भेलसंहिता · अध्याय 5.9
चूर्णं शिरसि यस्यैव शुष्कगोमयसन्निभम् ।
स्नेहिनो दृश्यते जन्तोर्मासाद्देहं जहाति सः ॥
कृशस्य कफरोगेण यस्य श्लेष्मपरिक्षयः ।
कर्णौ रक्तौ मुखं चैव द्वौ मासौ नातिवर्तते ॥
यस्य लोहितकाभासमम्बु तालुनि दृश्यते ।
क्षीणलोहितमांसस्य स मासं नातिवर्तते ॥
अरुन्धतीं न पश्येत् तु स्थितां सप्तर्षिसंसदि ।
स मासादष्टमान्मर्त्यः क्षिप्रं प्राणैर्विमुच्यते ॥
अणुकाभिश् च कृष्णाभिर् आस्यं जिह्वा च तालुके ।
सर्वतस्समनुच्छिन्नं न स जीवति तादृशः ॥
शीर्षाभितापिनो यस्य श्लेष्मरोगवतस् तथा ।
हिक्का विनिष्यन्दते वै नायमस्तीति निर्दिशेत् ॥
यस्य लोमानि केशाश् च प्लुष्यन्तीव शरीरिणः ।
संहृष्टानीव वा देही न स जीवति तादृशः ॥
यस्य कालान्तरे दन्ता दृश्यन्ते रक्तसन्निभाः ।
निष्प्रभाश् चानुलिप्ता वा न स जीवति तादृशः ॥
क्षारेण विधृतं गात्रं दृश्यते यस्य देहिनः ।
सममुष्णे च शीते च न स जीवति तादृशः ॥
गात्रेषु खरवर्णेषु यस्य वारिलवप्लवः ।
अनभ्यक्तेषु गात्रेषु न स जीवति तादृशः ॥
शूलमङ्गे भवेद्यस्य स्फुटितं रक्तमास्रवेत् ।
अधो गोलकसंकाशं परेतं तस्य जीवितम् ॥
आपाण्डु मधुमेहे तु यश् च मेहति मानवः ।
अभ्यन्तरेण पञ्चाहात्स पञ्चत्वं हि गच्छति ॥
अरतिश् चाविपाकश् च कार्श्यदौर्बल्यम् एव च ।
यस्य संदृश्यते जन्तोर्न स जीवति तादृशः ॥
यस् तु दीनमनाथो वा बलेन परिहीयते ।
भिद्यामारोगमाप्नोति यथा प्रेतस् तथैव सः ॥
अनुवृत्तौ यथा जन्तुः पित्तेन परिमूर्च्छितः ।
संमूढवाक्यो भवति यथा प्रेतस् तथैव सः ॥
यस् त्व् आसने ऽ थ शयने रतिं न लभते नरः ।
स शीघ्रं कुरुते कालं यश् च साश्रूणि खादति ॥
आरुह्य वानरं यस् तु संकल्पं नावबुध्यते ।
तम् आहुः परलोकाय स्वप्ने तु कुशला नराः ॥
परिसंवत्सराद्यस्य ज्वरो नापैति देहिनः ।
उष्णो वा यदि वा शीतो यथा प्रेतस् तथैव सः ॥
यस्य जातप्रमेहस्य पिटका पाण्डुरा भवेत् ।
सोपद्रवा शतपदा यथा प्रेतस् तथैव सः ॥
यस्योर् ध्वं क्रमते वायुः श्रोत्रं वाधः प्रवर्तते ।
सर्वाणि च प्रभिद्यन्ते यथा प्रेतस् तथैव सः ॥
इत्य् एतैर्लक्षणैर्युक्तं भिषक् दृष्ट्वैव मानवम् ।
नोपक्रमेत्तथा वीर रक्षन्नात्मयशः स्फुटम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये नवमो ऽ ध्यायः ॥ ॥ दशमो ऽ ध्यायः ॥ अथातश्छायाध्यायं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0