भेलसंहिता · अध्याय 3.6
आदित्य् अगतिवैशेष्यादृतूनां परिवर्तनात् ।
क्षयं वृद्धिं च गच्छन्ति यथास्वं धातवो नृणाम् ॥
भूमिबाष्पात्पुरोवाताद् घनच्छायाप्रसङ्गतः ।
महीकलुषसन्दुष्टात्पीयमानान्नवोदकात् ॥
ग्रैष्मिकात्कृशभावाच् च प्राणे दुर्बलतां गते ।
वर्षासु देहिनामग्निर्मृदुत्वम् उपगच्छति ॥
ततो विष्टम्भजो वायुर्यस्माद्धीतः प्रकुप्यति ।
तन्न सेवेत वर्षासु कट्वम्ललवणान् रसान् ॥
मुद्गयूषेण वाश्नीयात् पुराणान् शालिषष्टिकान् ।
अथवा यवगोधूमं सृष्टवाते हितं स्मृतम् ॥
पटोलानि च तक्रं च जाङ्गलांश् च रसान् लघून् ।
कौपं दिव्यं जलं सिद्धं भजेदास्थापनानि च ॥
असंस्थितत्वाद् वर्षासु जलमम्लं विपच्यते ।
तस्माद् विवर्धते पित्तं यथाम्लैश् च तथाशनैः ॥
सूर्योपतापात्सहसा गत्वा चैवौषधीकृतम् ।
वर्षासु निचयं पित्तं कोपं शरदि गच्छति ॥
स्नानानुलेपनं तस्माच्छीतं शरदि कारयेत् ।
वीजयेत् तालवृन्तैश् च विगाहेत सरस्सु च ॥
लाजसक्तुं पिबेच् चापि शर्करामधुवारिभिः ।
मुद्गयूषेण चाश्नीयात् पुराणान् शालिषाष्टिकान् ॥
रसान् मधुरकांश् चापि जाङ्गलान् सर्पिषा कृतान् ।
विदारीक्षुरसं द्राक्षां सेवेतान्यच् च तद्विधम् ॥
गतपित्तप्रवेगश् च शरत्काले घृतं पिबेत् ।
तथास्याप्याय्यते देहः शेषा दोषाश् च यान्त्यधः ॥
पश्चाद्वातस्य रूक्षत्वाच् छीतलत्वाद् ऋतोस् तथा ।
हेमन्तेन निगच्छन्ति खरत्वं धातवो नृणाम् ॥
तस्मात् स्नेहं बहुविधं स्नानं चोष्णेन वारिणा ।
भजेत्खरत्वपारुष्ये तथाभ्यङ्गात्प्रशाम्यति ॥
शकुनानौदकान्मत्स्यान् स्नेहाम्ललवणान्वितान् ।
आनूपानि च मांसानि सेवेतान्यच् च तद्विधम् ॥
कटुर्हि पश्चिमो वायुः शैत्य् अं तीव्रं च वारिणः ।
अत्यर्थं रूक्षयेद् वायुः शरीरं रूक्षभोजात् ॥
गुरुप्रावरणश् च स्यादातपाग्नी च संश्रयेत् ।
रूक्षे हि तेजसा जन्तोः शरीराद्ध्रियते बलम् ॥
आपो हि शीतमधुरा हेमन्ते तु भवन्त्यथ ।
तस्मात् कफस् तथा ताभिः स्निग्धैरन्नैश् च चीयते ॥
शीतलत्वाद् ऋतोश् चापि न तावत्परिभिद्यते ।
तस्मात् तैलगुडोपेतां वारुणीं शिशिरे पिबेत् ॥
विविधानि च मांसानि भक्षयेच् च प्रकारतः ।
एवं तु निचितः श्लेष्मा शीतत्वाद् इह देहिनाम् ॥
द्रवतामेति संस्पृष्टो वसन्ते सूर्यतेजसा ।
रविर्हि मध्यमां काष्ठां वसन्ते प्रतिपद्यते ॥
दह्यतामिव शैलानां नृणामङ्गे प्रकुप्यति ।
ततः श्लेष्मा द्रवीभूतो हृदयं व्यपलिम्पति ॥
तस्माच्छर्द्यविपाकौ च दृश्येते शिशिरात्यये ।
तस्माद् वसन्ते श्लेष्मघ्नं मधुमार्द्वीकमीरितम् ॥ इति भेले षष्ठो ऽ ध्यायः ॥ इति भेलसंहितायां विमानस्थानं समाप्तम् ॥ ॥ शारीरस्थान ॥ द्वितीयो ऽ ध्यायः ॥ भ्ष्4.2. ॥ मानो ऽ वतिष्ठते ।
जातस्य दशमे मासे नामगोत्रे नमस्कृते ॥ भ्ष्4.2. ।
तरुणस्य कुमारस्य वर्धमानेषु धातुषु ।
अस्थिमज्जसु पूर्णेषु शुक्रं न प्रतिपद्यते ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0