भेलसंहिता · अध्याय 5.2
मुखं नेत्रे शरीरं च पाणिपादं तथैव च ।
सरक्तं दृश्यते यस्य स वै स्वस्थो भविष्यति ॥ 5।
यस्य केशाः प्रमुच्यन्ते शीर्णमूलाः शरीरिणः ।
यस्यैतानि तु रूपाणि स वै स्वस्थो भविष्यति ॥
नास्य दन्ताः प्रहृष्यन्ति मुखं च न विलुप्यति ।
नाबद्धं भाषते चापि स वै स्वस्थो भविष्यति ॥
न विक्षिपति गात्राणि स्वरो ऽ स्य न विवर्तते ।
वस्त्रेण गूहते गुह्यं स वै स्वस्थो भविष्यति ॥
न भवत्युन्नतो नाभिर् यथावस्थो ऽ भितिष्ठति ।
सुखं श्वसिति रात्रौ च स वै स्वस्थो भविष्यति ॥
न नखाः कर्कशाभासा न श्यावा न च निष्प्रभाः ।
प्रसन्नास्सुप्रभाश् चैव स वै स्वस्थो भविष्यति ॥ भ्ष्5.2.8 ।
आतपाधिष्ठितो यस् तु न ।.. प्रकाशचे ।
न च लोहितसंयु ॥ तृतीयो ऽ ध्यायः ॥ भ्ष्5.3. ।
।...धितस्वप्ने तां रात्रिं नातिवर्तते ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0