भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.11

5.11.1

शिरस्यङ्गे रक्तवर्णं यो ऽ निलं वापि पश्यति ।
घटिकामेकवर्णं वा स पुष्पित इहोच्यते ॥

5.11.2

अष्टापदं वा सुकृतं जगतीं यः प्रपश्यति ।
स दृष्टिपरिहीनत्वात् पुष्पितः प्रोच्यते नरः ॥

5.11.3

सुप्तश् च संवृते गेहे पश्यत्याकाशम् एव यः ।
रोमन्थयति दन्तैश् च स पुष्पित इहोच्यते ॥

5.11.4

दीप्यमानमिवाकाशं पृथिवीं च वनानि च ।
यो वेत्ति रोमसंहृष्टः पुष्पितः स इहोच्यते ॥

5.11.5

अनुल्लिप्तो यथा देही वाति चेत्कुणपं यथा ।
सेवन्ते मक्षिकाश् चैव पुष्पितः स इहोच्यते ॥

5.11.6

अविज्ञाता नरं नारी स्वप्न एव निवासिनी ।
दक्षिणां दिशमेहीति यं ब्रूयान्न स जीवति ॥

5.11.7

प्रकीर्णकेशो विकरः स्वप्ने यो दक्षिणां दिशम् ।
प्रतिपद्येत तत्रैव न स जीवति तादृशः ॥

5.11.8

कुशैर् इव निरूढाङ्गमात्मानं स्वप्न ईक्षते ।
खं वा सधूमं यो वेत्ति न स जीवति तादृशः ॥

5.11.9

यः स्वप्ने वृक्षमारुह्य न रोगी त्रायते गृहे ।
प्रकीर्णकेशो विकचः यो ऽ ग्निमारुह्य रोदिति ॥

5.11.10

प्रासादमेकस्थूणं तु स्वप्ने यश् चाधिरोहति ।
नरो नृत्यति पङ्के वा स पुमान्न च जीवति ॥

5.11.11

स्वप्ने प्रासादमारुह्य महान्तं काञ्चनं तथा ।
यो नृत्तगीतपानान्नी न स जीवति मानवः ॥

5.11.12

गजेनोष्ट्रेण वा गच्छन् यः पश्येद्दक्षिणां दिशम् ।
जीवेत् तु रोगी सप्ताहं, नीरोगः शरदां शतम् ॥

5.11.13

याति यो दुर्दिने वापि स्वप्ने वा दक्षिणां दिशम् ।
प्रतिबुध्येत तत्रैव न स जीवति तादृशः ॥

5.11.14

भासैर्बर्हिवराहैश् च श्वभिर् महिषवाजिभिः ।
समं यो तद्दिवा योने स्वप्ने योगफलं भवेत् ॥

5.11.15

यदा गण्डं च खड्गं च स्वप्ने चाश्नंश् च पश्यति ।
प्रकीर्णकेशम् अपि च न स जीवति तादृशः ॥

5.11.16

यः स्वप्ने पुरुषः कालं पीतं वा वस्त्रमृच्छति ।
गायन्नचेष्टयन्वापि न स जीवति तादृशः ॥

5.11.17

यः स्वप्ने वीतकामो ऽ पि पीतां पिबति वारुणीम् ।
चित्रकण्ठगुणो वापि न स जीवति तादृशः ॥

5.11.18

आकुलापां नदीं स्वप्ने योवगाहेत मानवः ।
जीवेत्सरोगस्सप्ताहं, नीरोगस्शरदां शतम् ॥

5.11.19

स्वप्ने स्नातानुलिप्तस्य भ्रंशेद्यस्य तु वर्णकः ।
गात्रस्य पुरुषस्येह स शस्त्रेण विनश्यति ॥

5.11.20

एतदिन्द्रियविज्ञानं यस्सम्यगनुपश्यति ।
जीवितं चैव मृत्युं च नृणां विद्याद्विचक्षणः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये एकादशो ऽ ध्यायः ॥ ॥ द्वादशो ऽ ध्यायः ॥ अथातो अवाक्चितीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc