानि जलद्रोणे विभावयेत् ।
एतैर् एव कषायैश् च पिष्टैश् चैव विपाचयेत् ॥

6.15.24

घृतं तस्य हितो ऽ भ्यङ्गः विसर्पे पित्तसम्भवे ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसजास् तथा ॥

6.15.25

कल्काः पञ्च प्रशस्यन्ते क्षीरपिष्टाः प्रलेपने ।
श्लेष्मलान्यन्नपानानि श्लेष्मलो यो निषेवते ॥

6.15.26

तस्य श्लेष्मा प्रकुपितो रक्ते तिष्ठति देहिनः ।
ततो ऽ स्य श्लेष्मवीसर्पो जायते मन्दवेदनः ॥

6.15.27

स्फोटाश् च तस्य जायन्ते श्वयथुः पाण्डुरेव च ।
तस्य तन्द्रा च निद्रा च ज्वरः कासः शिरोग्रहः ॥

6.15.28

चिराच् च पाकं व्रजति विसर्पः श्लेष्मसम्भवः ।
वमनं रेचनं चैव कुर्यात् तस्य यथाबलम् ॥

6.15.29

तैल्वकं वा पिबेत्सर्पिः पुराणं घृतम् एव वा ।
सर्जाश्वकर्णौ सुस्ता च सल्लकी सोमवल्कलः ॥

6.15.30

द्वौ करञ्जौ कपित्थत्वक् शिरीषोशीरसारिबाः ।
क्षीरिवृक्षप्रवालानि कुटजत्वग्धनज्जयः ॥

6.15.31

धवः पलाशः स्योनाकः खदिरो वेतसासनौ ।
कषायं साधयेद् एतं सुखोष्णेन च सेचयेत् ॥

6.15.32

अजाक्षीरेण पिष्टैस् तु कल्कैरेतैः प्रलेपयेत् ।
तैलप्रस्थं पचेदेभिः कषायैरथ पेषितैः ॥

6.15.33

अभ्यञ्जनेन वीसर्पः श्लैष्मिकस्तेन शाम्यति ।
गोमांसखण्डैर् उष्णैश् च विसर्पम् उपनाहयेत् ॥

6.15.34

मज्जभिर् जाङ्गलानां च तदभ्यङ्गं प्रकल्पयेत् ।
मांसोपनाहं कुर्वीत श्लैष्मिके वातिके ऽ पि वा ॥

6.15.35

जाङ्गलैर्गव्यमायूरैः कुक्कुटैश्छागलैर् अपि ।
यदा प्रकुपिता दोषास् त्रयस् त्वङ्मांसमाश्रिताः ॥

6.15.36

रक्तेन सह संसृष्टाः शरीरोद्देशचेष्टिताः ।
संश्यामं मण्डलं तत्र जायते कृष्णम् एव च ॥

6.15.37

अथ लोहितपर्यन्तं विसर्पति सवेदनम् ।
ज्वरस्तृष्णा च दाहश् च छर्दिर्मूर्छा भ्रमस् तथा ॥

6.15.38

यद्यच् च स्पृश्यते तेन तत्रोष्मा न निवर्तते ।
दग्धे च शोणिते गात्रं शुष्कालाबुनिभं भवेत् ॥

6.15.39

।.. ।.. ।.. ।.. ॥। यां तत्र कारयेत् ।
सुकुमारं बलातैलं तैलं शैरीषम् एव वा ।
धान्वन्तरं चापि घृतं पाययेद् वातशोणिते ॥

6.15.40

पिप्पलीवर्धमानं वा तक्रासवमथापि वा ।
खादिरं वा निषेवेत वातशोणितपीडितः ॥

6.15.41

नित्यम् आस्थापयेच्चैनं मुस्ताद्येन तु वस्तिना ।
पायये---रवस्तिभ्याम् अथवा माधुतैलिकैः ॥

6.15.42

यच् चिकित्सितम् आख्यातं विसर्पे वातसम्भवे ।
तद्वातशोणिते सर्वं कर्तव्यं शोणितोत्तरे ॥

6.15.43

यदि शोणितमाक्रान्तं गम्भीरे वातशोणिते ।
वातवत्तच्चिकित्सेत स्नेहपानानुवासनैः ॥

6.15.44

मयूरकौञ्चलावानां वसा मज्जा च लामतः ।
पाने ऽ भ्यङ्गे च वस्तौ च बलातैलं प्रशस्यते ॥

6.15.45

अक्रियाभिः क्रियाभिर् वा पक्वं यद्वातशोणितम् ।
पाटनं तत्र कुर्वीत सुविकल्प्य प्रयोगवित् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले पञ्चदशो ऽ ध्यायः ॥ ॥ षोडशो ऽ ध्यायः ॥ अथातो ऽ र्शसां चिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc