भेलसंहिता · अध्याय 3.4
प्रमृश्य दृष्ट्वा पृष्ट्वा च परीक्षेतातुरं भिषक् ।
पूर्वं तु रोगविज्ञानं ततः पश् चाच्चिकित्सितम् ॥
रूपं छायाम् उपचयं प्राग्व्याधेर्व्याधितस्य च ।
दृष्ट्वा भिषक् परीक्षेत प्राकृतं वैकृतं तथा ॥
ज्वरस्य साम्यं वैषम्यं गात्रं वा श्लक्ष्णकर्कशम् ।
दृष्ट्वा स्पृष्ट्वावगच्छेद्धि शैत्य् अमौष्ण्यं च पाणिना ॥
मातापितृसमाचारं सात्म्यं गर्भेण दौहृदम् ।
व्याधिकालपरीणामं शकृन्मूत्रविवर्णताम् ॥
पूर्वरूपसमुत्थानं शरीराग्निवयोबलम् ।
प्रकृतिं जन्मदेशं च भोजनं च यथोचितम् ॥
व्यायामनिष्ठासात्म्यं च मात्रामात्रे च भोजने ।
प्रश्नोक्तानि विजानीयाद्यदन्यदपि तद्विधम् ॥
केचिदिच्छन्ति मुनयो दोषमेकमिहाधिकम् ।
विकारस्याविशिष्टत्वाद् अनिष्टं कारणं च तत् ॥
रूक्षासहो नरो यस् तु स वातप्रकृतिः स्मृतः ।
पेत्तिको ऽ म्बुसहश् चापि मधुराम्लासहः कफात् ॥
स्वभावप्रभवो ह्येष सहोत्पन्नो गुणागमः ।
प्रकृतिं वै विजानीयात् तस्य वक्ष्यामि लक्षणम् ॥
अव्यक्तं च महांश् चैव महाभूतानि पञ्च च ।
पराः प्रकृतयस्सप्त स्वभावः काल एव च ॥
तेभ्यो भवन्ति भूतानि तान्येव प्रतियान्ति च ।
इन्द्रियाणीन्द्रियार्थाश् च बुद्धयः पञ्च तास् तथा ॥
ऋतुकाले यदा नारी रूक्षाण्यन्नानि सेवते ।
उदावर्ते तथापीह कर्म चातिनिषेवते ॥
तदैवं वातसन्दुष्टं रक्तं गर्भाशयस्थितम् ।
तद्विधेनैव शुक्लेन यदा योगम् उपैति वै ॥
तदा वातप्रदुष्टेन शुक्लेन रुधिरेण च ।
वातप्रकृतितामेति गर्भः प्रागात्मनः स वै ॥
एवम् एवर्तुकाले वै भजन्त्याः कफपैत्तिकम् ।
श्लैष्मिकी पैत्तिकी चापि प्रकृतिर्जायते ततः ॥
ह्रस्वः शीघ्रः कृशश् चाणुः प्रलापी परुषप्रियः ।
स्तब्धाङ्गो विषमश्लिष्टो गणरूपे गणे धृतिः ॥
सहः क्लेशस्य विस्रम्भी रूक्षत्वगनवस्थितः ।
खरमूर्धजरोमाङ्गः क्षिप्रग्राही तथा स्मृतः ॥
स्वप्नेषु चोष्ट्रेणायाति वियत्य् अपि तु गच्छति ।
यस्योपशेते सुस्निग्धं स वातप्रकृतिर्नरः ॥
शिथिलाङ्गो ऽ गरुगन्धश्चण्डः शीघ्रो महाशनः ।
वलीपलितखालित्य् अशीघ्रपाकी तथाक्षमः ॥
वृत्ताक्षः क्रोधनो यश् च दुर्बलो दुर्बलेन्द्रियः ।
नाम्लाशः शीतशीताशी दुष्प्रजाः शीतलप्रियः ॥
अतिवर्णो ऽ तिमेधावी स्वप्ने पावकदृक् तथा ।
शीघ्रमावाति यः स्नातः पैत्तिकप्रकृतिर्नरः ॥
सुस्निग्धः श्लक्ष्णबद्धाङ्गः सुभगः प्रियदर्शनः ।
दृढस्मृतिश्चिरग्राही दृढभक्तिपरायणः ॥
प्रियमांसोष्णकटुकः प्रिययोषिद्बहुप्रदः ।
क्षमावान् बलवान् धन्यः शीतालुरशनप्रियः ॥
चिराद् दृढव्याधिरथो मितवागल्पभुक् स्मृतः ।
दीर्घदर्शी महोत्साहो धीरः क्लेशसहस् तथा ॥
रोमदन्तनखैः केशैर्बहुलैर्यस्सुबन्धनैः ।
चिरादावाति च स्नातः स्वप्ने पश्यति चोदकम् ॥
यस् तु रूक्षं तु सहते स श्लेष्मप्रकृतिर्नरः ।
संसृष्टप्रकृतिं विद्यात् संसृष्टैश् चापि लक्षणैः ॥
निवृत्ता प्रकृतिर्धन्या द्वन्द्वा भवति मध्यमा ।
सन्निपातात्मिका या तु जघन्या सा प्रकीर्तिता ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातो व्याधितरूपीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0