भेलसंहिता · अध्याय 5.12
अवाक्चिता वा जिह्मा वा यस्य छायाल्पिका भावेत् ।
नेत्रे च विषमे स्यातां परेतं तस्य जीवितम् ॥ 5.1
यदि दीनानि पक्ष्माणि न निमीलन्ति देहिनः ।
दह्येते नयने वापि परेतं तस्य जीवितम् ॥
नमन्त्यौ यस्य दृश्येते भ्रुवौ मूर्धनि बा स्थिते ।
जीवेत् तु स त्र्यहं रोगी षण्मासान् व्याधिवर्जितः ॥
लुञ्च्यमानेषु केशेषु वेदयन्नाति वेदनाम् ।
निवृत्तसुख दुःखः स्यात् परेतं तस्य जीवितम् ॥
यस्यातुरस्य पिटका व्यङ्गो वा दृश्यते मुखे ।
अदृष्टपूर्वं प्रथमं परेतं तस्य जीवितम् ॥
शुष्यते नासिकावंशः पृथुत्वं यस्य गच्छति ।
अंसो ऽ निलात् कासवतः परेतं तस्य जीवितम् ॥
अत्युष्णं वातिशीतं वा स्तब्धं वा मृदु वाप्य् अथ ।
मन्यते पाणिपादं च परेतं तस्य जीबितम् ॥
यो ऽ वतीर्य नदीं पूर्णां तोये पश्यति जालकम् ।
गात्रं लिप्तमथाद्भिश् च यस्य नास्तीति तं विदुः ॥
विवर्तयति यः शीर्षमत्यर्थं च नसा नरः ।
न स्विद्यते ललाटं च नास्ति तस्य चिकित्सितम् ॥
ज्वर्यते कासते वापि तथोच्छवसिति वै दृढम् ।
आक्रम्यते ताम्यते च यथा प्रेतस् तथैव सः ॥
यस्योदरं समाध्मातं तद्वर्त्म च विभाव्यते ।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस् तथैव सः ॥
अनारतं गृहे यस्य कांस्यं भिद्येत देहिनः ।
चन्द्रस्तीक्ष्णो मृदुश्चार्को यस्य स्यात् तं विवर्जयेत् ॥
अप्रधातुः प्रधातुर्वा स्वस्थो वा यदि वाआतुरः ।
यश्चन्दनमिवावाति न स जीवति तादृशः ॥
यूथिकोत्पन्नगण्डश्च, वाति यश् चापि वर्त्मवत् ।
अभक्तः तसिमं बाल्ये यो वाति न स जीवति ॥
द्विषद्भिः कुरुते सख्यं यः प्रियैर्यात् इ विप्रियम् ।
अकस्मात्कुप्यते यस् तु परेतं तस्य जीवितम् ॥
एभिर् एवंविधैर्लिङ्गैरन्यैश् चापि यथायथम् ।
नोपक्रमेत मेधावी भिषगन्वितमातुरम् ॥
एतद्भिषगरिष्टानां यो ज्ञानमनुबुध्यते ।
यथोक्तं वेद वेदायुः स भिषक् शास्त्रकोविदः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये द्वादशो ऽ ध्यायः ॥ इति भेलसंहितायाम् इन्द्रियस्थानं समाप्तम् ॥ ।
।चिकित्सास्थानम् ॥ ॥ प्रथमो ऽ ध्यायः ॥ अथात एकादशसर्पिष्कं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0