भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.12

6.12.1

तालपत्रीकषायं तु मूत्राघातेषु दापयेत् ।
भोजनं क्रौञ्चमांसेन मूत्राघातेषु शस्यते ॥

6.12.2

पिष्ट्वा तु तस्य चैवास्थि क्षीरेण सह पाययेत् ।
मूत्रकृच्छ्राणि शमयेद् अश्मरीं च भिनत्त्य् अपि ॥

6.12.3

एभिर् यदि प्रयोगैस् तु शर्करा नोपशाम्यति ।
तामुद्धरेच्छल्यहर्ता दृष्टकर्मा बहुश्रुतः ॥

6.12.4

प्रतीघातादिन्द्रियस्य यस्य कृच्छ्रं प्रवर्तते ।
अनुसन्नं च शूलं च शृणु तस्य चिकित्सितम् ॥

6.12.5

बलातैलेन स्वभ्यक्तमुष्णाम्बुपरिषेचितम् ।
आस्थापयेत्पाचनेन मुस्ताद्येन तु वस्तिना ॥

6.12.6

प्रत्यागते निरूहे तं भोजयेत् सिद्धमोदनम् ।
तनुना मुद्गयूषेण जाङ्गलेन रसेन वा ॥

6.12.7

ततस् तु शुद्धाम्बरया नार्या स्नातानुलिप्तया ।
इष्टया संविशेत्सार्धं कल्याणगुणयुक्तया ॥

6.12.8

विशुद्धे रेतसो मार्गे मारुतः प्रगुणी भवेत् ।
स्वं स्थानं मारुते प्राप्ते कृच्छ्रं तस्य निवर्तते ॥

6.12.9

अष्टानां मूत्रकृच्छ्राणामेतदुक्तं चिकित्सितम् ।
रूपाणि चैव सर्वेषां शिष्याणामर्थसिद्धये ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले द्वादशो ऽ ध्यायः ॥ ॥ त्रयोदशो ऽ ध्यायः ॥ अथात उदरचिकित्सां व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc