भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 4.6

4.6.1

इह खलु भो मातृजश् चायं गर्भः पितृजश् चात्मजश् च सात्म्यजश् च रसजश् च ।
अस्ति च सत्त्वम् औपपादकम्[ औपवादकम्] इत्य् आत्रेयवचनम् ।
नेति भरद्वाजः ।
अमातृजश् चायं गर्भः अपितृजश् चानात्मजश्च- असात्म्यजश्[ अनात्मजश्] चारसजश् च ।
नास्ति च सत्त्वम् औपपादकम्[ औपवाधिकम्] इति ।
यदि हि माता पुत्रं जन्येत् भूयिष्ठं हि स्त्री पुत्रकामा मैथुनवर्गमभिस् अन्धाय पुत्रं जनयेत् स्त्रीकामा च स्त्रियम् ॥

4.6.2

यदा[ -वि] जीवेन् अ सह सूक्ष्मावग्निमारुतौ गर्भं विशतः तदा[ -व] द्वावेतावङ्गप्रत्यङ्गानि विकुरुतः,तौ चेष्टयतः[ चेष्टतः], तौ वर्धयतः, तावेव यदा शरीराद् व्यवक्रामतः तदा तद्भवति निर्वातो निरूष्मा प्रेतो मृत इति ।
नेत्याह भरद्वाजः ।
मृतो ऽ पि जन्तुः वायुनाध्माष्यते, अग्निना शोष्यते ।
नेत्याह भगवान् आत्रेयः ।
सह वा तस्याग्निमारुतौ जीवयतः, तयोर् अपक्रान्तयोर् [ अपक्रान्तयोर् वात्य] बह्याग्निमारुतावाविशत इति ॥

4.6.3

यत्पुनराः सति च भूतनानात्वे[ भूतर्नात्वे] कथमेकः स्यादिति अत्रोच्यते ।
यत्रैतन्नानात्वमाश्रितं तदेतदव्यक्तमस्ति पञ्चमहाभूतसंग्रह इति ॥

4.6.4

यत्पुनराह यद्यव्यक्तं सर्वं स्यादविकारः स्याद् इति[ य---स विवस्यादधि], अत्रोच्यते ।
वातपित्तश्लेष्मकृता रससमुत्था अस्य व्यक्ताः प्रोच्यन्ते विकाराः, अव्यक्ते ह्युक्ते ते[ रुते] व्यक्ताः कथमव्यक्तं स्रक्ष्यन्ति, कथं तर्हि शरीरे तद्विक्रियते, उन्मादः कथमव्यक्तं मनः स्पृशतीत्य्[ स्पृशतिथेन] एतच्चानुपपन्नम् ।
किं तर्हि यथादित्य् अस्सम्भूतो ऽ पि मेघान्तरितो[ मेमाम्तरितो] न प्रकाशम् उपजनयति तथा[ ---] मनो ऽ न्तर्हितेषु विज्ञानस्रोतस्सु तमसा स्मृतिं नोपजनयतीति ॥

4.6.5

यत्पुनराः यद्ययं परलोकाद् गर्भो ऽ वक्रामेन्नास्य[ गर्म उक्त] किञ्चित्तत्रादृष्टं स्यादिति, अत्रोच्यते ।
इह तावदयं चिरोत्सृष्टानि विज्ञानानि विविधानि चाश्चर्यभूतानि न स्मरति किं पुनर्देहान्तराणि भूतानि भावविशेषा- अन्तराणि[ ---] ॥

4.6.6

तत्र श्लोकः--- तमसा भावितो यो वै संस्मरेन्न स मानवः ।
संस्मरेत्पूर्वचरितं सुकृते वेदवद्[ वेदविदृज] द्विजः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले शारीरे षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ॥ अथातः शरीरसंख्याशारीरं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc