भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.10

5.10.1

अनुच्छायाथवा जन्तोर्दृढच्छायाथवा पुनः ।
विच्छिन्ना यस्य वा छाया न स जीवति तादृशः ॥

5.10.2

यो विद्युतमिवाकाशे व्यभ्रे पश्यति मानवः ।
धूमायते शिरश्छाया यस्य नास्तीति तं विदुः ॥

5.10.3

लाक्षारक्तं यथा वस्त्रमेवं पश्यति यो महीम् ।
अथवा रक्तमाकाशं रक्तपित्तेन हन्यते ॥

5.10.4

यो हृष्टरोमा पुरुषः कासेन श्लेष्मणाचितः ।
कण्ठश् च शूकानुगतो यस्य नास्तीति तं विदुः ॥

5.10.5

यस्य शङ्खाच्च्युतं मांसं श्यावे नेत्रे तथैव च ।
चूर्णकश् च मुखे जातः परेतं तस्य जीवितम् ॥

5.10.6

यस्य हस्ताच्च्युतं मांसं जन्तोर्दृश्येत कुष्ठिनः ।
अथाविप्रयुक्तस्य न स जीवति मानवः ॥

5.10.7

अविपक्वं विपक्वं वा भुक्तं भुक्तं यथा भवेत् ।
काशश्वासज्वरैः स्पृष्टो नास्ति तस्य चिकित्सितम् ॥

5.10.8

हृदयं पूर्वमावाति यस्य स्नातस्य देहिनः ।
अर्धमासात्परं तस्य जीवितं नातिवर्तते ॥

5.10.9

ऊर्ध्वश्वासहतो यस् तु रक्तं प्रच्छर्दयेन् नरः ।
शूलं वा भिन्नकोष्ठस्य न स जीवति मानवः ॥

5.10.10

अन्तर्दाहो ऽ धिको यस्य शीतार्तिश् चापि बाह्यतः ।
आकाशं परिपूर्णं वा वेत्ति यो न स जीवति ॥

5.10.11

यस्य पक्वावुभावोष्ठौ नीलौ जम्बूफलोपमौ ।
उच्छूनं यस्य च शिरः परेतं तस्य जीवितम् ॥

5.10.12

यस्योच्छूनं भवेन्मध्यमुभावंसौ कृशौ तथा ।
विरिक्तः पुनराध्माति यथा प्रेतस् तथैव सः ॥

5.10.13

एतदिन्द्रियविज्ञानं यस्सम्यगनुपश्यति ।
स जीवितं च मृत्युं च नृणां विद्याद्भिषग्वरः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये दशमो ऽ ध्यायः ॥ ॥ एकदशो ऽ ध्यायः ॥ अथातः पुष्पीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc