भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.6

5.6.1

अन्तर्लोहितकायस् तु बहिः पाण्डुः प्रकाशते ।
पूर्वरूपं तदाचष्टे मानवस्य मुमूर्षतः ॥

5.6.2

बहिर्लोहितकायस् तु पाण्डुरन्तः प्रकाशते ।
पूर्वरूपमनुप्राप्तः स मृत्योर् उच्यते नरः ॥

5.6.3

अन्तर्ग्लानो बहिः पीनो बहिराध्मात एव च ।
यश् चात्यन्तसमाध्मातः सर्वे ऽ प्येते परासुकाः ॥

5.6.4

अभीक्ष्णं ज्वर्यते यस् तु निवातमभिनन्दति ।
अनुषक्तप्रतिश्यायः क्षिप्रं श्वासेन हन्यते ॥

5.6.5

निनादी वा प्रलापी वा हसत्यत्यर्थम् एव च ।
उन्मादेन कृशो जन्तुः पञ्चत्वम् उपगच्छति ॥

5.6.6

घनं सशूलं यो वेद सदाहं हृदयं नरः ।
हृद्रोगेण कृशो जन्तुर्विनाशम् उपगच्छति ॥

5.6.7

प्रस्विद्यते च कण्डूमान् यो विरुद्धं च सेवते ।
अविरेचनशीलश् च कुष्ठेन स विनश्यति ॥

5.6.8

सुकुमारश् च यो जन्तुः स्नेहं मांसं च सेवते ।
दिवा स्वपिति चाभीक्ष्णं स प्रमेही विनश्यति ॥

5.6.9

परिशूनश् च यो जन्तुः स्वेदे च परुषच्छविः ।
भिन्नं यश्चोपविशति सो ऽ तिसारेण हन्यते ॥

5.6.10

यस्याग्निश् च बलं चैव नाल्पं भवति देहिनः ।
क्षीणलोहितमांसस्य यथा प्रेतस् तथैव सः ॥

5.6.11

सद्यो रक्तं शिरो यस्य पीतकं वा प्रदृश्यते ।
कपिलं प्लुष्टकेशं वा यथा प्रेतस् तथैव सः ॥

5.6.12

यस्य नेत्रे ललाटं च मुखं नासां भ्रुवौ तथा ।
जिह्मानि कुरुते वायुर्यथा प्रेतस् तथैव सः ॥

5.6.13

श्यावा कण्टकिनी जिह्वा यस्य शुष्का प्रदृश्यते ।
श्यावे नेत्रे नखाश् चापि यथा प्रेतस् तथैव सः ॥

5.6.14

यस्य निर्भिद्यते कण्ठः ताम्यत्युच्चैश्शरीरिणः ।
बहिरायामभाजस्तं प्रत्याचक्षीत पण्डितः ॥

5.6.15

यस्योर् ध्वकाये बलवान् नवो रोगस् तु दुष्क्रियः ।
पूर्वरूपं तथा वाच्यं मानवस्य मरिष्यतः ॥

5.6.16

यस्य चुच्छुन्दरीगन्धः पुरुषस्य भवत्यथ ।
सौवर्णानपि वृक्षांश् च यो वेद स विनश्यति ॥

5.6.17

इत्य् एभिर् ईदृशैश् चान्यैर्विकारैर्वर्णितं नरः ।
नोपक्रमेत मेधावी य इच्छेदात्मनः सुखम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ॥ अथात इन्द्रियाणीकमिन्द्रियं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc