भेलसंहिता · अध्याय 4.2
अङ्गाङ्गेषु प्रवृद्धेषु प्रतिमूलेषु धातुषु ।
शुक्लं च षोडशे वर्षे सुव्यक्तं प्रतिपद्यते ॥
तथा वृद्धस्य जन्तोश् च परिक्षीणेषु धातुषु ।
विवेका[ म] न यथापूर्वं विविच्यन्ते परिक्षयात् ॥
ततो ऽ ल्परेता भवति सुजीर्णो दुर्बलो ऽ थवा ।
न पश्यति नरः शुक्लं सर्वधातुपरिक्षयात् ॥
रक्तं मांसं वसास्थीनि[ च] मज्जा शुक्लं तथानलः ।
शकृन्मूत्रे च तैर्मन्दं विद्यान्नवतितः परम् ॥
इह नर्छति गर्भं स्त्री वातेनोपहता तथा ।
योनिदोषेण[ या] चान्नेन न हि वन्ध्यास्ति ना च न ॥
वमनं रेचनं चैव वस्तिमास्थापनं[ वस्तिरा] तथा ।
तस्मात् तत्कारयेत्स्त्रीणां प्रसिद्धाः प्रसुवन्ति[ प्रस] वै ॥
अथात्र भवति प्रश्नः कस्माच्छब्दं[ रसा छर्दिं] न नासया ।
गृह्णास्यास्येन[ गृहीष्वा] वा गन्धं तुल्यं सर्वत्र खं यदि ॥
त्वग्भागे[ त्वद्भा] च समे कस्मान्न गृह्णात्यन्यया रसम् ।
इति तद्वचनं श्रुत्वा प्रत्युवाच पुनर्वसुः ॥
घ्राणं गन्धं च भौमं हि रूपं[ रूक्षं] चक्षुश् च तैजसम् ।संस्पर्शं स्पर्शनं वायोः श्रोत्रं शब्दात्मखं[ शब्दात्मकं] तथा ॥
रसनं च रसो ह्य् आप्यं[ व्या-] तस्माद् एतैरिहेन्द्रियैः ।
यथास्वं तुल्ययोगित्वाद् विषयग्रहणं स्मृतम् ॥
स्वं स्वं हि विषयं धातुर् विजानात्य् आत्मनान्वितः ।
आत्मेन्द्रियमनोर्थानां बन्धाच्चेति[ बन्धिश्चे] समादिश ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले द्वितीयो ऽ ध्यायः ॥ तृतीयो ऽ ध्यायः ।
अथातो ऽ समानगोत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0