भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 6.11

6.11.1

अग्निर्वाआयुर्मनुष्याणां प्राणास् तत्र प्रतिष्ठिताः ।
बलमारोग्यमायुश् च सुखदुःखं तदाश्रयम् ॥

6.11.2

म्रियते ह्य् उपशान्ते ऽ ग्नौ युक्ते चोष्मणि जीवति ।
तस्मात् प्राणायुषी विद्यादग्निमूले शरीरिणाम् ॥

6.11.3

सो ऽ ग्निस्समुचितं भुक्तं रसाय वितनोत्यधः ।
तेनेन्द्रियबलं पुष्टिं वर्णञ् च लभते नरः ॥

6.11.4

चतुर्विधं पचत्यग्निः समं तीक्ष्णं तथा मृदु ।
विषमं चेति तेषां तु यः समो ऽ ग्निः स शस्यते ॥

6.11.5

भजतां गुरु रूक्षं च दिवास्वप्नं च नित्य् अशः ।
रात्रौ न वा संस्वपतां तथा वेगविधारिणाम् ॥

6.11.6

अध्यश्नतामजीर्णे ऽ न्ने ह्य् अतिस्नेहे विरेकिणाम् ।
ज्वरान्मद्यप्रसङ्गाच् च तथा ऽ सात्म्यनिषेवणात् ॥

6.11.7

मधुरक्षीरनित्य् आनां तथा जलविहारिणाम् ।
पिष्टान्नदधिशाकानामहृद्यानां निषेवणात् ॥

6.11.8

ईदृशैर्ग्रहणी जन्तोर्दूष्यते ऽ ति निषेवितैः ।
मन्दा तीक्ष्णातिविषमा त्रिविधं सा प्रकुप्यति ॥

6.11.9

तथा रोगाः प्रवर्तन्ते ग्रहणीदोषजा नृणाम् ।
ज्वरः कासः पाण्डुरोगः श्वयथुः परिकर्तिका ॥

6.11.10

अरुचिश् चाविपाकश् च गुल्मार्शांसि भगन्दरम् ।
अतिसारश् च कुष्ठं च शूलान्यलसको भ्रमः ॥

6.11.11

एतांश् चान्यांश् च जनयेद् रोगानस्यामिताशिनः ।
ग्रहणी दूषिता जन्तोः सामा रोगान्निहन्ति वा ॥

6.11.12

यस्याक्रान्ते हि कायाग्नौ श्लेष्मणा मधुराशिनः ।
न पच्यते ऽ न्नं कालेन स मन्दाग्निरिति स्मृतः ॥

6.11.13

अग्नौ मन्दे कफेनास्य शीघ्रं भुक्तं न पच्यते ।
स भूयो मृदुतां याति गुरुभोजनदूषितः ॥

6.11.14

एवं रूपश् च वृद्धश् च कफे तस्य प्रशाम्यति ।
एवं स विषमो नाम ग्रहणीदोष उच्यते ॥

6.11.15

अग्निस्सोमक्षयाद्यस्य भृशं देहे प्रकुप्यति ।
भुक्तं भुक्तं जरयते न च वर्णबलाय च ॥

6.11.16

भुक्ते भुक्ते क्षुधाप्यस्य जायते न च पुष्यति ।
अत्यग्निरिति तं विद्यात् स च दुःखतमः स्मृतः ॥

6.11.17

इत्य् एष रोगस्त्रिविधः ग्रहणीसंश्रितो मया ।
प्रोक्तस् तस्य चिकित्सां तु विस्तरेण निबोध मे ॥

6.11.18

धान्वन्तरं पिबेत्सर्पिः प्राजापत्यमथापि वा ।
ततो ऽ स्मै वमनं दद्यात् ततश् चोर्ध्वं विरेचनम् ॥

6.11.19

पिप्पलीवर्धमानं वा पिबेत्क्षारागदानपि ।
तक्रं मासं पिबेच् चापि गण्डीरारिष्टम् एव वा ॥

6.11.20

दाधिकं च पिबेत्सर्पिस्तैलं शैरीषम् एव वा ।
महद्यत्पञ्चगव्यं वा । । । । । । ॥ । । । । । । । । । । । । ॥ द्वादशो ऽ ध्यायः ॥ । । । । । । । । । । । । । । । । । । । । । । । ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc