भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.13

6.13.1

भाराभिहतदेहस्य कटुतिक्तोपसेविनः ।
वायुस्सर्वशरीरस्थो दुष्टो वातहताः सिराः ॥

6.13.2

गत्वा हि पूरयेत्कोष्ठं तथाध्मानं करोति च ।
दृतिवच् च समुन्नद्धमुदरं स्यात् समन्ततः ॥

6.13.3

कृष्णराजिवनद्धं च कृष्णरोमाचितं तथा ।
एतद्वातोदरं विद्यादेतैर्लिङ्गैस्समन्वितम् ॥

6.13.4

उष्णाभितप्तो यो जन्तुर्विदाहीन्युपसेवते ।
व्यायामोपरतश् चैव क्लान्तो यश्चोदकं पिबेत् ॥

6.13.5

तस्य देहे कफो दुष्टः सिराः कफवहा गतः ।
उत्सन्नो दूषितश् चापि कोष्ठमभ्यन्तराश्रितः ॥

6.13.6

सर्वमाध्मापयेत्कोष्ठं वेदनां च करोति सः ।
शुक्लराजिवनद्धं च शुक्लरोमाचितं तथा ॥

6.13.7

तस्य सीदन्ति गात्राणि मुखस्रावश्च जायते ।
दुर्गन्धितास्यमालस्यं सकफोदरिलक्षणम् ॥

6.13.8

समश्नतः सर्वरसान् मिथ्याहारविहारिणः ।
तस्यान्यार्धमिवात्यर्थमुदरं संप्रकाशते ॥

6.13.9

नानाराजिवनद्धं च नानारोमाचितं तथा ।
तथा नानावेदनाड्यमुदरं सान्निपातिकम् ॥

6.13.10

आमनन्त्युदरं नार्यो गरमात्मोद्भवं यदा ।
कर्णरोधकृतं चापि शुक्लं जिह्वामलं नखम् ॥

6.13.11

मनुष्यमेदोरोमाणि स्त्रीणामार्तवशोणितम् ।
पुरीषं च प्रयच्छन्ति भक्त दुष्टोदरं भवेत् ॥

6.13.12

सर्ववर्णसिरानद्धं नीलपीतप्रभं तथा ।
नृणां दूष्योदरं नाम जायते सान्निपातिकम् ॥

6.13.13

तस्याङ्गमर्दः कासश् च श्वासो हिक्का च जायते ।
निद्रा तन्द्रा तथालस्यं दाहश् चाङ्गगतो भवेत् ॥

6.13.14

सदनं सर्वगात्राणां शोषणं पाण्डुवर्णता ।
विषपीते च यल्लिङ्गं तच् च तस्योपजायते ॥

6.13.15

एवं दूष्योदरं त्वेतैर्लिङ्गैर्मरणमृच्छति ।
अभुक्त्वा यः पिबेन्नित्यम् उदकं प्रातरुत्थितः ॥

6.13.16

वर्षाहेमन्तकालेषु पिबेद्यश्चोदकं बहु ।
तस्योदरे ऽ धिका पीडा चान्यतः सम्प्रपद्यते ॥

6.13.17

सदनं रोमहर्षश् च शीताग्नित्वं शिरोग्रहः ।
तथा स्निग्धावभासञ् च स्निग्धरोमाचितं च यत् ॥

6.13.18

एतैर्लिङ्गैस्समस्तैस् तु नृणां तदुदकोदरम् ।
शङ्कुना स्नायुभेदेन मत्स्यानां वाथ कण्टकैः ॥

6.13.19

शकृत्तृणाग्रैर् वा भुक्तैरन्त्रं यस्य विभिद्यते ।
तेनान्नपानं छिद्रेण स्रवेत्तस्यान्तरोदरे ॥

