भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.4

5.4.1

यदातुरस्य हृदयं वायुः संगृह्य तिष्ठति ।
धमनीस्संपरीपीड्य सद्यो जह्यात् स जीवितम् ।

5.4.2

आतुरस्य यदा वायुः शरीरमनुपद्यते ।
उत्ताने नेत्रनिष्यन्दः सद्यो जह्यात् स जीवितम् ॥

5.4.3

यस्य कोष्ठगतो वायुरुपावृत्तश्शरीरिणः ।
क्षीणलोहितमांसस्य सद्यो जह्यात् स जीवितम् ॥

5.4.4

यस्यातुरस्येह वाताद् वाताष्ठीला विवर्धते ।
न संसरति चान्यत्र सद्यः प्राणान् जहाति सः ॥

5.4.5

यस्योभे पिण्डिके स्तब्धे नासा जिह्मा च लक्ष्यते ।
व्यावृत्ते चाक्षिणी यस्य सद्यः प्राणान् जहाति सः ॥

5.4.6

आमाशयसमुत्थाना यस्यैव परिकर्तिका ।
तृष्णा च तीव्ररागश् च सद्यः प्राणान् जहाति सः ॥

5.4.7

पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका ।
तृष्णा गलग्रहश्चोग्रः सद्यो जह्यात् स जीवितम् ॥

5.4.8

शोणितं रोमकूपेभ्यो यस्य क्षरति देहिनः ।
अतीव मुखतो भेदि सद्यो जह्यात् स जीवितम् ॥

5.4.9

हृदयस्य तु संघातं परिक्षीणस्य देहिनः ।
अत्यर्थं पीडयेच्छूलं सद्यः प्राणान् जहाति सः ॥

5.4.10

यस्य क्षीणशरीरस्य संज्ञां हरति मारुतः ।
व्याहन्ति च महास्रोतः सद्यः प्राणान् जहाति सः ॥

5.4.11

हृदयस्य तु संघातं परिक्षीणस्य देहिनः ।
एतैर् एव ंविधैर्लिङ्गैरन्यैश् चापि तथाविधैः ॥ प्रकृतेर्विकृतिं प्राप्तं परीक्षेतातुरं भिषक् ।
इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातो यस्यश्यावीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc