भेलसंहिता · अध्याय 5.8
तृणान्नखान्वा छिन्दन् वै भिषजं परिपृच्छति ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
विप्लुतं भाषमाणश् च भिषजं परिपृच्छति ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
भिनत्ति काष्ठं काष्ठेन लोष्टं लोष्ठेन वाप्य् अधः ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
स्पृशन्नङ्गानि बालांश् च भिषजं परिपृच्छति ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
पिधाय पाणिना नाभिं भिषजं परिपृच्छति ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
कपालिकां शर्करां वा भिनत्त्यङ्गारिकाम् अपि ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
आस्ते भूमौ परिश्रान्तो गृह्णात्यङ्गमथ भ्रमन् ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
इत्य् आतुरस्य हि यदा वदेद्दूतो न सो ऽ स्ति वै ॥
करं करेण गृह्णाति पाणिना ताडयेत्करम् ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
खादेदोष्ठौ च जिह्वां च नखान् दन्तैश् च कल्पयेत् ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
आतुरस्य यदा गेहे वैद्ये वै पर्युपस्थिते ।
छिद्यते भिद्यते चैव प्रत्याख्येयस्तथाविधः ॥
परावर्त्य घटं पूर्णं ब्राह्मणं परिपृच्छति ।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः ॥
गृध्रः सृगालः काकश् चाप्य् उलूको वायसस् तथा ।
नदेयुर्दक्षिणे पार्श्वे रोगिणो यस्य नास्ति सः ॥
कषायवस्त्रो मुण्डो वा जटिलो वाथ नग्नकः ।
चर्मभिर् वा परिवृतो, महानस्येव शाटिकः ॥
तैलाभ्यक्तश्छिन्ननासो वाग्मी चोन्मत्त एव वा ।
भग्नौष्ठः खरवाटो वा न दूतः सम्प्रशस्यते ॥
इति दूतसमाचारो व्याधितानां प्रकीर्तितः ।
य एवं वेद निपुणं सिद्धिकामः स वै भिषक् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये अष्टमो ऽ ध्यायः ॥ ॥ नवमो ऽ ध्यायः ॥ अथातो गोमयचूर्णं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0