भेलसंहिता · अध्याय 5.7
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषतः ।
आयुःप्रमाणं जिज्ञासुर्भिषक् तन्मे निबोधत ॥
अन्नपानात्परीक्षेत दर्शनाद्यैश् च तत्त्वतः ।
अर्थादिविहितं ज्ञानमिन्द्रियाणामतीन्द्रियम् ॥
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् ।
अलक्षितं निमित्तेन लक्षणं मरणे हि तत् ॥
इत्य् उक्तं लक्षणं सम्यगिन्द्रियेष्व् अशुभोदयम् ।
तद् एव तु पुनर्भूयो विस्तरेण निबोध मे ॥
घनीभूतमिवाकाशं पश्यंस्तमिव मेदिनीम् ।
विगीतं ह्युभयं ह्येतत्पश्यन्मरणमृच्छति ॥
यस्य दर्शनम् आयाति मारुतो ऽ म्बरगोचरः ।
अग्निर्नायाति वा दीप्तः तस्यापि क्षयम् आदिशेत् ॥
जले ऽ पि निर्मले जालमजालं मनुते नरः ।
स्थिरे गच्छति वा दृष्ट्वा जीवितात्परिहीयते ॥
जाग्रत्पश्यति यः प्रेतान् रक्षांसि विविधानि च ।
अन्यद्वाप्यद्भुतं किंचिन्न स जीवति तादृशः ॥
यो ऽ ग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् ।
कृष्णं वा यदि वा शुक्लं न स जीवति मानवः ॥
मरीचीनसतो मेघे मेघान्वाप्यमलाम्बरे ।
विद्युतो वा विना मेघान्न स जीवति मानवः ॥
मृण्मयीमिव वा पात्रीं कृष्णां वापि पुरीषिताम् ।
आदित्य् अमर्धचन्द्रं वा क्षिप्रं दृष्ट्वा विनश्यति ॥
नक्तं सूर्यमहश्चन्द्रमवह्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं दृष्ट्वा रात्रौ, मरणमादिशेत् ॥
प्रभावतः प्रभां हीनां निष्प्रभान्वा प्रभावतः ।
नरान् विलिङ्गान् पश्यन्ति भावान् भावजिघांसवः ॥
व्याकृतीनि च वर्णानि विसंख्योपचितानि च ।
निमित्तानि च पश्यन्ति रूपाण्यायुःपरिक्षयात् ॥
यस् तु पश्यत्यदृश्यं वा दृश्यं यस् तु न पश्यति ।
तावुभौ गच्छतः क्षिप्रं यमक्षयमसंशयम् ॥
अशब्दस्य च यः श्रोता शब्दं यश् च न विन्दति ।
द्वावप्य् एतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥
विपर्ययेण यो विद्याद् गन्धानां चैव नाम तम् ।
न वा तत् सर्वतो विद्याद् विद्यात् तं वै गतायुषम् ॥
यो रसं न विजानाति विपक्वं वा च तत्त्वतः ।
अपक्वं दृश्यते, पक्वं तम् आहुः कुशला नराः ॥
उष्णान् शीतान् खरान् श्लक्ष्णान् मृदूनपि च दारुणान् ।
स्पृश्यान् स्पृष्ट्वा ततो ऽ न्यच् च मुमूर्षुस्तेषु मन्यते ॥
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ।
इन्द्रियैरधिकं पश्यन् पञ्चत्वम् उपपद्यते ॥
इन्द्रियाणामृते दृष्टेरिन्द्रियार्थान्नदोषजान् ।
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति ॥
स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम् ।
पश्यन्ति ये तु बहुशः तेषां मरणमादिशेत् ॥
एतद् एव च विज्ञानं यस्सम्यगनुपश्यति ।
मरणं जीवितं चैव स भिषग् ज्ञातुमर्हति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये सप्तमो ऽ ध्यायः ॥ ॥ अष्टमो ऽ ध्यायः ॥ अथातो दूताध्यायं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0