भेलसंहिता · अध्याय 4.7
इह खलु शरीरे षट् त्वचो भवन्ति ।
उदकधरा प्रथमा ऽ सृग्धरा द्वितीया, सिध्मकिलाससंभव[ मं] अधिष्ठाना तृतीया, दद्रुकुष्ठसम्भवाधिष्ठाना चतुर्थी, अलजीविद्रिधिसम्भवाधिष्ठाना पञ्चमी, षष्ठी तु यस्यां छिन्नायामुत्ताम्यति तिमिरमिवानुप्रविशति दुष्टारुष्काणि चास्य यामाश्रित्य् अ जायन्ते इति ॥
अस्थिगणना---त्रीणि सषष्टीनि[ सषष्ठिणि शवा] शतान्यस्थ्नां तद् यथा---द्वात्रिंशद्दन्ताः, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखाः[ पणिपादशलानान्यङ्गुल्यस्थीनि], षष्टिः पाणिपादाङ्गुल्यस्थीनि, विंशतिः पाणिपादशलाकाः, चत्वारि पाणीपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योर् अस्थिनी[ पार्षोरस्थीनि], चत्वारः पादयोः गुल्फाः, द्वौ मणिकौ, माणिके द्वे हस्तयोः, चत्वार्यरत्न्योर् अस्थीनि[ चत्वार्यशयो], द्वे जङ्घयोः, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ[ दावूरुद्वावूरुनशक्तौ], द्वावंसौ, द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुनी, द्वे चिबुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि[ पृष्ठगतौ धृस्थिनि], पञ्चदश ग्रीवायाम्, चतुर्दशोरसि, चतुर्विंशतिः पर्शुकाः पार्श्वयोः, तावन्ति[ यावन्ति] चैव स्थालकानि, तावन्ति चैव स्थालकार्बुदकानि, एकं हन्वस्थि, द्वे हनुबन्धने, एकं नासास्थि- हनु[ तथा हनु]-कूटललाटम्, चत्वारि शीर्षकपालानि ॥
हृदयमेकं चेतनायतनम् ।
दश प्राणायतनानि तद् यथा---मूर्धा कण्ठो हृदयं गुदो नाभिर् वस्तिरोजः शौक्लं शोणितं मांसम् इति ॥
पञ्चदश कोष्ठाङ्गानि[ कोष्ठानि] ।
तद् यथा---नाभिश् च हृदयं च क्लोम च यकृच् च प्लीहा च वृक्कौ च वस्तिश् च पुरीषाधानं चामाशयश्चोत्तरगुदश् चाधरगुदश् च क्षुद्रान्त्रं च स्थूलान्त्रं च वपावहनं चेति ॥
षट्पञ्चाशत्प्रत्यङ्गानि तद् यथा---द्वौ गुल्फौ, द्वे नितम्बे, द्वे जङ्घे, द्वे पिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफः, द्वौ शङ्खौ, द्वौ बङ्क्ष्णौ, द्वौ कुकुन्दरौ, एको वस्तिः, शीर्षमेकमुदरमेकम्, द्वौ स्तनौ, द्वौ बाहू, द्वांवसकौ, एकं चुबुकं, द्वावोष्ठौ, द्वे दन्तवेष्टे, द्वे सृक्वणी[ सृक्वणीति], एकं तालु, गलशुण्डिका एका, द्वौ कर्णौ, द्वे कर्णशष्कुलिके, द्वौ गण्डौ, द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिणी[ अक्षिणीति] इति ॥
शरीरद्रव्याणी---दशोदकस्याञ्जलयः शरीरे प्रच्यवमानं पुरीषमनुबध्वात्यतियोगे, नवाञ्जलयः पूर्वस्याहारपरिणामधातोर्यन्तं रस इत्य् आचक्षते[ आचक्षति] कुशलाः, अष्टौ शोणितस्य, सप्त पुरीषस्य, चत्वारो मूत्रस्य, द्वौ मेदसः, एको मज्ज्ञः, मस्तिष्कस्याञ्जलिः शुक्लस्य चेति ॥
अथात्र प्रश्नो भवति--- कतमयं जीवो[ देवो] देहाद्देहान्तरम् उपक्रमत इति अत्रोवाच भगवान् आत्रेयः ।
जलूकाया इवास्य केचिद्गतिं ब्रुवते ।
तन्न युक्तम् ।
इह व्यक्त्यन्तामूर्तं युगपत्स्यादेवापरे ऽ प्येवमिच्छन्ति ।
सर्वथापि मुमुक्षोरस्यायमन्तरात्मा परम् उपक्रमत इति सर्वथाप्यस्मिन् परित्य् अक्ते परिचये तावदसंप्राप्तं तरा स्यात् ।
अवस्थानत्वाच्चेत्तदिष्टं कर्मणोप्येवं भवति वैय्यर्थ्यम् अपि तु खलु प्रतिश्रुत्यापहितः परत्र गमनं तस्य विद्यात् ।
अथवा यथादित्य् अस्य हृदये भूमौ रश्मयः प्रतितिष्ठन्ते ।
विलम्बितावेवमतस्य तत्र गमनमनुपश्चेदिति ।
।
अथ खलु पुरुषे[ पुरुषा] षोडशाध्यात्मदेवता भवन्ति ।
तद् यथा---अग्निश् च पृथिवी चापश् चाकाशश् च वायुश् च विद्युच् च पर्जन्यश् च इन्द्रश्च[ -ग] गन्धर्वश् च मृत्युश् चादित्य् अश् च चन्द्रमाश् च त्वष्टा[ तृष्णा] च विष्णुश् च प्रजापतिश् च ब्रह्मा चेति ।
ताः कर्मभिर् विद्यादुत्पत्तितश् च परिमाणतश् च विद्यात् ।
ऊष्मा ह्य् अत्राअग्नेश्[ -ग्निश्] च कर्म देहे ।
घ्राणं च पृथिव्याः, स्नेहो रसो ज्ञानं चोदकस्य, स्पर्शनं वायोः, श्रोत्रं चाकाशस्य, रूपादानं पर्जन्यस्य संवेगादानानि विद्युतः, बलमिन्द्रस्य, कामो गन्धर्वाणां, कोपो मृत्योः, चक्षुरादित्य् अस्य, प्रसादश्चन्द्रमसः, रूपं त्वष्टुः, चेष्टा विष्णोः, व्यवायः प्रजापतेः, बुद्धिर्ब्रह्मण इति ॥
तत्र श्लोकः--- विशुद्धनेत्रास्तपसो मुनयः शान्तकल्मषाः ।
जगतश्चोपपन्नांश् च सर्वान्[ स्वर्भा] पश्यन्ति मानवान् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले शारीरे सप्तमो ऽ ध्यायः ॥ ॥ अष्टमो ऽ ध्यायः ॥ अथातो जातिसूत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0