भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 4.4

4.4.1

इह खलु भो अयम्[ जय]-अन्नात्पुरुषो भवति ।
रसजन्मानो ऽ स्य[ रज्ज] व्याधयो भवन्ति ।
तद् यथा खल्वयं पुरुषो रसजन्मा रसजीवी रसज्वलनो रससमाधिको रसजीवनश् च भवति ।
रसानामसम्यगुपयोगान्मिथ्योपयोगात्तद्विकारानृच्छति ।
न कश्चिन्मिथ्योपयोगादजीर्णापथ्यभोजनात्स्वस्थो भवति ॥

4.4.2

अथात्र प्रश्नो भवति ।
को ऽ त्र खल्वस्याहारं पचति वातः पित्तं श्लेष्मानुपानं वेति ।
नेत्याह भगवान् पुनर्वसुरात्रेयः ।
यद्येते पाकहेतवः स्युस्तर्हि न कश्चिदिह दुर्बलाग्निः स्याद्वातादीनां सन्निहितत्वात् , सानुपानत्वाच् च ।
अथास्योष्मा तेजश् च शरीरस्थमाहारं पचतः ।
ते कायाग्निर् इति[ -अग्ने] विद्यात् ॥

4.4.3

तत्र भेल आत्रेयमिदमुवाच---भगवन् ।
पञ्चधा ये शारीराः[ शारीरा] पठ्यन्ते; आलोचकराजकभ्राजकसाधक- पाचकभेदेन[ वा]; तेषां कथम् इदं[ इदां] पञ्चाभिधायिनां पृथक्त्वं भवतीति ॥

4.4.4

अत्रोवाच भगवान् आत्रेयः तत्रालोचको नाम वर्षशीतातपप्रवृद्धः ।
स द्विविधः ।
चक्षुर्वैशेषिको बुद्धिवैशेषिकश्चेति ।
चक्षुर्वैशेषिको नाम य आत्ममनसोस्सन्निकर्षज्ञानमुदीरयित्वा चित्ते चित्तमप्याधाय संस्वेदजाण्डजोद्भिज्जजरायुजानां चतुर्णां भूतग्रामाणां लक्षणसंस्थानरूपवर्णस्वरैर् उच्चावचानां पुष्पफलपत्राणां रूपनिर्वृत्य् अर्थमेकैकस्य[ अर्थमैकेकं द्वौ वा त्रयो वा] द्वयोस्त्रयाणां सर्वेषां वा युगपत्प्रणिपतितानां चक्षुषा वैशेष्यमुत्पादयतीति[ वैषम्य] ॥

4.4.5

बुद्धिवैशेषिको नाम यो भ्रुवोर्मध्ये शृङ्गाटकस्थः सुसूक्ष्मानर्थान् अध्यात्मकृतान् गृह्णाति ज्ञानेन, ज्ञेयं ज्ञानं कृत्स्नज्ञेयकैवल्यार्थेषु दर्शयति ।
तस्माद् ज्ञानज्ञेयं ज्ञात्वा ज्ञानं गृह्णाति ।
गृहीतं धारयति ।
धारितं प्रत्युदाहरति, अतीतं स्मरति, प्रत्युत्पन्नं कृत्वा ऽ नागतं प्रार्थयति, जातमात्रश् च पुनरनुपदिष्टस्वभावं मातृस्तन्यमभिलषति ।
ध्याने प्रत्याहारे योजनाच् च बुद्धिवैशेष्यमुत्पादयतीति ॥

4.4.6

तत्र भ्राजको नाम यो ह्यस्य[ यस्य] शरीरं लक्षणं चोपगमयति, प्राधान्यं प्रदर्शयति, शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घास्यनखनयनकेशानां च प्रतिभावृद्धिविशेषानुत्पादयति, भ्राजयतीति भ्राजकः ॥

4.4.7

प्रभविष्णुत्वेन्द्रियप्राबल्याद् बुध्यवस्थाहंकारेण वा- अभिमतर्थमर्थेभ्य[ अभिमते] आत्मकृतमाधते ।
चक्षुःश्रोत्रघ्राणरसनस्पर्शनवाक्पाणिपादपायूपस्थेभ्यः सर्वेषां विषयार्थानां स्वभावोपरक्तानां परस्परेभ्यो रागमुत्पादयतीति ।
अन्तर्मध्ये च पित्तस्थानमन्तरं प्रविश्य रागं जनयतीति राजकः[ राजकम्] ॥

4.4.8

साधको नाम यः[ या] शब्दस्पर्शगन्धेभ्यो ऽ र्थकामेभ्यश् च देवपितॄषिभ्यश् च इह चामुत्रकाणां च पादार्थानां विश्रेयसमधिकृत्य सर्वपदार्था नाप्नोति[ नां नूति] स्वयुक्त्या साधयतीति साधकः ॥

4.4.9

पाचको नाम अशितपीतलीढखादितमाहारजातं जातनीर्यं पाचयतीति[ - -च] पाचकः ।
यः स्वकं काममेवाग्निं प्रपूरयति हर्षयति ॥

4.4.10

भवन्ति चात्र--- यो ऽ यं निर्दहति क्षिप्रमाहारं सर्वदेहिनाम् ।
अपानमद्यनिदनः कायाग्निः परिपठ्यते[ परिपर्यते] ॥

4.4.11

प्रभावलक्ष्यस्संयुक्तो[ -लक्ष्यसति] जीवस्येह सनातनः ।
नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम् ॥

4.4.12

सोममण्डलमध्यस्थं विद्यात् तत् सूर्यमण्डलम् ।
प्रदीपवच् चापि नृणां तस्य मध्ये हुताशनः ॥

4.4.13

देहिना भोजनं भुक्तं नानाव्यञ्जनसंस्कृतम् ।
सूर्यो दिवि यथा तिष्ठन् तेजोयुक्तो गभस्तिभिः ॥

4.4.14

विशोषयति सर्वाणि पल्वलानि पयांसि च ।
तद्वच्छरीरिणां व्यक्तं[ भुक्तं] जाठरो नाभिसंस्थितः ॥

4.4.15

मयूखैः क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा ।
क्षिप्रं सम्यक् प्रदहति गोमयं काष्ठम् एव च ॥

4.4.16

स्थूलकायेषु सत्त्वेषु यवमात्रप्रमाणतः ।
ह्रस्वकायेषु सत्त्वेषु त्रुटिमात्रप्रमाणतः ॥

4.4.17

क्रिमिकीटपतङ्गेषु वायुमात्रो ऽ वतिष्ठति ।
यस्तं चिकित्सेत्सीदन्तं[ चिकित्सिद्धन्तं] व्याधिना चापि देहिनाम् ॥

4.4.18

आयुर्वेदाभियोगेन स वै कायचिकित्सकः ।
रसं च शोणितं चैव मेदो मांसमथापि च ॥

4.4.19

महत्यनशने न्ẏणां सर्वाण्य् एतानि खादति ।
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥

4.4.20

अग्नीषोमात्मकाः सर्वे देहिनस् तु चतुर्विधाः ।
सूर्यात्मकानि सर्वाणि[ चान्द्राणि] तथा सोमात्मकानि च ॥

4.4.21

महत्यनशने न्ẏणां तेनान्त्राणि स[ न] खादति ।
जाठरो जलसम्भूतः पावकः पवनैस्सह ॥

4.4.22

प्रदीप्यते नृणां कोष्ठे सति वेन्धनपूरितः ।
इक्ष्वाकुकोशम्[ शोक] आस्थाय यथा दीपः स्थिरे ऽ म्भसि ॥

4.4.23

तिष्ठते तिमिरे सक्तो न तथा चलिते ऽ म्भसि ।
एवं शरीरिणां कोष्ठे[ रूष्ठे] वैकृतेन पुनः पुनः ॥

4.4.24

अग्निर्वैषम्यमाप्नोति पूर्यमाणः पुनः पुनः ।
स च यत्नेन वै रक्ष्यो विपन्ने[ विपन्नो] दोषदर्शनात् ।
छर्द्यते[ द्वियर्त] चातिसार्येत विकारं चायमृच्छति ॥

4.4.25

असावसम्प्राप्तकालो[ श्वासं] य एवं म्रियते, वर्षशतं हि पुरुषायुस्तच्चानाप्तुं जीर्णलघुपथ्यभोजनानुवर्तिना भवितव्यम् इति ॥

4.4.26

तत्राह कस्माद् अलसकविषूचिकावान्[ -विषूचिकावसाध्यये वागवि] सद्य एवागदी भवति कश्चिन्म्रियत इति अत्राह---रूक्षस्याध्यशनेन- उत्पीडिता[ उत्पिति] वातपित्तश्लेष्माणः[ -श्लेष्माणि] ऊर्ध्वमधो वा नानुलोमा भवन्ति, उद्वृत्तैस् तत्र तैः सद्य एव म्रियते ।
स्निग्धस्याध्यशमोत्पीडिता वातादयः ऊर्ध्वमधो वा अनुलोमाः[ अनुलोमांस्वाङ्गसांस्तु] स्वाङ्गदेशांस् तु प्रदद्यन्ते, तत्र तैः सद्य एवागदी भवति ॥

4.4.27

अथ दशान्तर्गुहाः[ -अन्तहान्त], दश बहिर्गुणाः ।
तद् यथा---द्विचक्षुषी द्विनासिके द्वे श्रवसी कण्ठनाडीगुदमेढ्रवायुस्रोतांसीति[ स्रोतसी कण्ठनाभि-] दश अन्तर्गुहाः ।
दश धमन्यो हृदये[ हृदयं] निबद्धा भवन्ति ।
ताः प्रभवे[ प्रभवं] चतुरंगुलमात्रं गत्वा विंशतिर्भवन्ति ।एवम् एता दश धमन्यः षष्टिर्भवन्ति ।
तत्र तु भवन्ति[ भवन्तुत्री] त्रीणि शतसहस्राणि षष्टिरियं[ षह्तंशालि] जालानि सिराणां ।
तद् यथा--- वृक्षः[ वृक्ष] शाखावृतः[ शाखावृत] फलपलाशैरवतरति सर्वत्र ।
तद् यथा वा हागो[ हन्यो] अश्मभिर् अततः[ अश्मभिर् अतरः] तथायं[ ततायं] सिराभिर् अवततः ।
रोमकूपे रोमकूपे[ रूपकूपे] ह्य् अस्य सिरामुखं भवति, यतः स्वेदः[ स्वेतः] क्षरतीति[ क्षिरतीति] ॥

4.4.28

तत्राह कस्माद् अयं पुरुषो न सन्ततमपस्मरतीति अत्रोच्यते---यथा सरितां प्रादुर्भावे वारिजानि सत्त्वानि प्रादुर्भवन्ति हासे वा हसन्ति ।
यदा यदा रसवेगं प्राप्नुवन्ति तदा तदा अपस्मारयन्ति ।
तस्माद् द्व्यहात्त्र्यहात् पक्षान्मासान्तराच्चापस्मरन्ते ॥

4.4.29

केचिद्रक्षोपहत इत्य् आहुः, तच्चायुक्तम् ।
यदि ह्येवं स्याद् दृश्येरन् पुरुषशरीरे प्रहारादीनि वा ।
ततश्च[ तस्तच्छ] नैवम् ।
वेतालाभिभूत[ वेलावभूत] इति चेत्त चाप्य् अनुपपन्नम् ।
पुण्यानि ह्येषां मनांसि[ वनांसि] ध्यायन्ति[ ध्यायन्त्ये] ।
यदि चैवं कदाचिद्भवति ।
तस्मात् तद् एव पाठ्यं रसोपहतम् इति चेदेवम् एव ।
रसप्रविवेककाले तृतीयकचतुर्थकाव पि[ व] दृश्येते ज्वरावपि ।नेषत्रां ह्य् अननार्थः ॥

4.4.30

अत्राह किं खल्वस्य[ जल्प] गर्भस्य प्रथमं सम्भवति हस्तौ[ हस्तं] पादाविति बडिशः तत् प्रतिष्ठितत्वात् [ प्रतिष्टतात्] शरीरस्य[ शईरश्व] ।
पश्चाद् गुद इति शौनकः तदाश्रितत्वाद् वायोः ।
नाभिर् इति खण्डकाप्यः तत्र नाडीनां प्रतिष्ठितत्वात् [ प्रतिष्ट] ।
हृदयम् इति पराशरः विज्ञानमूलकानां तन्मूलत्वात् ।
शिर इति भरद्वाजः शरीरस्य तन्मूलत्वात् ।
चक्षुरिति काश्यपः ।
नेत्याह भगवान्पुनर्वसुरात्रेयः ।
तस्माद् अर्बुदमेवास्य प्रथमं सम्भवति ।
तत्र सर्वे शरीरप्रदेशास्सम्भवन्ति अर्बुदस्नेहोत्पन्नाः ॥

4.4.31

अत्राह---किं नु[ तु] गर्भो[ गर्वो] मातुरुदरस्थो ऽ श्नाति[ मातुरस्थो] न वेति ।
अत्रोच्यते नाश्नाति ।
यदि ह्य् अश्नीयात् स्याद् अस्य[ अस्या पुरुष] पुरीषमतीतकालं, न चेदमस्ति[ चेदसि] ।
कथं तर्हि नाभ्यां नाडी प्रतिष्ठिता तस्यामपरा मातुर्हृदयमाश्रिता तया मातुरन्नरसो ऽ भिवहन् गर्भं प्रीणयत्यभिवर्धयति ।
तद् यथा कुल्याः केदारमभिसंश्रयन्त्यो भावयन्ति तद्वत् ॥

4.4.32

तत्राह कथं गर्भो मातुरुदरे तिष्ठतीति ।
ऊर्ध्वम् इति शौनकः ।
अवाक्छिरा इति भरद्वाजः ।
नेत्य् आह भगवान्पुनर्वसुरात्रेयः ।
यद्य् ऊर्ध्वं तिष्ठेत् तर्हि मातृघाती स्यात् ।
यद्य् अवाक्छिराः स्वघाती स्यात् ।
कथं तर्हि तिर्यक् सर्वैरयमङ्गप्रत्यङ्गैः प्रतिभुग्नः शेते ॥ तस्य तदननतरं तत्प्रथमं प्रतिपद्यते [ सन्दर्भेणानेन प्रतिपिपादयिषितो ऽ र्थः न स्पष्टः] ।
तस्मात् तस्य शिरः प्रथमं पुनर्वसुरात्रेयः प्रतिपद्यते ।
तदस्य गुरुतरं भवतीति ।
अथ खलु वृक्को मेदो गुरुरिति संप्रवृद्धौ परस्परमभिवर्धयन्ति ॥

4.4.33

तत्र श्लोकः, ऊष्मा रसस्थो देहे ऽ स्मिञ्जीवनं गृह्य तिष्ठति ।
रसोद्भवः पुमांस्तस्माद् रसो जीवनमुच्यते ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले शारीरे चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातः शरीरनिचयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc