भेलसंहिता · अध्याय 4.3
इहासमानगोत्रान् तु[ वै] ऋतुस्नातां स्त्रियं व्रजेत् ।
मेधा विनमरोगं[ दि-] सा पुत्रमेवं प्रसूयते ॥
बीजदोषाद्यथा सस्यं न सम्यक् विप्ररोहति[ -रोहिणी] ।
मातापित्रोस् तु दोषेण तथा गर्भः प्रणश्यति[ प्रयच्छ] ॥
तस्मात् सम्यग्रसाहारा वृतुकाले[ दृ-] ऽ थ दम्पती ।
रहस् संयोगम् एयातां स्मरन्तौ मनसा विभुम् ॥
विकृताः स्युरगर्भा वै रसापथ्यनिषेवणे ।
सन्धारणाद्वा वेगानां योनिदोषेण वा पुनः ॥
योनौ दोषोपसृष्टायां[ दोषोपवृ-] न गर्भो ह्य् अवतिष्ठते ।
तथैव बाह्ययोनौ[ ब्राह्म] हि निर्वाहिण्यां[ निर्वाहिन्यां] च सर्वदा ॥
गृह्णाति वायुर्यस्यां च योनौ शुक्रम्[ रुश्रं] उपागतम्[ उपागतः] ।
बिभर्ति गर्भणी गर्भं शुद्धार्तवसमन्विता ॥
च्यवते च यदा चासौ तदा गर्भः प्रणश्यति ।
वातोदरं स्त्रियास्तद्वै तस्मा दूक्षाणि[ दूपा] वर्जयेत् ॥
भवत्यभ्यधिके शुक्ले पुरुषः शोणिते ऽ ङ्गना ।
नपुंसकं तयोः साम्ये तस्माच्छुक्लं विवर्धयेत् ॥
यदा तु कललं वायुस्तद् द्विधा कुरुते बली ।
यमौ तदा सम्भवतः कृष्णात्रेयवचो यथा ॥
तत्र शुक्लोत्तरे भागे पुमान् रक्तोत्तरे ऽ ङ्गना ।
अनेनैव च कल्पेन यमकेष्व् अपि निर्दिशेत् ॥
वायुस् त्व् अश्ववराहाणां देहेषु वलवान् पुनः ।
स तत्र कललं भित्त्वा करोति बहुपुत्रताम् ॥
नाप्नोति च यदा गर्भो रसं दुष्टैः सिरामुखैः ।
असंपूर्णो वसन्नागः तथा वर्षाणि तिष्ठति ॥
सम्पूर्णगात्रो भवति यदा स रसभावितः ।
तदा सूतो[ प्रसौत्यथाकाशं] यथाकालं गर्भः स्त्रीकुक्षिविच्युतः ॥
ये च ते विंशतिः प्रोक्ता योनिदोषाश् चिकित्सकैः[ चिकित्सिते] ।एतैश् चान्यैश् च बहुभिर् गर्भो व्यापद्यते स्त्रियाः ॥
तस्माद् एतांश्चिकित्सेत् तु दोषान् पुत्रचिकीर्षया ।
इभाश्वगर्भसारूप्यं[ इभाश्वा] प्रयोगाद्धि भवेच् छुचि ॥
वाय्वाकाशर्तुयुक्तो हि दैवतेष्व् इतरेषु तु ।
अन्तर्जातो जातवेदाः प्रभावायोपकल्पते ॥
ऋतौ यदा स्त्रीपुरुषौ प्रसन्नमनसौ रहः ।
उपेयाताम् अथ तदा गर्भो भवति सात्त्विकः ॥
ऋतौ यदा स्त्रीपुरुषौ व्यायस्तमनसौ भृशम् ।
उपेयाताम् अथ तदा गर्भो भवति राजसः ॥
ऋतौ यदा स्त्रीपुरुषौ प्रदीनमनसौ रहः ।
उपेयाताम् अथ तदा गर्भो भवति तामसः ॥
लक्षणं च समुत्थानम् इत्य् एतत् समुदाहृतम् ।
तिसृणां सत्त्वयोनीनां, मिश्रांस्तेनैव[ मित्रान्तेनैर] लक्षयेत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले शारीरे तृतीयो ऽ ध्यायः ॥ चतुर्थो ऽ ध्यायः ॥ अथातः पुरुषनिचयं शारीरं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0