भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 3.5

3.5.1

गुरुव्याधिर्नरः कश्चिन्मूर्त्या चैव बलेन च ।
लघुव्याधिः नरस् त्व् अन्यः सत्त्वाद् इभिर् अनन्वितः ॥

3.5.2

गुरुव्याधिरिवाभाति भिषक् तत्र प्रमुह्यति ।
तत्राल्पमात्रं भैषज्यं सेवितं गुरुरोगिणाम् ॥

3.5.3

न निर्दहत्यतः सर्वान्दोषानल्पेन तेजसा ।
मूर्छा छर्दिस्तिमितता जृम्भा च गुरुगात्रता ॥

3.5.4

तृष्णा सन्ततभावश् च भवन्त्य् एतानि तस्य तु ।
मुस्ता कुष्ठं हरिद्रे द्वे प्रग्रहातिविषामयाः ॥

3.5.5

भल्लातकं वयस्था च चित्रकः सुरदारु च ।
एतैरास्थापनं तच् च कुर्याद् गोमूत्रसंयुतैः ॥

3.5.6

पूर्णादिष्टानदिष्टांश् च तथा शान्तिं नियच्छति ।
आरग्वधं सप्तपर्णं मदनं स्वादुकण्टकम् ॥

3.5.7

शार्ङ्गेष्टां कटुकां पाठां नक्तमालं सवत्सकम् ।
एतदारग्वधार्थं तु कुर्याद् आस्थापनं भिषक् ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथात ऋतुविमानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc