भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 5.1

5.1.0

।----------------द्वे वा जात एव विनश्यति ।

5.1.1

ह्रस्वैकपक्षो विततो यस् तु गर्भस् तु सुस्वरः ।
मासमेकं तु जीवित्वा विनाशायोपपद्यते ॥

5.1.2

पिण्डीशिरा दीर्घहनुरनल्पे संहते भ्रुवौ ।
द्वितीये मासि संप्राप्ते म्रियते गर्भ ईदृशः ॥

5.1.3

जातमात्रस्य गर्भस्य व्यञ्जनं यत्र दृश्यते ।
तृतीये मासि संप्राप्ते म्रियते गर्भ ईदृशः ॥

5.1.4

त्रिकेकरो घटशिरा यस् तु गर्भस् तु सुस्वरः ।
चतुर्थे मासि संप्राप्ते विनाशम् उपगच्छति ॥

5.1.5

यस्य षोडशवर्शस्य व्यञ्जनं तूपजायते ।
शीघ्रं च पञ्चधातुत्वाद् अल्पायुरिह दृश्यते ॥

5.1.6

यस्य विंशतिवर्षस्य व्यञ्जनं तूपजायते ।
स दीर्घमायुराप्नोति पुरुषो नात्र संशयः ॥

5.1.7

शरीरापचयो ऽ बुद्धिरपथ्यानि बलं तथा ।
बालस्य यस्य दृश्यन्ते तं गतायुषमादिशेत् ॥

5.1.8

यस्य जातस्य जायेते गुल्मकास्तुनकौ तथा ।
अष्टाविंशे गते वर्षे सर्वं तं हन्ति मानवम् ॥

5.1.9

पृष्ठे चोरसि चावर्तस्सव्यथो यस् तु दृश्यते ।
चत्वारिंशे गते वर्षे मरणायोपकल्पते ॥

5.1.10

आवर्तो यश् च पृष्ठे तु सन्नतस्त्रिषु दृश्यते ।
फलमस्य तु विज्ञेयं स्थापनं न प्रसूयते ॥

5.1.11

स्थूलास्थूलाङ्गुली पाणी नखा यस्यापि लोहिताः ।
कल्याणदेशप्रत्यङ्गः पञ्चाशद्वर्ष एव च ॥

5.1.12

व्यूठोरस्को दीर्घभुजः स्थूलजानुश् च यो भवेत् ।
दीर्घाङ्गुलिर्दीर्घनखः षष्टि वर्षाणि जीवति ॥

5.1.13

उत्पीडितस्वरं वापि तुङ्गनासकचोन्मुखम् ।
ऊरुकं भद्रसम्पन्नं विद्यात् सप्ततिकं नरः ॥

5.1.14

भद्रं पुरश् च पश् चाच् च ऋजुकं प्रियवादिनम् ।
अशीतिकं नरं विद्यात् कृष्णात्रेयवचो यथा ॥

5.1.15

ललाटं नासिका कर्णौ यस्यैतानि पृथक् पृथक् ।
षडङ्गुलप्रमाणानि स जीवति शतं समाः ॥

5.1.16

यस्याकुञ्चितम् एव स्याज्जानुभ्यां समितं शिरः ।
ऊर्ध्वजानुगतौ कर्णौ पौत्रं पश्यत्ययं नरः ॥

5.1.17

महान्तौ विपुलौ कर्णौ भवेतां रोमशौ तथा ।
स्निग्धौ बहुलकेशश् च स चेह शतमृच्छति ॥

5.1.18

धर्मेण सत्यवाक्येन गुरुशुश्रूषणेन च ।
रसायनोपयोगाच् च स दीर्घमनुजीवति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले इन्द्रिये प्रथमो ऽ ध्यायः ॥ ॥ द्वितीयो ऽ ध्यायः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc