भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.14

6.14.1

वंशको नक्तमालश् च मूर्वा कटुकरोहिणी ।
तर्कारी प्रग्रहश् चैव पीलूनि निचुलानि च ॥

6.14.2

असनः स्प्तपर्णश् च त्रिफला मरिचानि च ।
एतानि समभागानि कषायम् उपपादयेत् ॥

6.14.3

एतान्येव च चूर्णानि माक्षिकेण पिबेन् नरः ।
अनेनैव कषायेण भोजयेत् सिद्धमोदनम् ॥

6.14.4

पिचुमन्दस्य मूलानि चित्रको हस्तिपिप्पली ।
त्वक्पत्रफलमूलानि करञ्जात्सर्षपास् तथा ॥

6.14.5

तुल्यान्य् एतानि सर्वाणि वल्मीकस्य च मृत्तिका ।
गवां मूत्रेण पिष्टानि श्लक्ष्णान्युद्वर्तनं वरम् ॥

6.14.6

रास्ना वचा ह्य् अर्कमूलं हिंस्रा दन्ती तथैव च ।
शतपुष्पा च कुष्ठं च द्वे हरिद्रे पुनर्नवा ॥

6.14.7

अश्वमूत्रे त्वपामार्गः शारिवा नक्तमालिका ।
वल्मीकमृत्तिका युक्तमेतैर् उद्वर्तनं वरम् ॥

6.14.8

करजस्सुरसो बिल्वं देवदारु वचार्जुनः ।
तर्कारी मेषशृङ्गी च शोभाञ्जनक आरणी ॥

6.14.9

उभे बृहत्यौ श्योनाकः श्बदंष्ट्रा खदिरासनौ ।
जले सिद्धैरिमैस्त्तुल्यैः कषायपरिषेचनम् ॥

6.14.10

एतैर् एव उषधैस्तुल्यैः क्षीरपिष्टं प्रलेपयेत् ।
अनेन विधिना शीघ्रमूरुस्तम्भः प्रशाम्यति ॥

6.14.11

द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च ।
एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥

6.14.12

काला भार्ङ्गी पृथक्पर्णी सुवहा मदयन्तिका ।
काश्मरी च विशल्या च हिंस्रा हेमविदारिका ॥

6.14.13

चिरबिल्वो ह्य् अशोकश् च बला चांशुमती तथा ।
वयस्था पीलपर्णी च पाठा चैव शतावरी ॥

6.14.14

एषां पंचपलान् भागान् जलद्रोणेषु सप्तसु ।
अष्टभागावशेषं च पचेत्तैलाढकं शनैः ॥

6.14.15

कुष्ठं च शतपुष्पा च चित्रकस्त्र्यूषणं तथा ।
देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तम् एव च ॥

6.14.16

अश्वगन्धा च पाठा च मूर्वा श्योनाक एव च ।
पिप्पल्यः शृङ्गबेरं च दन्ती हिङ्ग्वम्लवेतसौ ॥

6.14.17

गर्भेणानेन वैद्यस् तु कषायेण सुसाधयेत् ।
सिद्धं पूतं च शीतं च क्षौद्राज्येनानुसंसृजेत् ॥

6.14.18

तदस्य दद्यात् पानार्थं तथैवाभ्यज्जनादिषु ।
ऊरुस्तम्भश्चिरोत्पन्नस्तैलेनैतेन शाम्यति ॥

6.14.19

श्लीपदान्याठ्यवातं च खुडवातांश् च नाशयेत् ।
पिप्पलीवर्धमानं वा माक्षिकेण जलेन वा ॥

6.14.20

ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टम् एव वा ।
क्षाराः क्षारागदाश् चैव निरूहाश् च पृथग्विधाः ॥

6.14.21

हरीतक्याः प्रयोगो वा ह्यूरुस्तम्भे प्रशस्यते ।
विलेख्यमानो हि यतः क्षीणमांसबलो भवेत् ॥

6.14.22

शरीररक्षणार्थाय भोजयेद् बृंहयेद् अपि ।
भुञ्जीत षष्टिकान् जीर्णान् पुराणांश् चैव शालिकान् ॥

6.14.23

जाङ्गलानि च मांसानि सेवेत मृगपक्षिणाम् ।
ऊरुस्तम्भपरीतो यो यदा वाताधिको भवेत् ॥

6.14.24

सम्यक् प्रोक्तम् इदं सर्वमूरुस्तम्भचिकित्सितम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चतुर्दशो ऽ ध्यायः ॥ ॥ पञ्चदशो ऽ ध्यायः ।
।
अथातो विसर्पवातशोणितं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc