भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 4.8

4.8.1

इह खलु भोः याः स्त्रियः पथ्यलघुभोजिन्यो ऽ नुदावर्तनशीला अप्रदुष्टा यथागर्भाशयाः सुविशुद्धस्रोतसो भवन्ति, ता आचक्षते अवन्ध्याः इति कुशलाः ।
ता इष्टरूपं मेधावि चापत्यं जनयन्ति, विपर्यये विपर्ययः ॥

4.8.2

ऋतौ च गर्भो ऽ वतिष्ठते ।
तद् यथा---सुकृष्टक्षेत्रे बीजं प्रक्षिप्तं तत्र व्रीहिः व्रीहित्वाय कल्पते, यवो यवत्वाय एवम् एव[ प्रिय] इन्द्रियमृतुकाले विसृष्टमदुष्टायां[ -मामट्ट] योनौ गर्भाशयम् उपगच्छति ।
तद् यथा[ तद् यथाय]---आवर्तगृहीताः प्रतीपं प्रतिधावन्ति तद्वत् शुक्लशोणितं गर्भाशये[ गर्भाशय अस्तिकं] आसिक्तं क्षीरमिव ।
तच्चानेककनकमिव[ तं चानेकनकमिवो]-उदुम्बरेण निषिक्तमेकत्वमापन्नमृद्धिं लभते ॥

4.8.3

सा चेद् एवमाकाङ्क्षेतौद्वाहिके[ एवया कांक्षा-] शिवावदातपुत्रं जनयेयम्[ जनयन्ति] इति, यवानां मन्थं[ मन्दं] सर्पिस्सम्युक्तं सप्तरात्रमनुपहतं भुञ्जीत ।
ततो दौहृदिनी[ दौहृत्द्वि] श्वेताया गोः सरूपवत्सायाः पयसि पायसं पाचयित्वा तदेवाश्नीयात् [ -अत्मीयात्] ।
शुक्ले च वाससी परिदध्यात् [ परिरभ्यात्] ।
सर्वश्वेतं चास्याः संस्कृतं विमानं कारयेत् ।
वृषभमश्वं[ वृषभगग] वास्या दर्शयेत् ।
एवमवदातं पुत्रं जनयेत् ।
नेत्याह शौनकः ।
पैङ्गल्यं वा ततो ऽ प्यत्रेति ।
आत्रेय उवाच किं स्यादावाधकम्, पिङ्गलावयवया आयुष्मन्तो नीरोगाश् च भवन्तीति ॥

4.8.4

सा चेदेवम्[ इति हा] आशासीत[ आसित] श्यामं लोहिताक्षं पुत्रं जनयेयम्[ जन येत्रे यावत् द्वितीये मासपुष्पं पश्येत् यमिति] इति एषामेव[ एषाम] यवानां मन्थं[ मन्दं] कारयेत् लोहितकुक्कुटरक्तेन सप्तरात्रं रक्तशालीनामोदनमनुपहतं भुञ्जीत ।
दौहृदे सा ताम्रेण च वाससा परिदध्यात् ।
ताम्रे चास्याः शयनासने दद्याद् रक्तवृषमश्वं[ -वृषमदं] वास्या दर्शयेत् ।
एवं श्यामं लोहिताक्षं पुत्रं जनयति ॥

4.8.5

या[ यावद्] वि द्वितीयमासि पुष्पं पश्येन्न वास्या[ व] गर्भस्तिष्ठतीति विद्यादजात सारा[ ना] हि तदा गर्भवत्यो भवन्ति ।
यस्यास्तु[ तस्यास्तु] खलु योनिः[ योनि] जातसारे पुष्पम् आस्रवति[ आश्रय] तस्याः पतति वाप्यतिकालं[ वापित्य् अ-] वा ऽ वतिष्ठते गभः परिशुष्कगात्र इति ॥

4.8.6

चतुर्थे खलु मासे प्रतिविहिते क्षीरे नवनीतं प्राश्नीयात् ।
पञ्चमे क्षीरयवागूः, षष्ठे क्षीरसर्पिः, सप्तमे दध्युदश्वित्, अष्टमे क्षीरसर्पिः, नवमे तु खलु मासे प्रतिविहिते मधुरौषधसिद्धेन[ कदम्बमाष्टेराघतैतानुवास] तैलेनानुवासः ॥

4.8.7

एवं ह्य् अस्याः प्रतिमासं[ प्रतिसंवर्तमानाया यच्छतन्मतं] वर्तमानायाः कुक्षीकटीपार्श्वपृष्ठं मृदूभवति जीर्णपुरीषं चाधः त्रवेत्सुखं च प्रजायते ॥

4.8.8

सप्तमे तु खलु मासे गर्भप्रपीडिता वातपित्तश्लेष्माण[ -श्लेष्माणो] उरः प्राप्य सविदाहं[ विदह्यमानाः] कण्डूं जनयन्ति ।तेन किक्किसानि जायन्ते स्त्रीणाम् ।
त्रिफलाचूर्णं शशरुधिरेण पिष्ट्वा तेनास्याः तान्यालेपयेत् ॥

4.8.9

अष्टमे तु खलु मासे प्रतिविहिते सति सूकिकागारं सम्यक् प्राग्द्वारमुदक्द्वारं वा कारयेत् तिन्दुक- पलाश[ फलाश]-अश्वत्थैः ।
।

4.8.10

अथात्र पूर्वसंकल्पिताः स्युः द्वौ खलु बिल्वमयौ पर्यङ्कौ शूर्पौ च द्वौ तण्डुलमुसलौ गण्डोपधानं यवागूः[ मयौ] सर्पिश् च तैलं च सर्षपाश्चेति ॥

4.8.11

अथैनां प्रजनयिष्यतीति यवागूं पाययेत् ।
अनागतगर्भवेद् अनां चैनामवहननं च कारयेत् ।
सा यदि जानीयादवभ्रष्टो मे कुक्षिः प्रविमुक्तो मे हृद्गर्भः प्रस्रुता मे योनिरिति, अथैनाम् उपकारिकल्पितनखाश्चतस्र उपजीविकाः[ उपजीवा] प्रतिदिनम् उपतिष्ठेयुः ।
शनैः पूर्वं प्रवाहेतपश्चाद्[ प्रवाहेतत्पश्चाद्] बलवत्तरम् इति ।न चाप्य् अनागतवेगा वा बालिशतया[ बाबाहूह्लिततयाद्या], अनागतवेगा हि दुःखायात्मानं[ तना दुःखा] प्रयच्छति सह पुत्रेण ॥

4.8.12

तस्याश्चेत् प्रजाताया[ प्रजातायापरानप्र] अपरा न प्रपद्यते, तदैनां रक्तशालीनामक्षमात्रं कल्कमम्लेन[ कल्प्य] मूत्रेण[ मूत्रेण] वा पाययेत् ।
एतेनैव कल्पेन दन्तीद्रवन्तीवृश्चिकालीवुनर्नवावनशीर्षाकं कारयेत् ।
तथा[ तलौ]-उमाकाल- सर्प[ सर्व]-पुराणमालानाम् अन्यतमेन धूपयेत् ।
सा चेदनेन विधिना न प्रवर्तते अथैनां तीक्ष्णफल- तैलेन[ तैरे]-अनुवासयेत् ॥ [ अयमध्यायः मातुकायामर्धे विच्छिन्नो दृश्यते ।] ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. इति भेले शारीरे ऽ ष्टमे ऽ ध्यायः ॥ इति भेलसंहितायां, शारीरस्थानं समाप्तम् ॥ ॥ इन्द्रियस्थानः ॥ ॥ प्रथमो ऽ ध्यायः ॥ ----------------------------------- -----------------------------------

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc