भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.5

5.5.1

यस्य श्यावे उमे नेत्रे दृश्येते हरिते तथा ।
उत्पन्नश् च शिरोरोगः फलितं तस्य जीवितम् ॥

5.5.2

हरिताश् च सिरा यस्य रोमकूपाश् च लोहिताः ।
भुङ्क्ते वान्नानि साम्लानि तत्रैव स विनश्यति ॥

5.5.3

यस्योर् ध्ववातः कोपेन जन्तोरामाशयं गतः ।
हृदयं परिगृह्णाति परेतं तस्य जीवितम् ॥

5.5.4

गात्रे च पाणिपादे च यस्य शुष्यति शोणितम् ।
मुहुर्मुहुर्नृत्यति च परेतं तस्य जीवितम् ॥

5.5.5

वृषणौ पाणिपादौ च यस्य शुष्कं मुखं तथा ।
छविश् च शोषम् आयाति परेतं तस्य जीवितम् ॥

5.5.6

हनू हस्तौ च पादौ च वृषणौ लिङ्गम् एव च ।
दृश्यते देहिनो यस्य परेतं तस्य जीवितम् ॥

5.5.7

हृदयं दह्यते यस्य मुमूर्षुं तं समादिशेत् ।
आतुरस् तु स यातो वै परेतं तस्य जीवितम् ॥

5.5.8

अपस्मारः क्षयः कुष्ठं रक्तपित्तमथोदरम् ।
गुल्मश् च मधुमेहश् च दीर्घरोगा भवन्ति ते ॥

5.5.9

बलमांसक्षयो यस्य देहिनो दीर्घरोगिणः ।
दृश्येत स्वरहानिश् च परेतं तस्य जीवितम् ॥

5.5.10

हृदयं दह्यते यस्य कोष्ठे शूलं स्वरक्षयः ।
अभीक्ष्णं दह्यते चापि परेतं तस्य जीवितम् ॥

5.5.11

त्रासाभितापा जन्तूनां कोष्ठे शूलाश्चरन्ति च ।
हिक्काच्छर्दिपरीतश् च परेतं तस्य जीवितम् ॥

5.5.12

वापितं ज्वलितं मर्त्यः, सलिलं हि हुताशनम् ।
भास्करं मन्यते सोमं दुर्लभं तस्य जीवितम् ॥

5.5.13

यश् चापि विमले सूर्ये मेघान् पश्यति सर्वशः ।
दुर्दिनं सुदिनं चापि परेतं तस्य जीवितम् ॥

5.5.14

यं रसा नावतिष्ठन्ते भेषजं चेन्द्रियाणि तु ।
यस्य वा विपरीतानि न च जीवति तादृशः ॥

5.5.15

वानस्पत्यफलं मूलं रोगस्पृष्टस्य यस्य वै ।
भैषज्यार्थं न दृश्येत न च जीवति तादृशः ॥

5.5.16

इत्य् एतानि भिषग् दृष्ट्वा लक्षणानि मुमूर्षताम् ।
न चिकित्सां प्रयुञ्जीत यशोमार्गप्रतीक्षया ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये पञ्चमो ऽ ध्यायः ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथातः पूर्वरूपीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc