भेलसंहिता · अध्याय 4.5
इह खल्वोजस्तेजः शरीरे नित्य् ए च[ व] भवतः ।
तयोः[ तेयो] स्थानानि द्वादश भवन्ति ।
तद् यथा--- त्वक्शोणित[ वशोणीत]-मांसमेदो ऽ स्थिमज्जाशुक्लस्वेदपित्तश्लेष्ममूत्रपुरीषाणीति ।
तान्यव्यापन्नानि सुखम् इत्य् उच्यते ।
व्यापन्नैस्तु[ व्यापन्नेस्तु] वातपित्तश्लेष्माणः प्रदुष्टा रसादिषु विकारानुपजनयन्ति ॥
अथ योनयश्चतस्रो भवन्ति ।
तद् यथा---जरायुजाण्डजोद्भिज्जस्वेदजाश्चेति ।
तत्र जरायुजा जरायुयुक्तास्संभवन्ति[ -यु] पशुमृगमनुष्यादयः ।
शकुन- मत्स्य[ मछ]-कच्छप- सर्प[ सर्व]-प्रभृतयोण्डजाः ।
यूकामत्- कुण[ कुप]-पतङ्गाशिविषमक्षिकादयः स्वेदजाः ।
उद्भिज्जास् तु तृणलतावृक्षवनस्पतय इति ॥
तत्र पुष्पफलवन्तो वृक्षाः ।
अपुष्पफलवन्तो वनस्पतयः ।
सपुष्पाः सफलाश् चापुष्पाश् चाफलाश् च बीरुधः ।
फलपाका लताश्चौषधयः ।
तत्र ये श्वेतक्षीराः सौम्याः, रक्तक्षीराः काद्रा वारुणा वालिग्रहा इति ॥
इह खलु त्रिषु दशरात्रेषु पुमान् रसेन संयुज्यते ।
आसां तु खलु चतसृणां योनीनां ऋतुकाले यदा रसाः सम्यक् प्राप्तिं वा गच्छन्ति तदा गर्भः तिष्ठत्य्[ तिष्टे] अविकृतः विपर्यये विपर्ययः ॥
त्र्यहन्तु[ -ह] खलु पुराणरुधिरं परिवर्जयेत् ।
किञ् च तत्पुराणम् यदादितस्त्र्यहं परिस्रवदृतुकाले तत्पुराणम् ।
तस्मिन् त्र्यहे गर्भ- उपक्रमणे[ उपक्रमेण] न तिष्ठति ।
अवस्थितो[ अवस्थि वा] वा नायुषि समर्थो भवति ।
निर्गते[ निर्गवे] तु त्र्यहेण पुराणे रुधिरे चावस्थिते[ ण] शुद्धस्नातायाश्चतुर्थषष्ठ- अष्टम[ अष्ट]-दशम- द्वादशेषु[ द्वादशमु] अहस्सु गर्भोवक्रममाणः पुमान् भवति ।
पञ्चमसप्तम- नवमैकादशेषु[ -नवैकादशु] स्त्रीत्वायोपकल्पते ।स एष आसप्तरात्रात्सर्वसञ्चारो ऽ भिदधत्यतः परमसञ्चारोवकृतत्वाद् वाल्पात् ॥
स्त्रीणां खलु शोणितं शरीरं शोषयति तस्मान्न ताः रजः पश्यन्ति ।
परिपूर्णधातुशरीरास् तु यदा भवन्ति तदा विवेकजललोहितं मासे मासे प्रतिवेदयन्ति ।
प्रतिगतप्रवेशं च तत्पुनर्मासेन समागच्छत्यार्तवम् ॥
यदा तु तच्छोणितं दुष्टं मार्गं प्रतिपद्यते तदा स्त्रीणां प्रदरो भवति ।
तं शरीरं शोषयन्तं[ शोषय] लोहितपित्तभेषजेनोपक्रमेत ॥
गर्भिण्यास् तु त्रिधा काये रसो ऽ भिनिर्वर्तते, गर्भत्वाय[ गर्भात्पा] स्तन्यत्वाय रसत्वाय चेति ॥
इह खलु भोः गर्भात्स्थिरादन्तःस्थादायतमुदरं[ -स्थितावस्थातमा] भवति मध्ये नार्यामन्तर्गतायाम् ।
स्थूलमूलसंस्थितसंवृत्तमच्छिद्रं पुरुषो ऽ न्तर्गते ।
द्रोणीवोदरं[ द्रोणिचोदरं] भवत्युभयोर् अन्तर्गतयोः ।
वामं पार्श्वमायतं मातुरुदरस्था स्त्री, दक्षिणे पुमान्, मध्ये नपुंसकम् ।
वाममक्षि ह्रसति नार्यामन्तर्गतायाम्, पुरुषे दक्षिणम्, उभे नपुंसके ।
सव्यं पादं पूर्वं प्रक्रामति सव्येन चाक्ष्णा भ्रुवा च पूर्वं प्रति कुरुते, चेष्टते च[ न] सव्येन[ सर्वेन] पार्श्वेन प्रायः संविशति[ शंसते] स्त्रीसंज्ञानेषु च प्रायशो दौहृदं कुरुते नार्यामन्तर्गतायाम् ।
विपर्यये तदतः पुरुषं बिभर्तीति विद्यात् ॥
अथ इह[ ये] खलु गर्भस्य षड्भ्यः स्थानेभ्यः शरीरमभिनिर्वर्तते ।
तद् यथा---जलकायाद् वायुकायात् तेजःकायात् पृथिवीकायाद् आकाशकायाद् रसकायाच् चेति ॥
षड्धातुर् एवायं पुरुषो भवति ।
धातवः पुनः पञ्च भूतानि ब्रह्म यदव्यक्तम्[ पदव्यक्तम्] ॥
तत्र यत् खरकठिनम्, तद् यथा---दन्तकेशरोम- नख[ मुख]-पुरीषस्नाय्वस्थि, गन्धज्ञानघ्राणसङ्घातगौरवाणीति ।
यद् द्रवं स्निग्धं मृदु वा तदौदकम् ॥
तद्यदा[ तद्यमु] सन्निपतितयोर् यत्र पुरुषः पूर्वमर्थं[ सर्वमर्ध] नन्दयति जघन्यं स्त्री तत्र पुमानिहाङ्गप्रत्यङ्गैः[ पुमानिप्रत्यङ्गैः] सदृशो जायते ।
यत्र तु स्त्री प्रथममर्थं साधयति जघन्यं पुरुषः, तत्र स्त्री वाङ्गप्रत्यङ्गैस् सदृशी[ सदृशो] जायते ॥
अथ स्त्रीपुरुषावृतुकाले[ -नाले] रूक्षाणि वातलान्यन्नानि[ वातशान्यन्नानि] सेवेते, वेगांश् च धारयतः, तयोर् गर्भः शोणितादिषु वातसंदूषितेषु निःसृतो[ विःसृतो] भवति, गद्गदबाधिर्यमिन्मिणत्वमन्येषां च वातपित्तविकाराणामन्यतमं प्राप्नोति ।
एवम् एव पित्तश्लेष्मलानृतुकाले मातापित्रोः सेवमानयोः पित्तश्लेष्मविदूषितो गर्भः सम्भवति ॥
अथ खलु गर्भशरीरं चत्रुदशेन्द्रियकायाः समनुप्रविशन्ति ।
विधृताश् चानुपलभ्यमानाश् च सप्तदिव्याः सप्तमानुषाः ॥
तत्र दिव्याः ब्रह्मदेव[ ब्रह्मदेवतं]-वरुणगन्धर्वपिशाचासुरमहारजकाया भवन्ति ।
तान् व्याख्यास्यामः ।
तत्र यः सत्यार्जवानृशंसक्षमादम्- अध्यान[ अद्वायान]-सम्पन्नो ऽध्यात्मतत्त्वदर्शी भवति तं ब्रह्मकायम् इति विद्यात् ॥
यस्ताद्यशीलोपादानयद्यत्रैयवान् मुदितस्तं देव कायम् इति विद्यात् ॥
यो यज्ञनन्दितरागदृष्टिः सलिलप्रियश्चिरस्नायी पिङ्गाक्षः कपिलकेशः संभवति तं वरुणकायम् इति विद्यात् ॥
यस् तु प्रियनृत्यगीतवादित्रः स्त्रीविहारनित्य् अः शुचिवस्त्रगन्धमाल्यानुलेपनरतिर् भवति तं गन्धर्वकायाम् इति विद्यात् ॥
यस् तु प्रियमद्यमांसमत्स्यस् तथा गोमहाशनो बीभत्सो बालानां भीषयिता निद्राबहुलश् च भवति तं पिशाचकायम् इति विद्यात् ॥
यस् त्वात् मगुरूणां[ -गु] मानयिता पश्चाद् द्वेषी चण्डः क्रोधनो ज्ञातीनां भेदको भवति तमासुरं कायम् इति विद्यात् ॥
यस् तु धीरः शूरः महाभोगो महोत्साहो महैश्वर्यश् च भवति तं महाराजकायम् इति विद्यात् ॥
अनुरागेण मानुषास् तु प्रत्यात्मदर्शनश्रवणस्पर्शनरसनघ्राणसुखदुःखम् इति तत्प्रविद्यासहिताः केवलाश् चावतिष्ठन्ते कार्त्स्न्येन ।तैरन्वितो जन्तुर्लिङ्गति निमिषति आकुंचति प्रसारयति वेद्यं वेदयते ॥
स[ न] यदा भेदं गच्छति तदायमन्ततः[ तथायः अन्तः कायम् एव यान्ति] जलं जलकायम् एव याति, वायुर्वायुकायं, तेजः तेजःकायं, पृथिवी पृथिवीकायं, आकाशमाकाशकायम् इति ।
यथाकायम्[ दायम्]- इन्द्रियकायं[ -कालं] भजते ॥
भवति चात्र--- विद्यमाने शरीरे वै धातुर्धातुं नियच्छति ।
मनो बुद्धिश् च सर्वेषां ब्रह्मणि प्रतितिष्ठति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले शारीरे पञ्चमो ऽ ध्यायः ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथातः खड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0