भेलसंहिता · अध्याय 6.16
वातात्पित्तात्कफाच्चैव सन्निपातात्तथैव च ।
सहजानि च रक्ताच् च षोडार्शांस्यथ देहिनाम् ॥
तेषां निदानं वक्ष्यामि चिकित्सां चानुपूर्वशः ।
अदृश्यानां च यत्प्रोक्तं दृश्यानां च यथाक्रमम् ॥
विदाहिगुरुरूक्षाणामानूपौदकसेवनात् ।
दधिदुग्धगुडादीनां पिशितानां च भोजिनाम् ॥
यवानामुदकानां च दुष्टानामवचारणात् ।
नित्य् आजीर्णभुजां चापि वेगानां च विधारणात् ॥
प्रवाहणाच्चतिमात्रं मैथुनस्यातिसेवनात् ।
दुष्टपानप्रसङ्गाच् च कठिनात् पृष्ठपीडनात् ॥
निरूहस्यातियोगाच् च वस्तीनां विभ्रमाद् अपि ।
स्नेहपानाच् च विभ्रान्तान्मद्यदोषाच्छ्रमात्क्षयात् ॥
एभिः प्रकुपिता दोषा वातपित्तकफास्त्रयः ।
एकशस्सर्वशो वाथ द्वन्द्वशः शोणितेन वा ॥
गुदाभिष्यन्दमेवाशु कर्वन्ति गुदमाश्रिताः ।
कीलास् तत्र प्रहोहन्ति सूक्ष्मसर्षपसन्निभाः ॥
यवमुद्गादिनिष्पावकर्कन्धुबदरोपमाः ।
शरीराङ्गुष्ठमात्रा वा ताम्रा गोस्तनसन्निभाः ॥
निरूढास्ते गुदे कीलाः स्तम्भयन्ति गुदं भृशम् ।
स्रोतसां गुदमानह्य मूलं बध्नन्ति वाप्य् अथ ॥
निरोधात्स्रोतसां तेषामूर्ध्वं दोषास्समुत्थिताः ।
एकैकं दूषयित्वा तु रोगान् कुर्वन्ति चाशयान् ॥ 6.1
अरुचिश् चाविपाकश् च गात्रक्षयबलक्षयौ ।
पण्डुत्वं पर्वभेदश् च श्वयथुश् चाक्षिकूटयोः ॥
ग्लानिर्मैथुनहानिश् च गुदभ्रंशो गुदग्रहः ।
अर्शसां रूपसादृश्यं पृथक्त्वं तेषु वक्ष्यते ॥
कृष्णं पुरीषं भवति रूक्षं किंचित्सफेनिलम् ।
नित्यं गाढपुरीषश् च भिन्नवर्चाः पुनः पुनः ॥
ऊरुपृष्टकटिग्राहो नित्य् आनद्धसुदुर्बलः ।
जायते पर्वभेदश् च कर्णशूलस्तृषा भ्रमः ॥
अर्शो यकृद्धि पवनो जठरं वापि वर्धयेत् ।
शूलाश् चास्योपजायन्त आध्मानं च पुनः पुनः ॥
ग्रहणी दूषिता चास्य वैवर्ण्यं चोपजायते ।
हृत्पार्श्वकोष्ठशूलाश् च दुर्नाम्न्यनिलसम्भवे ॥
सज्वरं पिटकं तृष्णा तीक्ष्णवेगं सशोणितम् ।
उष्णं द्रवं सदाहं च पित्तार्शस्सूपवेश्यते ॥
पाण्डुवर्णश् च भवति पीताभासश् च लक्ष्यते ।
दह्यते च गुदो ऽ त्यर्थः गुदपाकश् च जायते ॥
श्लेष्मजेष्व् अपि चार्शस्सु पिच्छिलं शुक्लसंप्लवम् ।
पुरीषं सकफं याति स्तोकं स्तोकं सवेदनम् ॥
उपविष्टश्चिरं चास्ते निःस्वनं चोपवेश्यते ।
शूयते मेढ्रवृषणं वस्तिश् च गुद एव च ॥
अरुचिश् चाविपाकश् च न च पक्वं विरिच्यते ।
श्वयथुश् च विशत्येनं विशेषेणाक्षिकूटयोः ॥
एतच्छलेष्मसमुत्थानामर्शसां रूपमुच्यते ।
सन्निपातसमुत्थानं जानीयात् सर्वलक्षणैः ॥
सङ्घातरक्तं विस्रं वा भिन्नं वा पित्तमिश्रितम् ।
चिरेण च प्रवाहो ऽ स्य प्रसक्तं वा कदाचन ॥
अभिष्यण्णानि मुञ्चन्ति रक्तार्शांस्यथ शोणितम् ।
वहन्ति धारया रक्तं यथा विद्धा सिरा स्थिता ॥
रजस्वलेव युवती रक्तं मुञ्चन्त्यभीक्ष्णशः ।
अतीवमुः द्रं सुरां दन्तीं ककुभं समयूरकम् ॥
गवां च महिषीणां च मूत्राण्यथ समाचरेत् ।
भस्मीकृत्य तु तं क्षारं युक्त्या मद्येन पाययेत् ॥
श्लेष्मार्शांसि प्रशमयेच् छवयथुं पाण्डुताम् अपि ।
अर्शसां वातिकानां तु यदुक्तं वै चिकित्सितम् ॥
तद् एव श्लैष्मिकाणां तु स्नेहवर्जं समाचरेत् ।
रक्तजेष्व् अपि चार्शस्सु क्षीरमाजं प्रशस्यते ॥
ऋतुं वाप्य् अयनं वापि पिबेन्मासमथापि वा ।
बलाबिल्वशलाटूनि त्रिफला हस्तिपिप्पली ॥
करञ्जमधुपालाशमधुकोत्पलतिन्दुकैः ।
कल्कैरक्षसमैरेतैर्घृतप्रस्थं विपाचयेत् ॥
अजाक्षीरे दशगुणे तत्सिद्धं मात्रया पिबेत् ।
एतद्रक्तसमुत्थानि पित्तजानि हि यानि च ॥
अर्शासि नाशयत्याशु छिन्नाभ्राणीव मारुतः ।
लोध्रं दारुहरिद्रा च मज्जा बैभीतकी तथा ॥
तण्डुलोदकपीतानि मधुनार्शोविनाशनम् ।
लाक्षा हरिद्रा मञ्जिष्ठा मधुकं नीलमुत्पलम् ॥
अजाक्षीरेण पीतानि रक्तजानां विनाशनम् ।
शिरीषपुष्पं पुष्पं च कौटजं ककुभस्य च ॥
दार्वी हरिद्रा लोध्रं च धातकी कट्फलं वृषः ।
एतेषां पाययेत्कल्कान्युक्तितस्तण्डुलाम्बुना ॥
मधुयुक्तः प्रशमयेद् अर्शो वै रक्तपित्तजम् ।
मधुकं बदरं द्राक्षा मूलं च कुशकाशयोः ॥
तण्डुलोदकपीतानि मधुनार्शोविनाशनम् ।
न्यग्रोधोदुम्बराश्वत्थबदरीप्लक्षवेतसात् ॥
पृथक् प्रवालान्यार्द्राणि द्विपलीनानि संहरेत् ।
अवाक्पुष्प्याः पलान्यष्टवष्टौ दार्व्यास् तथैव च ॥
शालिपर्णीपृश्निपर्ण्योः पले द्वे द्वे समावपेत् ।
द्वे रालशाकस्य पले सर्वमेतत्समावपेत् ॥
द्विद्रोणे सलिले साध्यमष्टभागावशेषितम् ।
घृतस्य चाढकः साध्यः सकषायः सुखाम्बुना ॥
चाङ्गेर्याम्लिकया जातः स्वरसः स्नेहसम्मितः ।
देवदार्वभया मुस्ता चित्रको बिल्वपेशिका ॥
कट्फलं शृङ्गबेरं च पिप्पली चन्दनं तथा ।
सौवीरमञ्जनं मूलं पिप्पल्यास्तिक्तरोहिणी ॥
गुडप्रियङ्गुपुष्पं च शाल्मलीपिच्छसाह्वया ।
वत्सकस्य च बीजानि तथैवातिविषा वचा ॥
एतानक्षसमान् भागान् पृथग्दत्वा विपाचयेत् ।
एतत्सिद्धं घृतं युक्त्या रक्तार्शो वै विनाशयेत् ॥
पित्तगुल्ममतीसारं शूलं ज्वरमरोचकम् ।
स्त्रीणामसृग्दरं घोरं रक्तपित्तं प्रवाहिकाम् ॥
पाण्डुरोगं विषं कासं कृमींश्चैवापकर्षति ।
नाशनं श्लेष्मजातानां कायाग्नेर्दीपनं परम् ॥
गर्भाधानं च वन्ध्यानां शोषिणां चामृतोपमम् ।
चाङ्गेरीघृतम् इत्य् एतत् ख्यातम् अर्शोविनाशनम् ॥
बलवर्णकरं चैव रक्तगुल्महरं तथा ।
पित्तजेष्व् अपि चार्शस्सु हितं तद्रक्तजेष्व् अपि ॥
सन्निपातसमुत्थेषु सर्वेष्वेव च पूजितम् ।
अर्शसां सहजानान्तु यथाप्रकृति चाचरेत् ॥
चिकित्सितं स्वयं बुद्ध्या सम्प्रधार्य यथाबलम् ।
त्रिपलं शृङ्गबेरस्य चतुर्थं मरिचस्य च ॥
पिप्पली कुडवार्धं च चव्यस्य पलम् एव च ।
तालीसपत्रस्य पलं पलार्धं केसरस्य च ॥
द्वे पले पिप्पलीमूलं चित्रकस्य पलं तथा ।
तथा त्वक्पत्रयोः कर्षौ सूक्ष्मैलाकर्षम् एव च ॥
त्रिंशद्गुडपले शुद्धे चूर्णान्य् एतानि साधयेत् ।
ततो ऽ क्षमात्रा वटिकाः प्राणदा इति विश्रुताः ॥
तालीसपत्रवटकास् त एव परिकीर्तिताः ।
पूर्वं भक्तस्य पश्चाद्वा भक्षयेत् तु यथाबलम् ॥
मद्यैर् मांसरसैर् यूषैः क्षीरैश् चाप्य् उपभोजयेत् ।
एतेन हन्ति कफजान्यर्शांसि सहजानि च ॥
वातपित्तसमुत्थानि रक्तजानीतराणि च ।
मदात्यये मूत्रकृच्छ्रे प्रमेहे हृदयग्रहे ॥
विषज्वरे पार्श्वशूले क्षते क्षीणे विरेचिते ।
मन्दाग्निविषमाग्नीनां तथैव कृमिकोष्ठिनाम् ॥
शूलगुल्मपरीतानां छर्द्यतीसारिणाम् अपि ।
हृद्रोगिणां कामलिनां शोषिणाम् ऊर्ध्ववातिनाम् ॥
कासश्वासपरीतानां सेव्याश् च वटकाः शुभाः ।
भूयिष्ठं सहजानीह क्षपयन्ति शरीरिणम् ॥
तस्माच् छोषोपचारेण कुर्यात् तस्य चिकित्सितम् ।
रोगानीकस्य सर्वस्य परमर्शः सुकीर्तितम् ॥
तस्माद् अर्शो विस्तरेण चिकित्सेत् तु चिकित्सकः ।
शस्त्रेण छेदनं तेषां क्षारेण दहनं तथा ॥
शल्यकर्ता प्रयुञ्जीत दृष्टकर्मा चिकित्सितम् ।
आयुर्वेदविदा यत् तु प्रयोक्तव्यं चिकित्सितम् ॥
आलेपनाभ्यङ्गविधिं स्वेदकर्म च तच्छृणु ।
अभ्यज्य नाभिं कुक्षिं च वस्तिमुष्कौ गुदं तथा ॥
अम्लैः क्षीरैश् च मूत्रैश् च सुखोष्णैः परिषेचयेत् ।
तरुणैर्मूलकैः स्विन्नैस् तथा गृज्जनकैर् अपि ॥
सुखोष्णैः स्वेदयेद् युक्त्या पिण्याकैर्गोमयेन वा ।
राठमेरण्डमूलं च मधूकं देवदारु च ॥
यवचूर्णनयुक्तानि क्षीरेणालोड्य पाययेत् ।
तेनोपनाहं कुर्वीत स्वेदयेच् च पुनः पुनः ॥
अर्शांसि शममायान्ति वेदना च निवर्तते ।
वृषार्कनक्तमालानां काश्मर्यादण्डयोस् तथा ॥
पत्रक्वाथैः स्वेदयेत् तु तत्र चैवोपवेशयेत् ।
महानिम्बं शृङ्गबेरं कुष्ठं कासीसम् एव च ॥
सैन्धवं चित्रकं दन्तीं करवीरं शिलाकणाम् ।
पूतिकं वरुणाद्वल्कं विदारीं लाङ्गलाह्वयाम् ॥
विडङ्गं हेमदुग्धां च हरितालं च पेषयेत् ।
गर्भेणानेन विपचेत् तैलं मूत्रचतुर्गुणे ॥
स्नुह्यर्कक्षीरयोश् चात्र कुडवः कुडवो भवेत् ।
एतदालेपनं युक्तमर्शसां शमनं परम् ॥
क्षारकर्मकरं ह्येतन्न च दूषयते गुदम् ।
कुलीरशृङ्गी हस्त्यस्थि बला लाङ्गलिकी तथा ॥
हिङ्गु कुष्ठं च तुत्थं च बिल्वं भल्लातकानि च ।
अर्शसां लेपनं तेन सप्तरात्रं पुनः पुनः ॥
शिरीषबीजं द्वौ क्षारौ लङ्गली सैन्धवं तथा ।
स्नुहीक्षीरेण पिष्टानि गवां पित्तेन भावयेत् ॥
अर्णांसि लेपयेत् तेन सप्तरात्रं पुनः पुनः ।
एतेन लिप्तान्यर्शांसि विनश्यन्ति न संशयः ॥
शिग्रु ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।
सर्वमेकत्र संहृत्य स्नुहीक्षीरेण पेषयेत् ॥
करवीरो ऽ नवद्यश् च मालती स्वर्णयूथिका ।
प्रक्षालनकषायो ऽ यमर्शसां हित उच्यते ॥
सक्षौद्रं नवनीतं तु प्रलेपो व्रणरोपणः ।
दह्यते सप्तरात्रेण पुंस्त्वं च न विनश्यति ॥
सौर्मिकाबिददं ।.. ।.. ।.. ।.. ।.. ।.. ।
।.. ।.. र्शात्रिकटुकं स्नुहीक्षीरेण पेषयेत् ॥
एतदालेपनं श्रेष्ठं दुर्नामानं विनाशयेत् ।
स्वर्णक्षीरी तु ।.. ।.. ।.. त्सकम् ॥
कुक्कुट्स्य पुरीषं च स्नुहीक्षीरेण पेषयेत् ।
एतदालेपनं श्रेष्ठमर्शसां क्षारसम्मितम् ॥
दह्यन्ते ऽ र्शांसि सप्ताहात् पुंस्त्वं च न विनश्यति ।
यवास्सिद्धार्थकाश् चैव भल्लातकमथो वसा ॥
धूपनं चन्दनं कुष्ठं शिंसपासार एव च ।
गवां शकृच् च वाराहं पत्रे वारिष्टशिग्रुजे ॥
घृतमिश्रं प्रशंसन्ति श्रेष्ठं धूपनमर्शसाम् ।
रक्तपित्तसमुत्थेषु प्रशस्ताः क्षीरवस्तयः ॥
तीक्ष्णाः कफसमुत्थेषु वातिकेष्व् अनुवासनम् ।
सन्निपातादसाध्यानि चिरोत्थानीह यानि तु ।
रक्तजास्सहजा याप्याः साध्या अन्ये त्रयो ऽ पि ते ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले षोडशो ऽ ध्यायः ॥ ॥ सप्तदशो ऽ ध्यायः ॥ अथातः श्वयथुचिकित्सितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0