भेलसंहिता · अध्याय 5.3
इयं मे शिष्टशिबिका वैडूर्यमणियन्त्रिता ।
एवं प्रलापयेच्चार्तो गतायुरिति तं विदुः ॥
प्रज्वलत्य् अपि यो दीपे तम एवाभिपश्यति ।
( शब्दान्विप्रतिबुध्येत चापूर्वानिव नास्ति सः) ॥
आवाक्शिराः प्रलम्बामि नाम मा परिवर्तय ।
मनुजः प्रलपन्नेवं सप्ताहं नातिवर्तते ॥
मर्माणि दलितानीव यो ऽ भीक्ष्णं चातिसार्यते ।
प्रवाहमाणो दुर्गन्धि कुणपं पूतिकं तथा ॥
तच् च लोहितगन्धं वाप्य् अथवा मत्स्यगन्धिकम् ।
कृष्णं नीलं विवर्णं वा मुमूर्षुश् च स होच्यते ॥
मधुमेही वसामेही सर्पिर्मेही च यो नरः ।
बहुमेही च यो जन्तुः स वै प्रोक्तः परासुकः ॥
प्रमेहेत यदा जन्तुर्बिन्दुं बिन्दुं सवेदनम् ।
वायुना भिन्नवस्तिः स्याद् दुर्लभं तस्य जीवितम् ॥
क्रिमयो बहवो यस्य निस्सरन्ति शरीरिणः ।
आतुरस्य शयानस्य नौषधं तस्य सिध्यति ॥
इत्य् एतानि भिषक् दृष्ट्वा लक्षणानि मुमूर्षताम् ।
न चिकित्सां प्रयुञ्जीत यथामार्गं चिकीर्षकः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये तृतीयो ऽ ध्यायः ॥ ॥ चतुर्थो ऽ ध्यायः ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0