6.13.20

उन्नतं जायते तस्माद् उदरं स्यात् समन्ततः ।
सिराआयता जायते च त्वर्धे जठरसन्निधौ ॥

6.13.21

संस्राविणि च जठरे लक्षणं परिकीर्तितम् ।
यः प्लवेल्लङ्घयेद् वापि यश् च व्यायच्छते नरः ॥

6.13.22

तेनास्यान्त्राणि तुद्यन्ते बध्यन्ते चाप्य् अथैकतः ।
तथा मुञ्जैश् च बालैश् च भुक्तैरन्त्रं निवेष्ट्यते ॥

6.13.23

तेन बद्धं गुदं नॄणां जायते ऽ न्त्रनिपीडनात् ।
उत्क्षिप्तकुक्षिर् भवति तथा संक्षिप्तमेहनः ॥

6.13.24

शूनाक्षः शूनवृषणः शूनहस्तस् तथैव च ।
शूनपादगुदश् चैव सुप्ताङ्गश् चापि जायते ॥

6.13.25

नतोन्नतः समश् चापि नरो बद्धोदरी भवेत् ।
आमधान्ययवान् यस् तु नरो भुङ्क्ते निषेवते ॥

6.13.26

सकेसरं फलं वापि भक्षयित्वोदकं पिबेत् ।
हस्त्यश्वरथयानं च भुक्तमात्रे निषेवते ॥

6.13.27

महौषधं समरिचं द्वौ क्षारौ त्रिफला वचा ।
यवानी कुञ्चिका हिङ्गु तिन्त्रिणीकाम्लवेतसौ ॥

6.13.28

धान्याजगन्धे त्रायन्ती दाडिमं सयवासकम् ।
कटुका कौटजं बीजं सैन्धवं च समान् भिषक् ॥

6.13.29

त्रिवृता सप्तला दन्ती कम्पिल्लं नीलिका ऽ भया ।
सुवर्णक्षीरी द्विगुणं सर्वाण्य् एतानि चूर्णयेत् ॥

6.13.30

आजे गव्ये ऽ थवा मूत्रे सप्ताहं परिभाव्य तम् ।
द्विगुणं शर्करां चात्र दापयेत् त्र्यङ्गुलं पिबेत् ॥

6.13.31

गोमूत्रत्रिफलाक्षाररसैर्मद्यैः सुखाम्बुना ।
सुवर्णसमकं चूर्णं सर्वरोगार्तिभेषजम् ॥

6.13.32

सर्वोदरप्लीहशोषगुल्महृद्रोगनाश्नम् ।
वाताष्ठीलामथानाहं श्वयथुं सर्वगात्रजम् ॥

6.13.33

हलीमकामिलापाण्डुप्रमेहान् सज्वरान् जयेत् ।
जीविते संशयं कृत्वा गरलं जठरी पिबेत् ॥

6.13.34

त्रपुसोर्वारुकं वापि मूलकं वापि दंशयेत् ।
क्रुद्धेन कृष्णसर्पेण जठरी तानि भक्षयेत् ॥

6.13.35

कुक्षिं विपाट्य मानेन छिद्रमन्त्रस्य वीक्ष्य च ।
ततः पिपीलिकादंशं छिद्रे त्वन्त्र्सय दापयेत् ॥

6.13.36

अन्त्रच्छिद्रे संगृहीते सीव्येत्कुक्षिं ततो भिषक् ।
एवं छिद्रोदरं वैद्यः शल्यकर्तुरुपाचरेत् ॥

6.13.37

तथा बद्धगुदं चैव पाटयेच्छल्यशास्त्रवित् ।
मुञ्जान् वालांस्तथोद्धृत्य बद्धं सीव्येत्ततो भिषक् ॥

6.13.38

दकवन्ति हि सर्वाणि जठराण्यक्रियावताम् ।
व्यथनं तेषु कुर्वीत शल्यकर्तुः प्रयोगवित् ॥

6.13.39

वामे पार्श्वे त्वधः कुक्षेर्मुक्त्वा च चतुरङ्गुलम् ।
नाभ्यां वा प्रणयेच्छस्त्रं मात्रायुक्तं चिकित्सकः ॥

6.13.40

विस्रावयेच्च जठरं भिषगामयपीडितम् ।
मर्दयेद् उदरं चास्य वेष्टनेन तु वेष्टयेत् ॥

6.13.41

वेष्टितं जठरं चास्य नाध्मापयति मारुतः ।
पिबेद्यवागूं च ततो लवणस्नेहवर्जिताम् ॥

6.13.42

ततः परं तु क्षीरेण मासार्धं समुपाचरेत् ।
ततः क्षीरयवागूं च, त्रीन्मासांस् तु यवान्भिषक् ॥

6.13.43

भुञ्जीतालवणं तस्मात् त्रीन्मासान् लघु भोजनम् ।
ततः सलवणं भोज्यमुच्यते तूदरे ऽ पि च ॥

6.13.44

के तूदराणामिच्छन्ति लवणं योगवाहतः ।
केचित् तु जठरे प्राहुरग्निकर्म चिकित्सकाः ॥

6.13.45

अजाततोये जठरे पवनश्लेष्मसम्भवे ।
प्लीहोदरं हिनस्त्यग्निः जयेत् तस्माद् विशेषतः ॥

6.13.46

निवृत्तिर्वर्णिता, तत्र सलिलोदरखेदिनः ।
।.. ।.. यावत्पेया प्रकोदरम् ॥

6.13.47

मण्डलं निर्मितं यच् च श्वयथुः स्पर्शने मृदुः ।
आकोटितमशब्दं च न च राजिसमाकुलम् ॥

6.13.48

आक्रम्यमाणं नाभ्यान्तु मृदुरेव हि सर्पति ।
ततश् च सलिलोद्भूतिं पिच्छनैश् च विनिर्दिशेत् ।
क्रियायतीश् च सर्वाणि सक्रियापिश् च देहिनाम् ॥

6.13.49

भल्लातकानां पवनाहतानां वृन्तच्युतानाम् इह चाठकं स्यात् ।
तदिष्टकाचूर्णकणैर्विघृष्य प्रक्षालयित्वा विसृजेत् प्रवाते ॥

6.13.50

शुष्कं पुनस्तद्विदलीकृतं च विनिक्षिपेदप्सु चतुर्गुणासु ।
पादावशिष्टं परिपूतशीतं क्षीरेण तुल्येन पुनः पचेत ॥

6.13.51

तदर्धया शर्करयावगाढं लोहाभयाव्योषकचूर्णयुक्तम् ।
एतत्समं शर्करपादयुक्तं ततः खजेनोन्मथितं निधाय ॥

6.13.52

प्रस्थद्वयेनामलकीमधूनां शीते ऽ थ धान्येन पुनः पचेत ।
तत्सप्तरात्रादुपजातवीर्यं सुधारसादप्यधिकत्वमेति ॥

6.13.53

प्रातर्विशुद्धीकृतदेहभाजां मात्रां ददीतात्मशरीरयोग्याम् ।
न चान्नपाने परिहार्यमस्ति न चोष्णवाताध्वनि मैथुने च ॥

6.13.54

जन्तुर्नितान्तं नरसिंहवत्स्याद् भवेन् नरः काञ्चनराशिसारः ।
दन्ताश् च शीर्णाः पुनरुद्भवन्ति केशाश् च शुक्लाः पुनरेव कृष्णाः ॥

6.13.55

विशीर्णकर्णाङ्गुलिनासिको ऽ पि कृतान्तदन्तान्तगतो ऽ पि कुष्ठी ।
सो ऽ पि क्रमेणाङ्गुलिगात्रशाखस्तरुर्यथा रोहति वारिसिक्तः ॥ भ्ष्6.13. ।
महामयूराञ्जयति स्वरेण बलेन नागांस्तुरगाञ्जवेन ।
स्मृमतिबलमसत्य ।.. ।.. ।.. ।.. ।... ॥ ॥ चतुर्दशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc